Monday 29 January 2018

“मनोगतम्” - ४० [ मन की बात - ४० ]


“मनोगतम्” - ४०   [ मन की बात - ४० ]
    प्रसारण-तिथिः - २८-जान्युआरि’२०१८  
                      - भाषान्तर-कर्ता - बलदेवानन्द-सागरः 
          मम प्रियाः देशवासिनः, नमस्कारः | अष्टादशोत्तर-विंशति-शत-तमस्य वर्षस्य इदं प्रथमं मन की बात - इति प्रसारणम्, अपि च, दिवस-द्वय-पूर्वमेव वयं गणतन्त्र-पर्वणः आयोजनम् अतितराम् उत्साहेन कृतवन्तः | इतिहासे प्रथम-वारमेव एतत् जातं यत् दश-संख्याकानां देशानां प्रमुखाः समारोहेsस्मिन् समुपस्थिताः आसन् | 
          मम प्रियाः देशवासिनः, श्रीमान् प्रकाश-त्रिपाठी NarendraModiApp- इत्यत्र दीर्घमेकं पत्रम् अलिखत्, तथा च, साग्रहं माम् अकथयत् यत् तस्य पत्रे लिखितान् विषयान् नूनमहं सन्दर्भयेयम् | सः अलिखत् यत् फेब्रुआरि-मासे प्रथमे दिने अन्तरिक्षङ्गतायाः कल्पना-चावला-इत्यस्याः पुण्य-तिथिः वर्तते | कोलम्बिया-अन्तरिक्ष-यान-दुर्घटनायां सा अस्मान् त्यक्त्वा गत-प्राणा जाता परञ्च जगति सा लक्षशो यूनां प्रेरणादायिनी सिद्धा | अहं भ्रातुः प्रकाश-वर्यस्य कार्तज्ञ्यम् आवहामि यत्तेन स्वीये दीर्घे पत्रे कल्पना-चावला-प्रयाणम् आरम्भे एव सन्दर्भितम् | एतत्तु अस्माकं सर्वेषां कृते दुःखदं यत् अल्पीयसि एव वयसि सा दिवङ्गता परञ्च सा स्वीय-जीवनेन, अशेष-जगति विशेषेण च भारतस्य लक्षशो बालिकाभ्यः इदं समदिशत् यन्-नारी-शक्तिः असीमितास्ति | यदि  इच्छा दृढ़-संकल्पः च स्तः, किञ्चित् नूनं करणीयमिति दृढ-भावः अस्ति चेत् न किञ्चिदपि असम्भवम् |  एतद्-दृष्ट्वा मनः प्रसीदतितरां यद् अद्यत्वे भारते महिलाः प्रत्येकमपि क्षेत्रे द्रुत-गत्या अग्रेसरन्ति, देशस्य गौरवं विवर्धयन्ति |
प्राचीन-कालात् अस्मदीयेsस्मिन् देशे महिलानां सम्माननं, समाजे तासां स्थानं, तासाञ्च योगदानम्, एतत् सर्वं सततं सम्पूर्णमपि विश्वम् आश्चर्य-चकितं करोति | भारतीय-विदुषीणां दीर्घा परम्परा प्रवर्तते | वेदानां ऋचानाम् आविष्करणे भारतस्य अनेकासां विदुषीणाम् ऋषिकाणां च  सुबहु योगदान- मासीत् | लोपामुद्रा, गार्गी, मैत्रेयी, पाला चेत्यादयः न जाने कति कति नामानि सन्ति ? अद्यत्वे वयं “कन्यां रक्ष, कन्यां पाठय” - इति प्रयतामहे परञ्च सहस्राब्देभ्यः प्राक् अस्मदीयेषु शास्त्रेषु, स्कन्द-पुराणे कथितम् :-
दशपुत्र-समा कन्यादशपुत्रान् प्रवर्धयन् |   
यत् फलं लभते मर्त्यःल्-लभ्यं कन्यकैकया || 
अर्थात् , का पुत्री दश-पुत्रैः तुल्या भवति | शभिः पुत्रैः यत् पुण्यं प्राप्यते, एकया पुत्र्या तत् पुण्यं लभ्यते | तथ्यमिदं अस्मदीय-समाजे नार्याः महत्वं दर्शयति | अत एव, अस्मदीये समाजे नारी शक्ति-स्वरूपा इति प्रतिष्ठापितम् | एषा नारी-क्तिः सम्पूर्णमपि देशम्, अशेषं समाजम्, कृत्स्नमपि कुटुम्बञ्च एकता-सूत्रेण आबध्नाति | भवन्तु नाम ताः वैदिक-कालिकाः विदुष्यः - लोपामुद्रा-गार्गी- मैत्रेयी-प्रभृतयः - तासां विद्वता वा अक्का-महादेवी-मीराबाई-प्रभृतीनां ज्ञानं वा भक्तिः, भवतु वा सा अहिल्याबाई-होलकरस्य शासन-व्यवस्था, आहोस्वित् भवतु सा राज्ञ्याः लक्ष्मीबाई-वीराङ्गनायाः वीरता -  नारी-क्तिः सर्वदैव अस्मान् अनारतं प्रेरयति स्म, सततञ्च प्रेरयति | देशस्य मानं सम्माननञ्च विवर्धयन्ती प्रवर्तते |
