Friday, 10 January 2014

The 18 Vidyās: भारतीयविद्यास्थानानि

Please welcome guest writer Mr. Narayan Namboodiri! After a life time of working and consulting as a Chemical Engineer, Mr. Namboodiri devoted his time to the pursuit of Sanskrit. Coming from a long tradition of Sanskrit scholarship, he has been a volunteer and teacher at Samskrita Bharati for seven years now. He finds teaching Sanskrit very satisfying, and his latest teaching stint has been with #SanskritAppreciationHour on Twitter. You can follow him and his sessions via his handle @  Today, on special request, he shares the 18 Vidyās - in Sanskrit. Try to unravel it. And post translations in comments :-) Shortly a translation will be provided...and you can tally yours with it!


१८ विद्याः  (भारतीयविद्यास्थानानि)  

अङगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः
पुराणं धर्मशास्त्रं च विद्याह्येताश्चतुर्दश ।
आयुर्वेदो धनुर्वेदो गन्धर्वो वेद एव च
अर्थवेदश्चतुर्थश्च विद्याह्यष्टादश स्मृताः ॥

वेदाः                  ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः ।

वेदाङ्गानि           वेदाङ्गानि षडेतानि शिक्षा व्याकरणं तथा ।
निरुक्तं ज्योतिषं कल्पं छन्दोविचितिरित्यपि ॥

शिक्षा शिक्षयति व्यक्तं वेदोच्चारण लक्षणम् ।
वक्ति व्याकरणं तस्य संहितापदलक्षणम् ॥
वक्ति तस्य निरुक्तं तु वेदनिर्वचनं स्फुटम् ।
ज्योतिश्शास्त्रं वदत्यत्र कालं वैदिककर्मणाम् ॥
क्रमं कर्मप्रयोगाणां कल्पं तत्र प्रचक्षते ।
मन्त्राक्षराणां सङ्ख्योक्ता छन्दोविचितिभिस्तथा ॥

मीमांसा - (२० अध्यायाः)
सर्ववेदार्थप्रविचारपरायणा काण्डत्रयार्थविचारपरा च ।
-          फुर्वमीमाम्सा (१२ अध्यायाः) अग्निष्टोमादिकर्मणां विवरणम् ।
-          मध्यममीमांसा (४ अध्यायाः) अग्निष्टोमादिकर्मभिः अन्तःकराणशुद्धिप्राप्तानां मोक्षेच्छूनां सकळब्रह्मोपासनम् उपदिशति ।
-          उत्तरमीमांसा (४ अध्यायाः) सकळब्रह्मोपासनद्वारा साधनचतुष्टयसम्पन्नानां परमपुरुषार्थं उपदिशति ।

न्यायशास्त्रम्
प्रत्यक्षादिप्रमाणलक्षणं उपदिश्य अवैदिकानां पाखण्डवादैः वेदरक्षणाय न्यायशास्त्रम्।     

पुराणम्
इतिहासस्यापि उपलक्षणं पुराणमुच्यते, इतिहासः पुराणं च पञ्चमो वेद उव्यते,  इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् इति वाक्यैः पुराणविद्या वेदविद्यातुल्या, वेदार्थबोधप्रदायिनी च ।
पुराणं पञ्चलक्षणयुतम्-
            सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
            वंशानुचरितं चेति पुराणं पञ्च लक्षणम् ॥

सर्गः सृष्टिवर्णनम्, प्रतिसर्गः प्रलयम्, सूर्यचन्द्रादिवंशवर्णनं वंशः, स्वायंभूवादि मनुमर्णनं मन्वन्तरम्, वंश्यानां महानुभावानां वर्णनं वंशानुचरितं च ।      





मुख्यपुराणानि १८:
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
भविष्यं नारदीयं च मार्कण्डेयं तथापरे ॥
आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च ।
स्कान्दं च वामनं चैव कौर्मं मात्स्यं च गारुडम् ॥
ब्रह्माण्डं चैव पुण्योऽयं पुराणानमनुक्रमः ॥
     
एतदतिरिच्य सन्ति अनेके उपपुराणान्यपि ।

धर्मशाश्त्रम्
अप्रत्यक्षश्रुतिमूलकधर्मानाश्रित्य देशकालावस्थाधिकारिभेदानुसारं विभिन्नवर्णाश्रमादिकर्मप्रदिपादनेन वैदिकधर्मानुष्ठानं व्यवस्थापयन्ति धर्मशास्त्राणि । 

आयुर्वेदः
धर्मसाधनं शरीरं अरोगं स्वस्थं च कर्तुं उपायानुपदिशति आयुर्वेदः ।

धनुर्वेदः
प्रजापालनतत्परेभ्यः पार्थिवेभ्यः पापिष्ठानां शत्रूणां दमनाय पार्वतपार्जन्याद्यस्त्रशस्त्रप्रयोगानुपदिशति धनुर्वेदः ।

गन्धर्ववेदः
सामगानोपयोगाय स्वरलक्षणं उपदिशति गन्धर्ववेदः ।

अर्थवेदः
सन्ध्यादि षड्गुणानां (सन्धिः, विग्रहः, यानं, आसनं, द्वैधं, आश्रयं च) तथा सामादिसप्तोपायानां स्वरूपोपदेशेन, कृषिगोरक्षादिना च चरुपुरोडाशादीनां सम्पादनोपयवर्णनम् कुर्वन् अर्यवेदः वैदिकधर्मव्यवस्थितेः सहायको भवति । 


              



1 comment:

Unknown said...

sir, transalations in english would help as well. i did learn sanskrit in school but cant make out the meanings much now.