‘मन की बात’ [37] “मनोगतम्” [37] (प्रसारण-तिथि:
29.10.2017)
[“मनोगतम्” - इति
“मन
की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- बलदेवानन्द-सागरः
मम प्रियाः देश-वासिनः ! नमस्कारः | दीपावल्याः
षण्णां दिनानाम् अनन्तरम् आयोज्यमानं “महापर्व छठ”- इति अस्मदीय- देशे अतितरां
निष्ठा-नियम-पुरस्सरं आयोज्यमानेषु पर्वसु अन्यतमं वर्तते,
यस्मिन् पानाशनतः वेशभूषां यावत्,
प्रत्येक-विषयेषु पारंपरिक-नियमाः
अनुपाल्यन्ते | छठ-पूजायाः
अनुपम-पर्व, प्रकृत्या
प्रकृतेः उपासनया च
पूर्णरूपेण सम्बद्धं वर्तते | एकतः आदिदेवः सूर्यः जलञ्च, छठ-महापर्वणः उपासनायाः
केन्द्रीभूतौ विषयौ वर्तेते, अपरतश्च वेत्रेभ्यः मृत्तिकायाश्च निर्मितानि
भाण्डानि कंदमूलानि च, अस्य पूजन-पद्धत्या
संयुक्ताः अभिन्नाः सामग्र्यः
सन्ति | आस्थायाः
अस्मिन् महापर्वणि उदीयमानस्य सूर्यस्य
उपासना,
तथा च, अस्तंगम्यमानस्य सूर्यस्य पूजायाः
सन्देशः
अद्वितीय-संस्कारेण
परिपूर्णोsस्ति
| संसारोsयं
उदीयमानान् सर्वदा पूजयति, किन्तु छठ-पूजा अस्मान् तेषामपि
आराधनानुष्ठानार्थं
संस्कारयति येषां अस्तंगमनं प्रायः सुनिश्चितम् |
अस्माकं जीवने
स्वच्छतायाः
महत्वस्य अभिव्यक्तिः अपि
अस्मिन् उत्सवे समाविष्टास्ति | छठ-पर्वणः
प्राक्, संपूर्णस्य गृहस्य स्वच्छता, युगपदेव, नद्याः तडागस्य पल्वलस्य च तटेषु, पूजा-स्थलानाम्
अर्थात् घट्टानामपि स्वच्छता, पूर्णोत्साहेन सर्वेsपि सम्भूय कुर्वन्ति | सूर्यस्य
वंदना
वा छठ-पूजा पर्यावरणसंरक्षण- स्य, रोगनिवारणस्य
अनुशासनस्य च पर्व अस्ति यस्य
उल्लेखः
ऋग्वेदेsपि लभ्यते | ऋग्वेदे
प्रोक्तम् –“सूर्य आत्मा जगतस्थुषश्च’‘ अर्थात् सूर्यः एव
जगतः आत्मानं, शक्तिं चेतनाञ्च
जागरयति |
सामान्यरूपेण केचन
जनाः याचयित्वा आदानं हि हीन-भावत्वेन
परिगणयन्ति, परन्तु षष्ठी-पूजायां
प्रातःकालिकस्य अर्घ्य-प्रदानस्य पश्चात् प्रसादं
याचयित्वा अशनस्य एका विशिष्टा परम्परा प्रवर्तते | प्रसाद-याचनस्य
अस्याः परम्परायाः
पृष्ठ-भूमौ इदम् आमान्यते यत् एवंकरणेन जनस्य आहतः अहङ्कार-भावो नश्यति |
अहङ्कार-भावना मानवस्य उन्नतौ बाधिका जायते | भारतस्य
एनां महतीं परम्परां
प्रति
प्रत्येकमपि गौरवमनुभवतीति तु सुतरां स्वाभाविकम् |
मम प्रियाः
देशवासिनः, ‘मन
की बात’ इति मनोगत-प्रसारणस्य प्रशंसापि भवति, आलोचनापि जायते
परञ्च यदा कदाचिदपि ‘मन की बात’ - प्रसारणस्य
प्रभावं
विभावयामि, तदा मे विश्वासः दृढ़तरो
भवति यत् देशस्य
जनमानसेन
साकं ‘मन की बात’- प्रसारणं प्रतिशतं
शत-मित्या अविच्छिन्न-सम्बन्धेन संपृक्तं जातम् | खादीवस्तूनां
तथा च handloom-इति हस्तवेम्नः उदाहरणमत्र
प्रमाणम् | गान्धि-जयन्त्याः
अवसरे अहं सततं हस्तवेम्नः खादि-वस्तूनाञ्च
कृते विशेषेण ब्रवीमि तथा च, अस्य
परिणामः किमस्ति ? भवन्तोsपि एतद् ज्ञात्वा प्रसन्नाः भविष्यन्ति | सूचितोsस्मि
यत् ओक्टोबर-मासेsस्मिन् 17-दिने ‘धनतेरस्’-पर्वणि
दिल्ल्यां खादी-ग्रामोद्योगभवनस्य
आपणे प्रायेण
विंशति-लक्षोत्तर-कोटि-रूप्यकात्मकः आभिलेख्यः विक्रयः सञ्जातः | एकस्मिन्नेव खादी-हस्तवेमापणे