    श्रीमान् प्रकाश-त्रिपाठी इतः परमपि अनेकानि उदाहरणानि प्रादात् | सः अलिखत् यत् अस्मदीया साहसिका प्रतिरक्षा-मन्त्रि-वर्या निर्मला-सीतारमण-महाभागा यया सुखोई-त्रिंशत् इति योद्धृ-विमानेन उड्डीतम्, तच्च, नूनं प्रेरणादायि | सः वर्तिका-जोशी-इत्यस्याः नेतृत्वे भारतीय-नौसेनायाः महिला-सदस्य-वृन्दस्य आई-न्-स्-वी-तरिणी-द्वारा (INSV Tarini) अशेष-विश्वस्य परिक्रमा-विषयम् उल्लिखितवान् | भावनाकण्ठ-मोहना-सिंह-अवनी-चतुर्वेदीति तिस्रः साहसिक-महिलाः याः योद्धृ-विमान-चालिकाः सञ्जाताः साम्प्रतञ्च सुखोई-त्रिंशत्-विमानेषु प्रशिक्ष्यन्ते | क्षमता- वाजपेयि-वर्यायाः नेतृत्वे All Women Crue - इति सर्वाभिरपि महिला-सदस्याभिः समन्वितेन Air India Boeing Jet-विमानेन दिल्लीतः अमेरिका-देशस्य  San Francisco - नगरं यावत् ततश्च परावृत्य दिल्ली-पर्यन्तम् उड्डीतम् | भवता सम्यग् कथितम् - यद् अद्यत्वे नारी, प्रत्येकमपि क्षेत्रे न केवलम् अग्रेसरति, परञ्च नेतृत्वमपि करोति | अधुना अनेकानि तादृंशि क्षेत्राणि सन्ति यत्र सर्वप्रथमं, अस्मदीया नारी-शक्तिः किञ्चित् नावीन्यं प्रमाणयति | अभिनवं कीर्तिमानं प्रतिष्ठापयति |विगतेषु दिनेषु माननीयः राष्ट्रपति-महोदयः नवीन-प्रयासम् प्रारभत |
        राष्ट्रपति-महोदयः असाधारण-महिलानां वृन्दमेकं अमिलत् याः स्व-स्व-क्षेत्रेषु सर्व-प्रथमं किमपि उत्कृष्टम् अकुर्वन् | नूतनं कीर्तिमानं प्रतिष्ठापितवत्यः | देशस्य एताः महिलाः सन्ति - First female Merchant Navy Captain- इति नौ-सेनायाः प्रथमा पोत-चालिका, passenger-train- इति यात्रि-रेलयानस्य प्रथमा महिला-चालिका, रेलयानस्य प्रथमा महिला-चालिका, Fire-Fighter-इति अग्निशमन-यानस्य प्रथमा महिला-चालिका, प्रथमा महिला बस-यान-चालिका, Antarctica- इति दक्षिणीय-ध्रुवं सम्प्राप्ता प्रथमा महिला, ऐवरेस्ट- इति सर्वोच्च-पर्वत-शिखरम् आरूढवती प्रथमा महिला - एवं हि प्रत्येकमपि क्षेत्रे ‘First Ladies’- इति अस्मदीयाः प्रथमाः नारी-शक्तयः समाजस्य रूढिवादिताम् अपाकुर्वत्यः असाधारणाः उपलब्धीः अवाप्नुवन्, कीर्तिमानानि च प्रतिष्ठापितवत्यः |  एताः इदं प्रदर्शितवत्यः यत् कठोर-श्रमं निष्ठां दृढसंकल्पञ्च आधृत्य सर्वाः अपि बाधाः विघ्नान् चातिक्रम्य नूनं  नवीनं मार्गमुपकल्पयितुं शक्यते | तादृशः नवीनः मार्गः यः न केवलं स्वीय-समकालीनानां जनानां कृते अपि तु, भावि-प्रजानां कृतेsपि प्रेरकः स्यात् | नूतनया शक्त्या नवीनेन च उत्साहेन तान् आपूरयेत् | एताः समुपलब्धवतीः प्रथमाः महिलाः आलक्ष्य कं पुस्तकमपि सज्जीकृतमस्ति येन हि अशेष-देशः आसां नारी-क्तीनां विषये अवगताः स्युः, एतासां जीवनेभ्यः कार्येभ्यश्च प्रेरिताः भवेयुः | पुस्तकमिदं NarendraModi-website इत्यत्र e-book-रूपेणापि समुपलभ्यते |
