‘मनोगतम्-४५’
‘मन की बात’ (4५ वीं कड़ी) प्रसारण-तिथि: - 24.06.2018
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
-
संस्कृत-भाषान्तर-कर्ता -
- डॉ.बलदेवानन्द-सागरः
नमस्कारः
! मम प्रियाः देशवासिनः! अद्य
पुनरपि ‘मन की बात’-कार्यक्रमे
भवद्भिः सर्वैः साकं सम्मेलनस्य सौभाग्यम् अलभम् | नातिचिरं बेंगलुरु-नगरे
ऐतिहासिकी
क्रिकेट्-स्पर्धा सम्पन्ना | भवन्तः सम्यग् अवगताः स्युः यदत्राहं
भारत-अफगानिस्तानयोः
अन्ताराष्ट्रिय-क्रिकेट्-स्पर्धा-विषयं
सन्दर्भयामि | इयं हि अफगानिस्तानस्य
प्रथमा अन्ताराष्ट्रिय-क्रिकेट्-स्पर्धा आसीत् तथा च, प्रत्येकमपि भारतीयस्य
कृते अयं हि गर्व-विषयः यत् अफगानिस्तानस्य
इयं अन्ताराष्ट्रिय-क्रिकेट्-स्पर्धा
भारतेन
साकम् अवर्त्तत | अस्यां
स्पर्धायां क्रीडक-वृन्द-द्वयमपि समीचीनतरं प्रदर्शनम्
अकरोत् | यत्र मुरली-विजयः
शिखर-धवनश्चेति
भारतस्य
कन्दुकाघातक-क्रीडकौ दर्शनीयं धावनाङ्क-शतकं
विहितवन्तौ, तत्रैव अफगानिस्तानस्य
मोहम्मद-अहमद-जलेति
क्रीडकः निज-कन्दुक-प्रक्षेपण-कौशलेन सर्वान् अपि प्राभावयत्,
तथा च, अफगानिस्तानस्य राशिद-खानेति
अपरः कन्दुक-प्रक्षेपि-क्रीडकस्तु वर्षेsस्मिन् IPL-इति
स्पर्धासु अपि भद्रतरं प्रदर्शनम् अकरोत्
| स्मरामि यत् अफगानिस्तानस्य राष्ट्रपतिः
श्रीमान्
अशरफ़-गनी अन्तर्जाले मां संयोज्य twitter-इति
निजालेखने अलिखत् – “अफगानिस्तानवासिनः
निज-क्रीडक-नायकस्य राशिद-खानस्य
विषये अतितरां गौरवम् अनुभवन्ति |” अहं निज-भारतीय-मित्राणामपि
कार्तज्ञ्यमावहामि, ये हि अस्मदीयेभ्यः क्रीडकेभ्यः निज-कौशल-प्रदर्शनार्थं
मञ्चं प्रादुः | अफगानिस्तानस्य यत् श्रेष्ठत्वम्,
राशिदः तस्य प्रतिनिधित्वं करोति
|
सो हि cricket-जगतः विभवः,
युगपदेव सः विनोदपूर्ण-शैल्या अपि अलिखत् – “ नैव, वयं तं
न कस्मैचिदपि दास्यामः|” स्पर्धा-क्रीडेयम् अस्माकं
सर्वेषां कृते चिर-स्मृतिरूपेण स्थास्यति | अस्तु,
प्रथमा स्पर्धा-क्रीडेयम् आसीदिति कृत्वा
अस्याः स्मृतिस्तु स्वाभाविकी एव
परञ्च अहन्तु कस्यचिद् विशेष-कारणस्य
कृते एनां स्मरिष्यामि | भारतीय-वृन्दं
किमपि तादृशं प्रदर्शनम् अकरोत्, यद्धि अशेष-विश्वस्य
कृते उदाहरणत्वेन विराजते | वैजयन्त्याः ग्रहणावसरे विजेतृ-क्रीडक-वृन्दं
किं कर्तुं पारयति ? तैः किं कृतम् ? – भारतीय-क्रीडक-वृन्दं, वैजयन्त्याः
आदानावसरे, प्रथमवारम्
अन्ताराष्ट्रिय-स्पर्धा-क्रीडकस्य अफगानिस्तानस्य
क्रीडक-वृन्दम् आमन्त्र्य वृन्द-द्वयमपि सहैव चित्र-छायाङ्कनं व्यदधात् | को नाम
खेलाभावः, किं वा भवति क्रीडा-कौशलञ्च ? – अमुना
घटना-क्रमेण
वयम् अनुभवितुं शक्नुमः | क्रीडक-समाजं
समन्वेतुं कुशलान् प्रतिभाशलिनश्च