एतावान् बृहद्-विक्रयः ! वृत्तमेतत् श्रुत्वा भवन्तोsपि आनन्दं संतोषञ्च
अनुभूतवन्तः इति विश्वसिमि |
दीपावल्याः
अवसरे “खादी-gift coupon” इति
उपहार-पर्णिकानां विक्रये प्रायेण प्रतिशतम्
अशीत्यधिक-षट्-शतमिता वृद्धिः अभिलेखिता | खादी-हस्तवेम-वस्तूनां
समग्र-विक्रयेsपि विगत-वर्षापेक्षया वर्षेsस्मिन् प्रायेण प्रतिशतं नवति-मिता
वृद्धिः सञ्जाता | अमुना एतत् प्रमाणितं भवति यत् सम्प्रति युवानः, वरिष्ठाः,
वृद्धाः, महिलाः च खादी-हस्तवेम-वस्तूनि अभिलषन्ति | कल्पयितुं
शक्नोमि यत् अमुना प्रकरणेन हि तन्तुवायानां निर्धनानां हस्तवेम-श्रमिकाणां च
कियन्तो हि लाभान्विताः जाताः | पूर्वं Khadi-Foundation- इति प्रतिष्ठानमासीत् तथा
च, Khadi for fashion- इति मया उक्तमासीत्, परञ्च
विगतानुभवानाम् आधारेण वक्तुं शक्नोमि यत् ‘Khadi for nation’ तथा ‘Khadi for
fashion’ - इत्यनयोः अनन्तरम्, अधुना ‘ Khadi for transformation’ - इति
रूपान्तरः स्थानापन्नो भवति | खादी-हस्तवेम-वस्तूनि
निर्धनानां जीवनानि परिवर्तयन्ति सन्ति तान् क्षमान् समर्थान् च विधातुं
शक्तिमत्-साधनत्वेन सिद्ध्यन्ति | ग्रामोदयस्य कृते
एतद्-द्वयमपि महतीं भूमिकां निर्वहति |
श्री-राजन्-भट्टः
NarendramodiApp- इत्यत्र अलिखत् यत् ते सुरक्षा-बलैः
साकं मम दीपावल्याः अनुभव-विषये ज्ञातुम् अभिलषन्ति तथा चेदमपि अवगन्तुं वाञ्छन्ति
यत् अस्माकं सुरक्षा-बलानि
केन प्रकारेण प्रकाशपर्व दीपावलीम् आयोजयन्ति | श्रीतेजस-गायकवाडः अपि
NarendramodiApp-इत्यत्र
अलिखत् यत् अस्माकं गृह-निर्मितानि मिष्टान्नानि अपि सुरक्षा-बलेभ्यः
प्रापयितुं किं व्यवस्थापयितुं शक्यते ? वयमपि अस्मदीयानि वीर-सुरक्षा-बलानि
स्मरामः | वयमपि अनुभवामः यत् अस्माकं गृह-निर्मितानि मिष्टान्नानि
देशस्य सैनिकेभ्यः प्रापणीयानि स्युः |
भवद्भिः
सर्वैः अतितरां हर्षोल्लासेन दीपावली-पर्व
आमानितम् | मम कृते ऐषमः अपि दीपावली विशिष्टानुभव-संयुता संवृत्ता | पुनरेकवारं
सीम्नि संनद्धैः नियुक्तैः वीरैः सुरक्षाबल-सैनिकैः साकं दीपावली-समायोजनस्य
सौभाग्यम् अलभम् | अस्मिन् क्रमे जम्मू-कश्मीरे
गुरेज़-क्षेत्रे
सुरक्षाबलैः सार्धं दीपावली-समायोजनं मम कृते
अविस्मरणीयं सिद्धम् | सीम्नि यासु कठिनासु विषमासु च परिस्थितिषु
अस्मदीयानि सुरक्षाबलानि देशं
रक्षन्ति, तेषां संघर्षस्य, समर्पणस्य,
त्यागस्य च कृते, अहं सर्वेषामपि देशवासिनां पक्षतः अस्मत्-सुरक्षा-बलानि
संमानयामि वर्धापयामि च | यत्रापि अवसरान् लभेम, यत्रापि चानुकूलता
भवेत् - अस्माकं सैनिकानाम् अनुभवाः अवश्यम्
अवगन्तव्याः, तेषां गौरव-गाथाः श्रवणीयाः |
अस्मत्सु
अनेके इदं नैव जानन्ति यत् अस्माकं सुरक्षा-बलानां
सैनिकाः न केवलं सीम-प्रदेशेषु, अपि तु, विश्वस्मिन्नपि विश्वे शान्तिं
प्रतिष्ठापयितुं महत्वपूर्णां भूमिकामावहन्ति | UN
Peacekeeper-इति संयुक्त-राष्ट्रिय-शान्ति-संधारकत्वेन एते जगति हिन्दुस्थानस्य
कीर्तिं वितानयन्ति | नातिचिरं ओक्टोबर-मासे चतुर्विंशे दिने
अशेष-जगति, संयुक्त-राष्ट्र-दिवसः
आयोजितः | जगति शान्तिं