          साम्प्रतं देशे समाजे च सञ्जायमाने सकारात्मके परिवर्तने देशस्य नारी-क्तेः महत्वपूर्णा भूमिका वर्तते | अद्य वयं यदा महिला-शक्तीकरणस्य चर्चां कुर्वन्तः स्मः तदा अहमेकं रेलास्थानकं सन्दर्भयितुमीहे | रेलास्थानकं महिला-शक्तीकरणञ्च, भवन्तः नूनं विचारयिष्यन्ति यदनयोः मध्ये कः सम्बन्धः ?  मुम्बय्याः माटुंगा-स्टेशन-इति रेलास्थानकं भारतस्य प्रप्रथमं रेलास्थानकं वर्तते यत्र सर्वाः अपि कर्मकराः महिलाः एव सन्ति | सर्वेषु विभागेषु महिला-कर्मचारिण्यः - आहत्य चत्वारिन्शदधिकाः महिलाः सन्ति | ऐषमः गणतन्त्र-दिवसीयानि सामूहिक-प्रयाणानि दृष्ट्वा Twitter- इत्यत्र अन्येषु च Social Media-इति सामाजिक-माध्यमेषु जनैः लिखितं यत् अत्र मुख्यम् आकर्षणम् आसीत् - BSF Biker Contingent- सीम-सुरक्षा-बलस्य बाइक-यान-चालिकानां वृन्दं यस्मिन् सर्वाः अपि महिला-चालिकाः आसन् | एताः साहसपूर्ण-प्रयोगं कुर्वन्त्यः आसन्, अपि चेदं दृश्यं वैदेशिकान् अतिथीन् अपि आश्चर्यचकितान् करोति स्म | शक्तीकरणं हि आत्मनिर्भरतायाः एव अनन्यतमं रूपम् | साम्प्रतम् अस्मदीया एषा नारी-शक्तिः नेतृत्वं करोति | आत्मनिर्भरा भवति |सद्यः स्मरामि यत्,  छत्तीसगढ़स्य अस्मदीयाः आदिवासि-महिलाः आश्चर्यम् अजनयन् | एताः नूतनोदाहरणं प्रस्तुतवत्यः | आदिवासि-महिलानां यदा उल्लेखः भवति तदा अस्माकं सर्वेषां मनस्सु एकं सुनिश्चितं चित्रम् उत्पद्यते | यत्र अरण्यं भवति, पाद-मार्गो भवति, तस्मिन् काष्ठ-भार-वाहिन्यः महिलाः प्रचलन्त्यः दृश्यन्ते | परञ्च छत्तीसगढ़स्य अस्मदीयाः आदिवासि-नार्यः, अस्मदीया एषा नारी-शक्तिः देशस्य सम्मुखं कं नवीनं चित्रं व्यरचयत् | छत्तीसगढ़स्य दंतेवाड़ा-क्षेत्रं यद्धि, माओवाद-दुष्प्रभावितं वर्तते | हिंसा,  अत्याचरणम्, बम-इति विस्फोटकम्, भुशुण्डिका, लघु-भुशुण्डिका - माओवादिनः - एतानि आधृत्य भयानकं परिवेशं निर्मितवन्तः | एतादृशेषु भयावहेषु क्षेत्रेषु आदिवासि-महिलाः, E-Rickshaw-इति चक्रिकायानानि चालयित्वा आत्मनिर्भराः भवन्ति | अल्पीयसि कालखण्डे अनेकाः महिलाः अमुना कार्येण संयुताः जाताः | एवं हि लाभ-त्रयं सिद्ध्यति -  एकतः स्व-वृत्तितया एताः क्ताः भवन्ति, अपरतश्च अमुना कार्येण माओवाद-दुष्-प्रभावितस्य क्षेत्रस्य परिदृश्यमपि परिवर्तते | तथा च, युगपदेव अनेन पर्यावरण-संरक्षणस्य कार्यमपि सबलं भवति | अत्रत्यं जनपद-प्रशासनमपि प्रशंसार्हं वर्तते, येन अनुदानादिकम् उपलम्भयित्वा आभ्यः प्रशिक्षणादिकमपि प्रदीयते, एवं हि जनपद-प्रशासनेन आसां महिलानां सफलतावाप्तौ महत्वपूर्णा भूमिका निर्व्यूढास्ति |