युव-क्रीडकान् अन्वेष्टुम् एषः उत्तमः मार्गः | भारताफगानिस्तानयोः
वृन्द-द्वयस्य क्रीडकानां कृते मम हार्दाः शुभाशयाः | आशासे – वयमितः
परमपि एवमेव परस्परं sportsman-sprit-इति खेलाभावनया खेलिष्यामः
विकसिष्यामश्च |
मम प्रियाः देशवासिनः ! मासेsस्मिन् एकविंशे
दिनाङ्के चतुर्थस्य अन्ताराष्ट्रिय-‘योगदिवस’स्य अवसरे
समग्रमपि दृश्यं किञ्चित् पृथगेव आसीत् |अशेषमपि विश्वं समन्वितं सत् व्यराजत | विश्वस्मिन्नपि
विश्वे जनाः पूर्णोत्साहेन संरम्भेण च योगाभ्यासमकुर्वन्
| भवतु नाम Bresil, European Parliament- वा इति
यूरोप-क्षेत्रीया संसद् वा New York-स्थितः संयुक्तराष्ट्रस्य
मुख्यालयः, जापानस्य
नौ-सेनायाः योद्धृ-पोताः, सर्वत्र जनाः योगाभ्यास-व्यापृताः
अवलोकिताः | सऊदी-अरब-देशे
प्रप्रथमं योगभ्यासस्य ऐतिहासिकः
कार्यक्रमः
सम्पन्नः, अपि चाहं सूचितः यदनेकेषाम् आसनानां प्रदर्शनन्तु महिलाः
अकुर्वन् | लद्दाखस्य
उच्च-हिम-शिखरेषु चीन-भारतयोः सैनिकाः
सम्भूय योगाभ्यासमकुर्वन् | योगो
हि सर्वाः अपि सीमाः निरस्य, संयोजयति | परस्सहस्रं देशानां
समुत्साहिनः कोटिशो जनाः जाति-धर्म-क्षेत्र-रङ्ग-लिङ्गादि-भेदान्
अतिक्रम्य अवसरमेनं बृहदुत्सवत्वेन
अनुष्ठितवन्तः | यदि समग्र-जगतः एतावन्तो जनाः समुत्साहिताः
सन्तः ‘योगदिवस’स्य कार्यक्रमेषु
सह- भागित्वमावहन्ति चेत् भारते
एतद्विषयकः उत्साहः कथन्न अनेक-गुणितो
भविता ? राष्ट्रं गौरवमनुभवति
- सपाद-शत-कोटि-मिताः जनाः अवलोकयन्ति यत् अस्मदीय-देशस्य
सुरक्षा-बलानां
भटाः, जले
स्थले नभसि चेति स्थान-त्रयेsपि योगाभ्यासम्
आचरन्ति | केचन वीर-सैनिकाः
समुद्रान्तर्वर्त्तिषु पोतेषु योगाभ्यासम्
विहितवन्तः, केचन च सैनिकाः
सियाचीनस्य
हिमाच्छादितेषु शैल-शिखरेषु योगाभ्यासमकुर्वन् | वायुसेनायाः
अस्माकं योद्धारस्तु
पृथ्वीतः पञ्चदश-सहस्रं फुट्-मित्या ऊपरि नभसि योगासनानि
अनुष्ठीय सर्वान् अपि स्तब्धान् व्यदधन् | अवलोकनीयं
दृश्यन्तु तदासीत् यत्ते नभसि वायौ च तरन्तः योगासनानि
अकुर्वन्, न
मनागपि विमानेषु स्थित्वा | भवतु नाम विद्यालयो वा महाविद्यालयः, कार्योलयो वा उद्यानं वा, बहुतलीयं भवनं वा क्रीडाङ्गणं, सर्वत्र योगाभ्यासः
सम्पन्नः | अमदावादस्य
अन्यतमं दृश्यन्तु हृदयस्पर्शि आसीत् | तत्र
प्रायेण सार्ध-सप्त-शतं दिव्याङ्गाः भ्रातरो भगिन्यश्च एकस्मिन्नेव
स्थाने, सम्भूय योगाभ्यासमनुष्ठीय
विश्व-कीर्तिमानम्
अरचयन् | योगस्तु जाति-पक्ष-भूगोल-सीमानम्
अतिक्रम्य समग्र-विश्वस्य जनान् सम्भूय कार्याणि
आचरितुं सम्प्रेरितवान् | ‘वसुधैव कुटुम्बकम्’-
इति व्यापक-भावं वयं शताब्देभ्यः जीवन्तः स्मः
| अस्मदीयाः ऋषयः, मुनयः, महर्षयः,
मनीषिणः साधवश्च यं भावं सबलं प्रतिपादितवन्तः, योगेन