प्रतिष्ठापयितुं संयुक्त-राष्ट्रस्य प्रयासान्, सकारात्मिकाञ्च भूमिकां
सर्वेsपि सुस्मरन्ति | तथा च, वयन्तु ‘वसुधैव
कुटुम्बकम्’ - इति विश्वसिमः अर्थात् संपूर्णमपि विश्वं
अस्मदीयं कुटुम्बम् अस्ति | एवञ्च, अस्य विश्वासस्य कारणादेव भारतं
प्रारम्भादेव संयुक्त-राष्ट्र-संघस्य विभिन्नेषु
महत्वपूर्णेषु आरम्भिकोपायेषु सक्रियं
सहभागित्वं निर्वहन्नस्ति | भवन्तः नूनम् अवगताः स्युः यत् भारतस्य
संविधान-प्रस्तावनायां
तथा च, UN Charter-इति संयुक्त-राष्ट्र-प्रस्तावनायाञ्च, ‘we the people’- इत्यादि- शब्दैः
एव आरभ्यते | भारते नारीणां
समानतायै सर्वदैव सबलं प्रयत्यते, तथा
च, UN-Declaration
of Human Rights- इति संयुक्त-राष्ट्र-मानवाधिकाराभिघोषणा अस्य प्रत्यक्षं
प्रमाणं वर्तते | UN Umbrella-इत्यस्य अन्तर्गतं भारतं
यत् महत्त्वाधायि-योगदानं व्यदधात् तदस्ति - संयुक्त-राष्ट्र -शान्ति-संधारक-कार्येषु
भारतस्य
भूमिका
|
संयुक्त-राष्ट्रस्य
शांति-रक्षा-कार्यक्रमे
भारतं
सर्वदैव सक्रियां
भूमिकां निर्वहन्नस्ति | सम्भवतः भवत्सु अनेके तादृशाः
भवेयुः ये प्रप्रथमं सूचनामिमां प्राप्नुवन्ति | अष्टादश-सहस्राधिकाः भारतीयसुरक्षा-बल-सैनिकाः
संयुक्त-राष्ट्र -शान्ति-संधारक-कार्येषु निज-सेवाः
अर्पितवन्तः | वर्तमान-काले भारतस्य
प्रायेण सप्त-सहस्रं सैनिकाः संयुक्त-राष्ट्र-शान्ति-संधारक-कार्येषु
संलग्नाः सन्ति, अपि च, विश्वस्मिन्नपि विश्वे एषा तृतीया बृहत्तमा संख्या वर्तते
| एतानि कार्याणि Korea, Cambodia,
Laos, Vietnam, Congo, Cyprus, Liberia, Lebanon, Sudan-इत्यादिषु विश्वस्य
अनेकेषु भू-भागेषु, अनेकेषु देशेषु
प्राचलन् | Congo-दक्षिण-Sudan-देशयोः भारतीय-सेनानां
चिकित्सालयेषु विंशति-सहस्राधिक-रोगिणः समुपचारिताः तथा च, अनेके जनाः संरक्षिताः | भारतस्य
सुरक्षा-बलानि, विभिन्नेषु
देशेषु न केवलं
तत्रत्यान् जनान् संरक्षितवन्ति परञ्च, people friendly operations- इति
जनानुकूल-कार्याणि अनुष्ठीय तेषां हृदयानि अपि विजितवन्ति | भारतीय-महिलाः
शांति-प्रतिष्ठापक-कार्येषु
अग्रणीं
भूमिकां निरवहन् | अति-न्यूनाः एव अवगताः स्युः यत् भारतं
नाम प्रप्रथमः देशः येन Liberia-देशे संयुक्त-राष्ट्रस्य
शान्त्यभियान-कार्यक्रमे
female
police unit- इति महिलारक्षि-यूथानि प्रेषितानि | अपि च,
पश्यन्तु ! भारतस्य
अयं पदक्षेपः, जगतः सर्वेषामपि देशानां कृते
प्रेरणास्रोतस्त्वेन
सिद्धः | एतदनुपदम्, सर्वेsपि देशाः
निज-निज-महिलारक्षि-यूथानि प्रेषयितुमारभन्त |
भवन्तः
एतत् श्रुत्वा गौरवमनुभविष्यन्ति यत् भारतस्य
भूमिका,
केवलं शांति-प्रतिष्ठापक-कार्येषु
एव सीमिता नास्ति अपि तु,
भारतं प्रायेण पञ्चाशीति-देशानां शांति-प्रतिष्ठापकानां
प्रशिक्षण-कार्याणि अपि करोति | महात्म-गाँधि-गौतम-बुद्धयोः
अस्याः भूमेः अस्मदीयाः वीराः शांति-रक्षकाः
सम्पूर्णेsपि विश्वे शांति-सद्भावयोः
संदेशं
प्रापितवन्तः | शांति-प्रतिष्ठापक-कार्याणि
न मनागपि सरल-कर्माणि | अस्माकं सुरक्षा-बलानां
सैनिकाः दुर्गम-स्थानेषु
गत्वा एतानि कार्याणि आचरन्ति | ते विभिन्नानां जनानां मध्ये गत्वा कार्याणि