     वयं पुनः पुनः शृण्वन्तः स्मः यत् जनाः कथयन्ति -  ‘कुछ बात है ऐसी कि हस्ती मिटती नहीं हमारी’ | ‘किञ्चिद् वैशिष्ट्यमस्ति तादृशं यदस्तित्वं अविनाशि अस्मदीयम्’-  तत् किमस्ति ? तदस्ति, Flexibility – आनम्यता, परिवर्तनशीलत्वम्, रूपान्तरत्वम् | यद्धि काल-बाह्यमस्ति, तत् त्याज्यम्, यद्धि आवश्यकम्, तस्य परिष्कारः स्वीकर्तव्यः | अपि च अस्मदीय-समाजस्य विशेषता वर्ततेआत्म-परिष्कारस्य अनारतं प्रयासः, Self-Correction, एषास्ति भारतीया परम्परा, एषा अस्माकं संस्कृतिः अस्मभ्यं रिक्थत्वेन अधिगतास्ति | कस्यचन अपि जीवन-समाजस्य अभिज्ञानं भवति तस्य- Self-Correcting Mechanism- आत्म-परिष्कारस्य तन्त्रम्  | सामाजिक-कुप्रथाः कुरीतीश्च विरुध्य सहस्राब्देभ्यः अस्माकं देशे व्यक्तिगतेषु सामाजिकेषु च स्तरेषु सततं प्रयासाः भवन्तः आसन् | नातिचिरं बिहार-राज्ये रोचकः प्राथमिकः प्रयासः अभवत् | राज्ये सामाजिक- कुरीतीः समूलम् उन्मूलयितुं त्रयोदश-सहस्र-किलोमीटरमिताधिका विश्वस्य दीर्घतमा मानव-शृङ्खला, Human Chain- विरचिता | अमुना अभियानेन बाल-विवाह-यौतुक-प्रथा-सदृशीः कुरीतीः विरुध्य जनेषु जागृतिः प्रसारिता | यौतुक-बालविवाह-सदृशीः कुरीतीः विरुध्य अशेष-राज्यं योद्धुं संकल्पितवत् | आबाल-महिला-वृद्धाः युवानश्च, सोत्साहं अस्मिन् अभियाने सहभागिनः आसन् | पटना-नगर्याः ऐतिहासिकात् गान्धि-मैदान-स्थलात् आरभ्य मानव-शृङ्खला एषा राज्यस्य सीम-प्रदेशं यावत् अविच्छिन्न-रूपेण संकलिता जाता | समाजस्य सर्वेsपि जनाः समुचित-रूपेण विकासस्य लाभान् अवाप्नुयुः इति कृत्वा एतदावश्यकं यत् अस्माकं समाजः एताभ्यः कुरीतिभ्यः मुक्तः स्यात् | आगच्छन्तु, वयं सर्वे मिलित्वा समाजात् एताः कुरीतीः अपास्तुं प्रतिज्ञां करवाम तथा च, एकं नवीनं शक्तं सबलं समर्थञ्च भारतं निर्मातुं प्रयतेम |  अहं बिहारस्यनान्, राज्यस्य मुख्यमन्त्रिणं, तत्रत्यं प्रशासनं मानवशृङ्खलायां सहभागिनः प्रत्येकमपि जनान् च अभिनन्दामि, वर्धापयामि यत् ते समाज-कल्याण-दिशि विशिष्टां व्यापिनीञ्च प्रक्रियाम् आरभन्त |
         मम प्रियाः देशवासिनः, कर्नाटकस्य मैसूरुतः, श्रीमान् दर्शनः  MyGov- इत्यत्र अलिखत्  तस्य पितुः उपचारार्थं प्रतिमासं षट्-सहस्र-रूप्यकात्मकः व्ययः भवति स्म | सः पूर्वं प्रधानमन्त्रि-नौषधि-योजना-विषये नैव जानाति स्म | परञ्च सम्प्रति यदा सः नौषधि-केन्द्र-विषये सूचनाम् अलभत, ततश्च औषधि-क्रयणं व्यदधात्, ततः प्रभृति एष व्ययः प्रतिशतं पञ्च-सप्तति-मित्या अपचितः | सः वाञ्छति यदहं मन की बात- प्रसारणे एतद्विषये उद्घोषयेयं येन अधिकाधिकाः जनाः एतद्विषये अवगताः स्युः, अमुना च लाभान्विताः भवेयुः | विगतेभ्यः कतिपयेभ्यः दिनेभ्यः अनेके जनाः एतद्विषये मां लिखन्ति स्म, सूचयन्ति स्म | अहमपि सामाजिक-संचार-माध्यमेषु दृष्टवान् यदनेके जनाः अनया योजनया लाभान्विताः अभूवन् | तथा च, यदा एतादृशी सूचना अवाप्यते तदा हर्ष-प्रकर्षः अनुभूयते | गभीरः सन्तोषः जायते | एतदपि मह्यम् अतितराम् अरोचत यत् श्रीमान् दर्शनः स्वीय-मनसि विचारमिमम् अनुभूतवान् यत् यत्किमपि तेन लब्धं तद् अन्येsपि अवाप्नुयुः | अस्याः योजनायाः उद्देश्यमस्ति - स्वास्थ्य-परिचर्या सुलभा स्यात्, अपि च, Ease of Living- जीवनस्य सरलता प्रोत्साहिता भवेत् | नौषधि-केन्द्रेषु प्राप्याः औषध्यः, आपणेषु विक्रीयमाणाभ्यः चिन्हिताभ्यः औषधीभ्यः प्रायेण प्रतिशतं पन्चाशत्तः नवति-मित्या न्यूनार्घाः भवन्ति | अमुना जन-सामान्यम्, विशेषेण प्रतिदिनम् औषधीं सेवमानानां वरिष्ठ-नागरिकाणां कृते अतितराम् आर्थिकं साहाय्यम् प्राप्यते, भूरिशः सञ्चयो भवति | साम्प्रतं अशेष-देशे त्रि-सहस्राधिकानि जनौषधि-केन्द्राणि स्थापितानि सन्ति | अनेन न केवलं औषधयः न्यूनार्घाणि प्राप्यन्ते अपि तु, वैयक्तिक-उद्यमिनां कृतेsपि वृत्तितायाः नवीनाः अवसराः अवाप्यन्ते | प्रधानमन्त्रि-भारतीय-नौषधि-केन्द्रेषु चिकित्सालयेषु च अमृत-संग्रहेषु एताः न्यूनार्घाः औषधयः लभ्यन्ते |  अत्र इदमेव उद्दिष्टं यत् - देशस्य निर्धनतमाः जनाः  गुणवत्ता-युतां सुलभां न्यूनार्घाञ्च स्वास्थ्योपचर्याम् अवाप्नुयुः येन हि स्वस्थस्य समृद्धस्य च भारतस्य निर्माणं सम्भवं भवेत् |
     मम प्रियाः देशवासिनः,  महाराष्ट्रस्य श्रीमान् मंगेशः Narendra Modi-MobileApp- इत्यत्र चित्रमेकं प्राहिणोत् | तच्चित्रं तादृशमासीत् यन्मम ध्यानं सहसा तदाकृष्टं जातम् | तस्मिन् पौत्रः निज-पितामहेन साकं ‘Clean Morana River’- इति स्वच्छताभियाने सहभागित्वम् आवहति | अहं ज्ञातवान् यत् अकोला-क्षेत्रीयाः नागरिकाः स्वच्छ-भारताभियानस्य अन्तर्गतं मोरना-द्याः स्वच्छीकरणार्थं स्वच्छताभियानम् आयोजितवन्तः | मोरना-नदी, पूर्वम् आवर्षं सजला वहति स्म, साम्प्रतं सा ऋतु-निष्ठा सञ्जाता |  अपरो वेदना-विषयः आसीत् यत् एषा नदी, पूर्णरूपेण आरण्यकैः ग्रासैः, जलकुम्भिभिः समाकीर्णा सञ्जाता |द्याम् अस्याः तट-प्रदेशे च प्रभूतः अवकर-प्रक्षेपः क्रियते स्म | का action plan-इति कार्य-योजना सज्जीकृता, तथा च, मकर-संक्रान्तितः एक-दिन-पूर्वं, जान्युआरि-मासे त्रयोदश-दिनाङ्के ‘Mission Clean Morana’ - इत्यस्य प्रथम-चरणस्य अन्तर्गतं किलोमीटर-चतुष्कस्य क्षेत्रे चतुर्दश-स्थानेषु मोरनानद्याः टम् अभितः स्वच्छीकृतम् | ‘Mission Clean Morana’- इत्यस्याः पुण्य-कार्ये अकोला-क्षेत्रस्य षट्-सहस्राधिकाः नागरिकाः, शताधिकानि NGOs-इति स्वैच्छिक-संघटनानि, महाविद्यालयाः, विद्यार्थिनः, बालाः, वृद्धाः, मातरः, भगिन्यः - सर्वेsपि अत्र सह-भागित्वम् आवहन् | ऐषमः जान्युआरि-मासे विंशति-दिनेsपि एतत् स्वच्छताभियानं सततं प्रवर्तितम्, तथा च, अहं सूचितः यत् यावदवधि मोरना-नदी पूर्णतया स्वच्छा नैव भवति, अभियानमेतत् प्रति-शनिवासरं प्रातः प्रवर्तिता | एतत् प्रमाणयति यत् जनः यदि किमपि कर्तुं दृढ-संकल्पं करोति चेत् तदा किञ्चिदपि अशक्यं नास्ति | नान्दोलनमाध्यमेन बृहत्तमानि परिवर्तनानि कर्तुं शक्यन्ते | अहं अकोला-वासिनः, अत्रत्ये  जनपद-नगर-निगमयोः प्रशासने च, एतत्कार्यं नान्दोलन-रूपेण प्रवर्तयितुं संलग्नान् सर्वान् नागरिकान् च, तेषामेषां प्रयासानां कृते भूरिशः वर्धापयामि, अपि च कामये यत् भवताम् एते प्रयासाः देशस्य न्येषां जनानां कृतेsपि प्रेरणा-दायिनो भवेयुः |