अनुतिष्ठन्ति | भिन्नासु परिस्थितिसु
पृथक्-पृथक्-संस्कृतयः चावगन्तव्याः भवन्ति
| ते
स्थानिकावश्यकता-परिवेशानुकूलम् आत्मानं स्थापयन्ति | अद्य यदा वयं अस्मदीयान् वीरान्
संयुक्त-राष्ट्रस्य शांति-प्रतिष्ठापकान् संस्मरामः तदा कैप्टन्-गुरबचनसिंह-सलारिया-वर्यं को नाम विस्मरेत् येन अफ्रीकायां Cango-क्षेत्रे शान्त्यर्थं
युयुधानेन नैजं सर्वस्वमपि समर्पितम् | तं स्मृत्वा प्रत्येकमपि देशवासी
गौरवमनुभवति | असौ अनन्यतमः संयुक्त-राष्ट्र-शान्ति-संधारकः
वीरपुरुषः आसीत्
यो हि
परमवीर- चक्रेण सम्मानितः | लेफ्टिनेंट-जनरल-प्रेमचंदजी, तेषु
भारत-शान्ति-संधारकेषु अन्यतमः, येन Cyprus-देशे विशिष्टाभिज्ञानम् अधिगतम् | नवाशीत्युत्तर-एकोनविंशति-शत-तमे
वर्षे [1989] द्विसप्तति-वर्ष-मिते आयुषि असौ Namibia-देशे
शान्ति-कार्यार्थं गुल्म-नायकपदे नियोजितः, तथा च, सः तस्य देशस्य स्वतन्त्रतां
सुनिश्चेतुं
स्वीय-सेवाम् अर्पितवान् | जनरल-थिमैय्या, यो हि भारतीयसेनानामपि अध्यक्षः आसीत्, सः Cyprus-देशे
संयुक्त-राष्ट्र-शान्ति-संधारक-वाहिनीं सन्नीतवान्, शांति-कार्यार्थं सर्वस्वञ्च आहूतवान् | भारतम्, शांतिदूतरूपेण सर्वदैव
जगति शान्तेः,एकता- याः, सद्भावनायाश्च संदेशं दददस्ति | अस्मदीयोsयं दृढ-विश्वासः यत् प्रत्येकमपि जनः शांति-सद्भावाभ्यां सह
जीवतु तथा प्रोन्नत- स्य शांतिपूर्णस्य च भविष्यतः निर्माण-दिशं प्रति अग्रेसरेतु |
मम
प्रियाः देशवासिनः, अस्मदीया एषा पुण्यभूमिः तादृशैः महद्भिः जनैः सुशोभिता अवर्तत,
ये नाम निःस्वार्थभावेन मानवताम् असेवन्त | Sister Nivedita, यां वयं भगिनी-निवेदिता इत्यपि वदामः सापि तेषु असाधारण-जनेषु अन्यतमा आसीत् | सा आयरलैंड-देशे मार्गरेट्-एलिज़ाबेथ-नोबेल- (Margaret Elizabeth Noble)-नाम्ना
जनिम् अलभत, परंतु स्वामि-विवेकानंदः तस्यै ‘निवेदिता’ इत्यभिधानं
प्रादात् | तथा च, निवेदिता अर्थात् सा
या हि
पूर्ण-रूपेण समर्पिता स्यात् | अनन्तरं सा स्वाभिधानानुरूपं
आत्मानं सिद्धीकृतवती | श्वः भगिनी-निवेदितायाः सार्धशती जयन्ती
अवर्तत | सा स्वामि-विवेकानन्दात्
तादृशी
प्रभाविता जाता यत् स्वीयं सुख-सम्पन्नं जीवनं त्यक्त्वा निर्धनानां सेवायै समर्पितवती | Sister Nivedita ब्रिटेन्-शासने संजायमानैः अत्याचारैः अतितरां
दुःखिता आसीत् | आङ्ग्ल-शासकाः न केवलं अस्माकं देशं
दासीकृतवन्तः अपि तु, ते अस्मान् मानसिकरूपेण दासान् विधातुं प्रायतन्त | अस्मदीयां संस्कृतिं हीनां
प्रदर्श्य हीन-भावनायाः प्रसारस्य कार्यम् अनारतं प्राचलत् | भगिनी
निवेदिता भारतीय-संस्कृतेः गौरवं पुनः प्रतिष्ठापितवती | राष्ट्रीयचेतनाम् उद्भाव्य जनान्
सङ्घटितान् कर्तुं आरभत | सा विश्वस्य नाना-देशेषु गत्वा सनातनधर्मस्य दर्शनस्य च विषये विधीयमानं दुष्प्रचारं विरुद्ध्य
प्रचारमकरोत् | प्रसिद्धः राष्ट्रवादी तमिल-कविः सुब्रह्मण्यम्-भारती ‘पुदुमई पेन्न’ ( Pudhumai
Penn), New Women-इति-निज-क्रांतिकारिणीनां कवितानां कारणात् महिला-क्षमीकरणस्य
च कृते
विख्यातः
आसीत् | एवम् उच्यते
यत्तस्य प्रेरणा, भगिनी