     मम प्रियाः देशवासिनः, एतेषु दिनेषु भवन्तः अपि पद्म-पुरस्कार-विषयिणीं चर्चां शृण्वन्ति - इति मन्ये | वार्तापत्रेषु, दृश्य-वाहिनीषु चापि विषयेsस्मिन् ध्यानमाकृष्यते |  परञ्च, यदि किञ्चित् सूक्ष्मेक्षिकया पश्यन्तु चेत् भवन्तः गर्वम् अनुभविष्यन्ति | गर्वस्य विषयोsयं यत् कियन्तो महान्तो जनाः अस्माकं मध्ये विराजन्ते तथा च, स्वाभाविक-रूपेण अस्य विषयस्यापि गौरवं भविष्यति यत् केन प्रकारेण अद्यत्वे अस्माकं देशे सामान्य-जनः काञ्चिदपि अभिसंस्तुतिं विना उच्छ्रित-तरं शिखरम् अधिरोहति | प्रतिवर्षं पद्म-पुरस्काराणां प्रदान-परम्परा सततं प्रवर्तते | विगत-वर्ष-त्रये एतद्-विषयिणी सम्पूर्णापि प्रक्रिया परिवर्तितास्ति | इतः परं कश्चन अपि नागरिकः कञ्चन अपि जनं nominate- इति नाम्ना अभिसंस्तोतुम् अर्हति | सम्पूर्णापि प्रक्रिया online- इति सद्यस्का जाता अतः एषा पारदर्शिता-समन्विता सञ्जातास्ति | एवं हि एतेषां पुरस्काराणां चयन-प्रक्रियायाः पूर्णः रूपान्तरः जातः | भवतामपि अवधानं स्यात् जातं यत् अतितरां सामान्य-जनाः अपि पद्म-पुरस्कारान् लभन्ते | तादृशेभ्योsपि जनेभ्यः पद्म-पुरस्काराः प्रदीयन्ते ये सामान्यतया महानगरेषु, वार्तापत्रेषु, दृश्यवाहिनीषु, समारोहेषु च नावलोक्यन्ते | अधुना पुरस्कार-प्रदानार्थं जनस्य अभिज्ञानं नैव, तस्य कार्यस्य महत्वं विवर्धते | श्रीमान् अरविन्दगुप्ता - इत्यस्मै पद्म-पुरस्कार-प्राप्तेः अनन्तरमेव स्यात् प्रथमवारं भवता तस्य नाम श्रुतं भवेत् | वृत्तमिमं ज्ञात्वा भवन्तः प्रसन्नतां अनुभविष्यन्ति यत् IIT-कानपुरस्य प्राक्तनः छात्रः श्री-अरविन्दः बालानां कृते क्रीडनकानि विनिर्मातुं स्वीयं सम्पूर्णमपि जीवनं यापितवान् | असौ विगत-दशक-चतुष्कात् अवकर-संग्रहात् क्रीडनकानि विनिर्माति येन बालेषु विज्ञानं प्रति जिज्ञासा प्रवर्धेत | तस्य प्रयत्नः अस्ति यत् बालाः निरर्थक-वस्तुभ्यः वैज्ञानिक-प्रयोगान् प्रति प्रेरिताः भवेयुः, एतदर्थम् असौ अशेष-देशस्य त्रि-सहस्राधिकेषु विद्यालयेषु गत्वा अष्टादश-भाषासु निर्मितानि चलचित्राणि अपि प्रदर्श्य बालान् प्रेरयति | कीदृशम् अद्भुतं जीवनम् ! कीदृशम् अद्भुतं समर्पणम् ! एतादृशी एव कथा कर्नाटकस्य सितावा-जोद्दती-(SITAVAA JODATTI)- इत्यस्याः अस्ति | एषा महिला-शक्तीकरणस्य देवी- इति सगौरवम् उच्यते |
             विगत-दशक-त्रयात् बेलागवी-(BELAGAVI)-क्षेत्रे एषा असंख्य-महिलानां जीवन-परिवर्तने महद्-योगदानमकरोत् | एषा सप्त-वर्षीयायुषि एव स्वयं देवदासी-रूपेण आत्मानं मार्पयत् | परञ्च पुनः देवदासीनां कल्याणार्थं स्वीयं कृत्स्नमपि जीवनम् अर्पितवती | एतावदेव नैव, सा दलित-महिलानां कल्याणार्थमपि अभूतपूर्व-कार्यमकरोत् | भवद्भिः मध्य-प्रदेशस्य भज्जू-श्यामस्य नाम श्रुतं स्यात्, श्रीमान् भज्जू-श्यामस्य जन्म अतितरां निर्धन-कुटुम्बे, आदिवासि-परिवारे अजायत | असौ जीवन-यापनाय सामान्य-वृत्तिं करोति स्म, परञ्च अस्मै पारम्परिकादिवासि-चित्रकलायां महती रुचिः आसीत् | साम्प्रतं अस्याः एव रेखाङ्कनस्य गहन-रुचेः कारणात् न केवलं भारते, अपि तु अशेष-जगति तस्य सम्माननं वर्तते | Netherlands, Germany, England, Italy-सदृशेषु अनेकेषु देशेषु तस्य चित्राणां प्रदर्शनी आयोजिता | विदेशेषु भारतस्य यशोवर्धकस्य भज्जू-श्यामस्य प्रतिभा अभिज्ञाता तथा च, तस्मै पद्मश्री-सम्माननम् उपायनीकृतम् |         