निवेदितासीत् | भगिनी निवेदिता महते वैज्ञानिकाय जगदीश-चन्द्र-बसु-वर्याय अपि सहयोगं प्रादात् | सा स्वीय-लेखानां सम्मेलनानां च माध्यमेन बसु-वर्यस्य शोधकार्याणां प्रचार-प्रकाशनयोः कृते साहाय्यम्
अकरोत् | भारतस्य इदमेव
रमणीयं वैशिष्ट्यं यत् अस्मदीय-संस्कृतौ आध्यात्मिकता विज्ञानञ्च, परस्परं पूरकौ स्तः | भगिनी निवेदिता
वैज्ञानिकः जगदीशचन्द्र-बसुश्च अस्य सबलोदाहरणत्वेन वर्तेते | अष्टादश-शताब्दस्य
नवनवति-तमे वर्षे [1899 ] कोलकोतायां
प्लेग्-इति
भयङ्करी महामारी प्रावर्तत, पश्यता एव जनानां नैकसहस्रं काल-कवलीभूतम् | भगिनी निवेदिता, निज-स्वास्थ्य-चिंताम् अविगणय्य, नालिकाः मार्गान्
च स्वच्छीकर्तुम् आरभत | सा तादृशी महिला आसीत् या हि सहजतया
सुख-सौविध्य-युतं जीवनं यापयितुं क्षमते स्म, परञ्च सा निर्धनानां सेवाहेतोः
संलग्ना जाता | तस्याः अस्मादेव त्यागात् प्रेरणामादाय जनाः
अपि सेवा-कार्यैः
संयुताः जाताः | सा निज-कार्यैः जनान् स्वच्छतायाः सेवायाश्च महत्वस्य पाठमपाठयत् | तस्याः समाधौ एताः पङ्क्तयः लिखिताः सन्ति “Here reposes
Sister Nivedita who gave her all to India’ - अत्र भगिनी निवेदिता विश्राम्यति या हि नैजं
सर्वस्वमपि भारताय प्रादात् | निःसंदेहं सा एवमेव आचरत् | एतस्य महतः व्यक्तित्वस्य कृते साम्प्रतं न कश्चन
तादृशः समीचीनतरः श्रद्धांजलिः भविता यत् प्रत्येकमपि भारतवासी, तस्याः जीवनात् शिक्षामादाय स्वयमपि तस्मिन् सेवापथि चलितुं
प्रयतेत |
[दूरभाषः] - माननीय ! प्रधानमन्त्रि-महोदय ! मम नाम डॉ.पार्थ-शाहः
अस्ति... नवम्बर-मासे चतुर्दश-दिनाङ्कं वयं बालदिनत्वेन आयोजयामः यतो हि
अस्मदीयस्य प्रथम-प्रधानमन्त्रिणः श्री-जवाहरलाल-नेहरोः जन्म-दिवसः अस्ति,
तस्मिन्नेव दिने “विश्व-मधुमेह-दिवसो”sपि आयोज्यते ... मधुमेहः केवलं ज्येष्ठानां
रोगः नास्ति, अयं बालानाम् अधिसंख्यमपि प्रभावयति... तर्हि अस्य समाह्वानस्य कृते
वयं किं कर्तुं शक्नुमः ?
- भवतः दूरभाष-सन्देशस्य कृते धन्यवादः| सर्व-प्रथमं तु अस्माकं प्रथम-प्रधानमन्त्रिणः
श्री-जवाहरलाल-नेहरोः जन्म-दिवसोपरि आयोज्यमानस्य बाल-दिवसस्य
कृते सर्वेभ्यो बालेभ्यो भूरिशो शुभकामनाः | बालाः नूतनभारतस्य निर्माणे सर्वेषु महत्वपूर्ण-नायकत्वेन
वर्तन्ते | भवतः
चिन्ता स्थाने एव, कदाचित् पूर्वं ये रोगाः एधितायुषि, वा जीवनस्य अन्तिमायाम्
अवस्थायां जीवनं प्रभावयन्ति स्म, ते अद्यत्वे बालेषु अपि दृश्यन्ते | सम्प्रति आश्चर्यन्तु तदा भवति
यदा वयं शृण्मः यत् बालाः अपि मधुमेहेन पीड्यन्ते | पूर्वन्तने काले एते रोगाः ‘राज-रोग’-रूपेण अभिज्ञायन्ते स्म | राज-रोगः
अर्थात् तादृशाः रोगाः यैः केवलं विलासिनो वा सुख-सौविध्य-युताः एव पीड्यन्ते स्म | युव-जनेषु
एतादृशाः रोगाः अति-दुर्लभाः आसन् | अस्माकं जीवन-शैली परिवर्तितास्ति | अद्यत्वे एते रोगाः “lifestyle
disorder”- इति नाम्ना ख्याप्यन्ते | यौवने एव एतादृशानां रोगाणां बाहुल्यस्य
अन्यतमं प्रमुखकारणमस्ति
- अस्माकं जीवनशैल्यां शारीरिक-क्रिया-कलापस्य न्यूनता तथा च, अस्मदीयेषु