      केरलस्य आदिवासि-महिला लक्ष्मीकुट्टी- इत्यस्याः कथां श्रुत्वा भवन्तः सुखदमाश्चर्यम् अनुभविष्यन्ति | लक्ष्मीकुट्टी, कल्लारे शिक्षिका अस्ति, तथा च, साम्प्रतमपि गहनारण्येषु आदिवासि-क्षेत्रे ताल-पत्रैः विनिर्मिते कुटीरे निवसति | सा स्वीय-स्मृत्याधारेण एव पञ्च-शतं वनस्पतीनाम् औषधीः व्यरचयत् | सर्प-दंशस्य उपचारार्थं उपयुज्यमानायाः औषधेः निर्माणेः तस्याः प्रावीण्यं सुसिद्धम् | लक्ष्मी-वर्या वनस्पतीय-औषधानां निज-ज्ञान-कारणात् अनारतं समाजं सेवते |अज्ञात-नाम्न्याः अस्याः अभिज्ञानं कृत्वा समाजे अनया अनुष्ठिताय योगदानाय सा पद्मश्रीति अलंकरणेन सम्मानितास्ति | अद्य एकस्य अपरस्य नाम्नः समुल्लेखात् नाहं आत्मानं वारयितुं शक्नोमि | पश्चिम-बंगालस्य पञ्च-सप्तति-वर्षीया सुभासिनी-मिस्त्री - इत्यस्याः नाम | सा पुरस्कारार्थं वृतास्ति | सुभासिनी-मिस्त्री तादृशी महिला अस्ति, या चिकित्सालयस्य निर्माणार्थम् अपरेषां गृहेषु भाण्डानि स्वच्छीकृतवती, शाकादि-क्रयं च व्यदधात् | यदा सा त्रयोविंशति-वर्षीया आसीत् तदा उपचारस्य अभाव-कारणात् अस्याः पत्युः मृत्युरभवत्, एषा एव घटना तां निर्धनानां कृते चिकित्सालय-निर्माणार्थं प्रैरयत् | सम्प्रति अस्याः कठोर-श्रमेण विनिर्मिते चिकित्सालये परस्सहस्राणां निर्धनानां निःशुल्कम् उपचारो विधीयते | दृढमहं विश्वसिमि यत् अस्माकं बहुरत्ना-वसुन्धरायाम् तादृन्शि अनेकानि नर-रत्नानि सन्ति, असंख्यानि नारी-रत्नानि च सन्ति, तं ताञ्च नैकोsपि जानाति , न वा तेषां सम्यग् अभिज्ञानं भवति | एतादृशानां जनानाम् अभिज्ञानं न भवति चेत्, समाजस्यापि हानिः भवति | पद्म-पुरस्कारो नाम माध्यममस्ति, परञ्च अहं देशवासिभ्योsपि निवेदयामि यत् अस्मान् परितः समाजस्य कृते समर्पित-जीवनाः, समाजार्थं निष्ठावन्तः, कामपि काञ्चिदपि विशेषतां सन्धारयन्तः आजीवनं कार्यानुष्ठातारः लक्ष-लक्षाधिकाः जनाः सन्ति | नूनं कदाचिदपि ते समाज-धारायां समावेशनीयाः | न ते मान-सम्मानार्थं कार्याणि आचरन्ति, परञ्च तेषाम् एभिः कार्यैः वयं प्रेरिताः भवामः | कदाचित् विद्यालयेषु, कदाचित् महाविद्यालयेषु च एतादृशाः महनीय-जनाः समामन्त्रणीयाः तेषाञ्च अनुभवाः श्रवणीयाः | पुरस्कारेभ्योsपि अग्रे, समाजेsपि केचन प्रयासाः भवेयुः |