पानाशनयोः पद्धतौ परिवर्तनम् | समाजेन कुटुम्बेन चात्र विशेषावधानं प्रदेयम् | यदि विषयेsस्मिन् वयं
विचारयिष्यामः, चेत्, भवन्तः अनुभविष्यन्ति यत् नात्र किञ्चिदपि विशिष्टं
करणीयम् अवशिष्यते |
केवलम् एतदेव आवश्यकं यत् लघु-लघु-कार्याणि समीचीन-रीत्या नियत-प्रकारेण च,
कुर्वन्तः वयं निज-दैनन्दिन-जीवनं तादृशम् अभ्यस्तं करवाम येन रीतिरेषा
स्वभाव-रूपा स्यात् | अहमिच्छामि यत्
कुटुम्ब-जनाः जागरूकतया एवं प्रयतेरन् येन बालाः अनावृतेषु प्राङ्गणेषु क्रीडाभ्यस्ताः
स्युः | शक्यमस्ति
चेत् वयं ज्येष्ठाः अपि अनावृतेषु प्राङ्गणेषु गत्वा किञ्चित् बालैः साकं क्रीडाम | बालाः उद्वाहिकया आरोहणावरोहणयोः
अपेक्षया सोपान-मार्गस्य अभ्यस्ताः स्युः | रात्रि-भोजनानन्तरं बालैः साकं पूर्णमपि
कुटुम्बं किञ्चित् पद्भ्यां गन्तुं प्रयतेरन् | Yoga for Young
India-इति योगाभ्यासः, विशेषतया
अस्मदीय-युवमित्रेषु स्वस्थ-जीवन-शैलीं संधारयितुं जीवनशैल्याः दुर्व्यवस्थातः
आत्मानञ्च रक्षितुं नूनं सहायी सेत्स्यति | विद्यालयात् प्राक्
त्रिंशत्-मिनिट्-मितः योगाभ्यासः ! अनुभविष्यन्ति यत् कियान् लाभप्रदः भविता ! गृहेsपि
कर्तुं शक्यते, तथा च, योगस्य इदं वैशिष्ट्यं यत् अयं सहजः, सरलः, सर्व-सुलभश्च |
सहजः इति कथयामि यतो हि कश्चन अपि आयुषः जनः सरलतया एनं कर्तुं पारयति | सरलः यतो हि सरलतया शिक्षितुं
शक्यते, तथा च, सर्व-सुलभः यतो हि, कुत्रचिदपि कर्तुं शक्यते, विशेषोपकरणानि उताहो
प्राङ्गणस्य चावश्यकता नैव भवति |
मधुमेह-नियन्त्रणे योगाभ्यासः कियान् प्रभवति - इति कृत्वा अनेकविधम् अध्ययनं
प्रचलति | AIIMS-इत्यत्रापि एतद्-विषयकम् अध्ययनं विधीयते,
तथा च, साम्प्रतं यावत् अधिगत-परिणामाः अतितराम् उत्साह-वर्धकाः सन्ति | योगः आयुर्वेदश्च केवलम् उपचार-माध्यमे इति नैव
परिशीलनीयम् अपि तु वयम् एतौ जीवनस्य अङ्गत्वेन स्वीकरवाम |
मम प्रियाः देशवासिनः, विशेषेण मम युव-सखायः ! क्रीडा-क्षेत्रेषु विगत-काले
शुभंकर्यः वार्ताः प्राप्ताः| नाना-क्रीडासु
अस्माकं क्रीडकाः देशस्य यशोवितानम् अकुर्वन् | हॉकी-क्रीडायां भारतेन भव्यं क्रीडित्वा एशिया-चषको विजितः | अस्माकं
क्रीडकाः भव्य-प्रदर्शनं कृत्वा दश-वर्षाणाम् अनन्तरं एशिया-चषक-विजयिनः अजायन्त | समग्राय क्रीडक-वृन्दाय
सहायि-कार्मिक-समूहाय च मम पक्षतः देशवासिनाञ्च पक्षतः भूरि भूरि शुभकामनाः |
हॉकी-क्रीडायाः पश्चात् बैड्मिंटन्-क्रीडायाः कृतेsपि भारतं शुभां वार्तां बिभर्ति | बैड्मिंटन्-क्रीडकः किदाम्बी-श्रीकान्तः उत्कृष्टं प्रदर्शयन् Denmark-मुक्त-क्रीडां च विजित्य प्रत्येकमपि
भारतीयं गौरवान्वितं व्यदधात् | अहं अस्मभ्यः
युव-मित्रेभ्यः तेषां एताः उपलब्धीः आलक्ष्य, भारतस्य च गौरव-वर्धनार्थं भूरि भूरि वर्धापनानि वितरामि |
मित्राणि, मासेsस्मिन् FIFA Under-17 -World Cup-क्रीडाः
आयोजिताः | अशेष-विश्वस्य
क्रीडक-वृन्दानि भारतम् आगतानि | सर्वेsपि पाद-कन्दुक-क्रीडाङ्गणेषु स्वीयं कौशलं
प्रादर्शयन् | अहमपि एकां क्रीडा-स्पर्धामवलोकयितुम् अवसरं
लब्धवान् | क्रीडकेषु दर्शकेषु च महान्
उत्साहः दरीदृष्टः | इयती महती स्पर्धा ? अहन्तु सर्वेषां यूनां
क्रीडकानां ऊर्जाम् उत्साहं “किञ्चित् नूनं करणीयमि”ति भावनाञ्च दृष्ट्वा
चकित-चकितोsभवम्| विश्व-चषकस्य आयोजनं सफलमवर्तत, सर्वाण्यपि क्रीडक-वृन्दानि स्वीयं श्रेष्ठं प्रदर्शनम्
अकुर्वन् | भवतु नाम, भारतेन अत्र
विजयो नैवाधिगतः, परञ्च भारतस्य युव-क्रीडकैः सर्वेषामपि हृदयानि विजितानि | भारतेन सम्भूय
अशेष-विश्वं क्रीडा-स्पर्धानां महोत्सवस्य आनन्द-सन्दोहम् अन्वभवत् | पाद-कन्दुक-क्रीडायाः भविष्यत्
उज्ज्वलं वर्तते - अस्य संकेताः दरीदृश्यन्ते | पुनरेकवारमहं सर्वान् अपि
क्रीडकान्, तेषां सहयोगिनः, सर्वान् च क्रीडा-प्रेमिणः अभिनन्दामि, शुभकामनाश्च व्याहरामि |
मम प्रियाः
देशवासिनः ! स्वच्छ-भारतस्य विषये यावन्तो जनाः मां लिखन्ति,
एतत् प्रतीयते यत् तेषां भावनाभिः साकं यदि अहं न्याय्यं विचारयामि चेत्, तदा मया
प्रतिदिनं ‘मन की बात’-कार्यक्रमः करणीयो भविता, तथा च,
प्रतिदिनं मया स्वच्छताविषये एव ‘मन की बात’-प्रसारणम् अर्पणीयं भवेत् | केचन लघु-लघु-बालानां चित्राणि
प्रेषयन्ति, केचन तु युव-समूहानां प्रयास-कथाः वर्णयन्ति | कुत्रचित् स्वच्छता-विषयकस्य नवाचारस्य कथा भवति,
उताहो कस्यचन अधिकारिणः समर्पित-कार्यानुष्ठानेन समापन्न-परिवर्तनस्य वार्ता भवति | विगतेषु दिनेषु विस्तृतं
विवरणमेकं प्राप्तवान् यस्मिन् महाराष्ट्रस्य चंद्रपुर-दुर्गस्य कायाकल्पस्य कथा वर्तते | तत्र प्रशासनेतरस्य {NGO} पर्यावरण-संरक्षण-संघटनस्य संपूर्ण-समूहेन चंद्रपुर-दुर्गस्य
स्वच्छ्तायाः अभियानम् आरब्धम् | द्विशत-दिनानि यावत् प्रवर्तिते अस्मिन्
अभियाने जनाः विनैव विश्रम्य, विनैव च परिक्लान्तिं समूह-भावनया दुर्गस्य
स्वच्छता-कार्याणि अकुर्वन् | द्विशत-दिनानि यावत् !! पूर्वं पश्चाद् -
इति कृत्वा एतानि चित्राणि ते मह्यं प्रेषितवन्तः | एतानि चित्राणि दृष्ट्वा स्वच्छता-विषयिणी
निराशा विश्वासे परिवर्तिष्यते | स्वच्छतायाः अयं भगीरथ-प्रयासः सौन्दर्यस्य, सामूहिकतायाः सातत्यस्य च अद्भुतम् उदाहरणम् वर्तते | दुर्गाः नाम
अस्मदीय-रिक्थस्य प्रतीकरूपाः सन्ति | ऐतिहासिक-रिक्थानां सुरक्षायाः स्वच्छतायाः च
दायित्वं अस्माकं सर्वेषामपि देशवासिनां वर्तते | अहं पर्यावरण-संरक्षण-संघटनस्य अस्य
संपूर्ण-समूहस्य चंद्रपुरस्य च नागरिकाणां कृते कोटिशो वर्धापनानि
वितरामि |
मम प्रियाः देशवासिनः, आगामिनि नवम्बर-मासीये चतुर्थे दिने वयं गुरुनानकजयंतीम्
आयोजयिष्यामः | गुरुः नानकदेवः सिक्खानां प्रथमः गुरुरेव नैव अपि तु जगद्-गुरुः
अस्ति | असौ
अशेष-मानवतायाः कल्याणम् अचिन्तयत्, सर्वाः च जातयः तुल्याः इति प्रतिपादितवान् | महिलानां शक्तीकरणं
नारी-संमाननञ्च तेन सबलं ख्यापितम् | गुरुः नानकदेवः पद्भ्यामेव अष्टाविंशति-सहस्र-किलोमीटर-मितां
यात्रां व्यदधात्, अस्याः यात्रायाः अवसरे असौ उच्च-मानवतायाः सन्देशं प्रादात् | सः जनैः साकं संवादम् अकरोत्,
तान् सत्य-त्याग-कर्मनिष्ठानां मार्गं प्रादर्शयत् | तेन समाजे समानतायाः सन्देशः प्रसारितः,
स्वीयः संदेशोsयं न केवलं व्याख्यानैः अपितु कर्मभिः सार्थकीकृतः | सः लंगर-इति सामूहिक-प्रसाद-ग्रहण-प्रणालीं