        मम प्रियाः देशवासिनः, प्रतिवर्षं वयं जान्युआरि-मासे नवमे दिनाङ्के प्रवासि-भारतीय-दिवसम् आमन्यामहे | अयमेव दिवसः अस्ति यदा पूज्यः महात्म-गाँधी दक्षिणाफ्रीकातः भारतं प्रत्यागतः | अस्मिन्नेव दिने वयं भारते विश्वस्मिन् विश्वे च निवसतां भारतीयानां मध्ये, अभिन्न-बन्धनस्य उत्सवमायोजयामः | ऐषमः प्रवासि-भारतीय-दिवसावसरे वयं कार्यक्रममेकं आयोजितवन्तः यत्र विश्वस्मिन् विश्वे निवसन्तो भारतीय-मूलस्य सर्वेsपि सांसदाः महापौराः चामन्त्रिताः आसन् | भवन्तः इदं श्रुत्वा प्रसन्नताम् अनुभविष्यन्ति यत् तस्मिन् कार्यक्रमे Malaysia, New Zealand, Switzerland, Portugal, Mauritius, Fiji, Tanzania, Kenya, Canada, Britain, Surinam, दक्षिण-अफ्रीका-America-तः, अपरेभ्योsपि देशेभ्यश्च, यत्र यत्र अस्मदीयाः महापौराः मूल-भारतीयाः सांसदाः च सन्ति, ते सर्वेsपि सहभागित्वमावहन् | प्रसीदामितरां यत् विभिन्नेषु देशेषु निवसन्तः भारतीय-मूलाः जनाः तान् देशान् तु सेवन्ते एव, युगपदेव, ते भारतेन साकमपि स्वीयान् दृढतरान् सम्बन्धान् संधारयन्ति | ये यूरोपस्य भिन्न-भिन्नेषु देशेषु अस्माकं मूल-भारतीयाः निवसन्ति तेषु केचन CYBER SECURITY-इति क्षेत्रे कार्याणि कुर्वन्ति, केचन आयुर्वेद-क्षेत्रे समर्पिताः सन्ति, अपरे स्वीय-संगीत-माध्यमेन समाजस्यनान्सि रञ्जयन्ति, इतरे च केचन स्वीय-ललित-कविता-रचनाभिः सहृदयान् आनन्द-सन्दोहेन आप्लावयन्ति | केचन climate change- इति जलवायु-परिवर्तन-विषये अनुसन्धानं विदधति, अन्ये च भारतीय-ग्रन्थान् आश्रित्य कार्य-निरताः सन्ति | कश्चन भारवाहियानं चालयित्वा गुरुद्वारा-निर्माणम् अकरोत्, अपरेण च केनचित् मस्जिद्-निर्माणं कृतम् | अर्थात् यत्र कुत्रापि अस्मदीयाः जनाः सन्ति, ते तत्रत्यां धरां येन केनापि प्रकारेण सुसज्जितां कृतवन्तः | अहं धन्यवादान् वितरामि यूरोपीय-संघस्य अस्य उल्लेखनीय-कार्यस्य कृते,  भारतीय-मूलस्य जनानाम् अभिज्ञानार्थम्, अपि च, अमुना माध्यमेन भारतस्य नागरिकेभ्यः अपि सूचना-प्रदानार्थम् | तथा च, एतन्-माध्यमेन अशेष-जगतः जनान् सूचयितुम् अपि |
           जान्युआरि-मासे त्रिन्शत्तमे-दिने पूज्य-बापू-वर्यस्य पुण्य-तिथिः वर्तते, यः अस्मान् सर्वान् अभिनवं मार्गं प्रादर्शयत् | दिवसमेनं ‘हुतात्म-दिन’त्वेन वयम् आयोजयामः | एतस्मिन् दिने वयं देशस्य रक्षायै हुतात्मभ्यः महद्भ्यः प्रातः एकादश-वादने श्रद्धाञ्जलिम् अर्पयामः | शान्तेः अहिंसायाश्च मार्गः एव बापू-महात्मनः अनन्य-मार्गः आसीत् | भवतु नाम भारतमिदं वा जगत्, स्यात् इदं कुटुम्बं वा एकाकी जनो वा सकलः समाजः - पूज्य-बापू-वर्यः येषां सिद्धान्तानाम् आदर्शानाञ्च कृते जीवति स्म, पूज्य-बापूः यत् किमपि अस्मान् समदिशत्, तत्सर्वम्, अद्यापि अतितराम् उपयोगि वर्तते | ते केवलं सिद्धान्ताः एव नैवासन् | वर्तमान-कालेsपि वयं पदे पदे पश्यामः यत् बापू-वर्यस्य सन्देशः कियान् समीचीनः अस्ति | यदि वयं संकल्पयेम यत् बापू-वर्यस्य मार्गमनुसरेम - यावन्तमपि प्रचलितुं शक्नुमः, प्रचलेम - तदा एतस्मात् समुचिततरः कः अन्यः श्रद्धाञ्जलिः  भविता ?
     मम प्रियाः देशवासिनः, अष्टादशोत्तर-द्विसहस्र-तम-वर्षार्थं मङ्गल-कामनाः वितीर्य्य अहम् अत्रैव विररामि | भवद्भ्यः सर्वेभ्यः मङ्गल-कामनाः भूरिशो धन्यवादाः, नमस्कारः|       
 *****      
बलदेवानन्द-सागरः                             
अणुप्रैषः baldevanand.sagar@gmail.com