प्रावर्तयत् यया जनेषु सेवाभावनाः समेधिताः | सम्भूय सामूहिक-प्रसाद-ग्रहणेन जनेषु
एकतायाः समानतायाः च भावाः जागृताः जाताः | गुरु-नानक-देवः सार्थक-जीवनस्य सन्देशत्रयं प्रादात्– परमात्मनः नामजपं कुरु, परिश्रम - कार्यं कुरु
तथा च, निःसहायानां कृते साहाय्यं कुरु | गुरु-नानक-देवः स्वीयं हार्दं प्रकटयितुं ‘गुरबाणी-ग्रन्थं’ विरचितवान् | आगामिनि वर्षे अर्थात्
एकोनविंशोत्तर-द्विसहस्र-तमे वर्षे, वयं गुरुनानकदेव-चरणानां सार्ध-पञ्च-शतीमिति
प्रकाशवर्षम् आयोजयिष्यामः | आगच्छन्तु, वयं तस्य संदेशानां शिक्षायाश्च
मार्गोपरि अग्रेसर्तुं प्रयतेम |
मम प्रियाः देशवासिनः, दिवस-द्वयानन्तरं
ओक्टोबरस्य अन्तिमे दिने वयं सरदार-वल्लभ-भाई-पटेलस्य जन्मजयन्तीम्
आयोजयिष्यामः | वयं सर्वेsपि जानीमः यद् आधुनिकस्य अखण्ड-भारतस्य
शिलान्यासः अमुना महापुरुषेण विहितः आसीत् | भारतमातुः अस्य महतः संतानस्य असाधारण-यात्रया अद्य
वयं सुबहु शिक्षितुं शक्नुमः | ओक्टोबर-मासस्य एकत्रिंशत्तमे दिने श्रीमती-इंदिरा-गाँधी अपि,
इहलोकतः प्रस्थिता | सरदार-वल्लभ-भाई-पटेलस्य विशेषता इयमासीत् यत् सः न केवलं
परिवर्तन-कारिणः विचारान् प्रददाति स्म, परञ्चासौ तेषां क्रियान्वयनमपि विधातुं
जटिलतराणां समस्यानां व्यावहारिकस्य समाधानस्य अन्वेषणे कुशलः आसीत् | विचाराणां
साकारीकरणे तस्य नैपुण्यम् आसीत् | सरदार-वल्लभ-भाई-पटेलः भारतमेकसूत्रेण संनद्धीकर्तुं तत्-कार्यस्य
नेतृत्वं व्यदधात् | तेन एतत् सुनिश्चितीकृतं यत्
कोटि-कोटि-भरतवासिनः ‘एकम् - राष्ट्रम् एकम् - संविधानम्’ इति सूत्रस्य छत्रछायायां
समन्विताः स्युः | तस्य निर्णय-क्षमता तस्मै सर्वाः अपि बाधाः
परिहर्तुं सामर्थ्यं प्रादात् | देशस्य एकीकरणस्य इदं कार्यं केवलं सः एव कर्तुं
क्षमते स्म | तेन उक्तमासीत् - “ जातेः पथः च कश्चन अपि भेदः अस्मान्
नावरोधयेत्, सर्वेsपि भारतस्य पुत्राः पुत्र्यश्च सन्ति, अस्माभिः सर्वैरपि
निज-देशः अनुरक्त्या भावनीयः तथा च, पारस्परिक-प्रेमाणं सद्भावनाञ्च आधृत्य
निज-नियतिः विनिर्मेया |”
सरदार-महोदयस्य इदं कथनम् अद्यत्वेsपि
अस्मदीयस्य नूतन-भारतस्य विकासाय प्रेरकः प्रासंगिकश्च वर्तते | इदमेव कारणं यत् तस्य जन्म-दिवसः ‘राष्ट्रीयैकता-दिवस’-रूपेण आमान्यते | देशाय अखण्ड-राष्ट्रस्य स्वरुपप्रदाने तस्य योगदानम् अतोलनीयं वर्तते | सरदार-महोदयस्य
जयन्त्याः अवसरे सम्पूर्णेsपि देशे ‘Run for Unity’- इति एकता-धावनम् आयोजयिष्यते,
यस्मिन् अशेष-देशात् बालाः,युवानः.महिलाः, प्रत्येकमपि आयुषः जनाः समावेक्ष्यन्ते | साग्रहं भवतः कथयामि यत् भवन्तः
सर्वेsपि ‘Run
for Unity’- इति पारस्परिक- सद्भावनायाः उत्सवेsस्मिन् सहभागिनो भवन्तु |
मम प्रियाः देशवासिनः, दिपावल्याः अवकाशानन्तरं
नूतन-संकल्पेन, अभिनवेन निश्चयेन च साकं भवन्तः सर्वे निजे दैनन्दिने
जीवने पुनरेकवारं संलग्नाः सञ्जाताः स्युः | मम पक्षतः देशवासिभ्यः, तेषां स्वप्नानां सम्पूर्ति-हेतोः
अनेकशो मङ्गल-कामनाः | भूरिशो धन्यवादाः |
*****
No comments:
Post a Comment