सः समुचितार्थेण सिद्धीकृतः | आमिनोमि यत्
अद्यत्वे योगः आरोग्य-क्रान्तिं प्रवर्तयति | आशासे यत् योगाभ्यासेन
सुस्वास्थ्यस्य यदभियानं प्रवर्तितं, तत् इतःपरमपि अग्रेसरिष्यति | समधिकाः
जनाः एनं निज-जीवनस्य अङ्गत्वेन स्वीकरिष्यन्ति |
मम प्रियाः देशवासिनः ! MyGov, NarendraModiApp- चेत्यत्र अनेके जनाः माम्
अलिखन् यदहं क्रमेsस्मिन् ‘मन की बात’-प्रसारणे जुलाई-मासे
प्रथमे दिने सम्पत्स्यमानं Doctor’s Day-इति चिकित्सक-दिन-विषये किमपि
वदेयम् – समुचितमिदम् | वयं विपत्काले एव चिकित्सकं स्मरामः परञ्च
एतादृशमिदं दिनं, यदा देशः अस्माकं
चिकित्सकानां उपलब्धीः सम्मानयति, तथा च, समाजं प्रति विधीयमानयोः
तेषां सेवा-समर्पणयोः
कृते तेभ्यः भूरिशो धन्यवादान् वदामि
|
वयं तु ते, ये स्वभावतः
मातरं भगवद्रूपेण पूजयन्ति, भगवत्तुल्यम्
आमनन्ति यतो हि माता अस्मभ्यं जीवनं ददाति, जननी अस्मान् जनयति, तर्हि
नैकवारं चिकित्सकः अस्मभ्यं पुनर्जन्म ददाति | चिकित्सकस्य
भूमिका
केवलं रोगोपचारं यावत् सीमिता नास्ति | प्रायेण
चिकित्सकाः कुटुम्बस्य मित्राणि भवन्ति | अस्माकं जीवनशैली-निर्देशाः सन्ति– “They not
only cure but also heal” ते न केवलं उपचारयन्ति परञ्च
निरामयतामापादयन्ति | साम्प्रतं चिकित्सकाः चिकित्सकीय-विशेषज्ञतां
तु धारयन्ति एव, युगपदेव ते
सामान्य-जीवनशैली-प्रवृत्ति-विषयकान् स्वास्थ्य-प्रभावकारिणः
गूढानुभवान् अपि सन्धारयन्ति | भारतीयाः
चिकित्सकाः स्वीय-क्षमतायाः कौशलस्य
च कृते विश्वस्मिन्नपि विश्वे अभिज्ञानं
प्रतिष्ठापितवन्तः | चिकित्सकीय-वैशिष्ट्यं, कठोर-श्रमं च धारयन्तः अस्मदीयाः
चिकित्सकाः जटिलाः स्वास्थ्य-समस्याः अपि समाधातुं सुख्याताः सन्ति | ‘मन
की बात’-कार्यक्रमस्य माध्यमेन अहं
सर्वेषामपि देशवासिनां पक्षतः
जुलाई-मासे प्रथम-दिने सम्पत्स्यमानस्य ‘Doctor’s Day’-इति चिकित्सक-दिनस्य अवसरे
सर्वेभ्यः चिकित्सक-मित्रेभ्यः कोटिशोsभिनन्दनानि शुभकामनाश्च
व्याहरामि |
मम
प्रियाः देशवासिनः!
वयम् अतितरां भाग्यवन्तो जनाः
ये अस्यां भारत-भूमौ
जन्म
लब्धवन्तः | भारतस्य तादृशः समृद्धः
इतिहासः
वर्त्तते, यत्र न कश्चन तादृशः मासः, न वा कश्चन तादृशः दिवसः अस्ति
यत्र कश्चनापि ऐतिहासिक-घटना-क्रमो
नाघटिष्यत् | अवलोकयेम चेत् तदा
अवगच्छामः यत् भारते प्रत्येकमपि स्थानस्य नैजं
रिक्थं वर्तते | तत्रत्यः कश्चन साधुः वा सज्जनः महात्मा, कश्चन महापुरुषः, कश्चन प्रसिद्धः
वा जनः सम्बद्धः अस्त्येव | सर्वेषामपि
स्वं स्वं योगदानमस्ति, नैजं माहात्म्यमस्ति |
“प्रधानमन्त्रि-महोदय
! नमस्कारः ! अहं
डॉ.सुरेन्द्र-मिश्रः
ब्रवीमि | वयं ज्ञातवन्तः यत् मासेsस्मिन् अष्टाविंशे दिनाङ्के भवान्
मगहरम्
आगमिष्यति | अहं मगहरस्य पार्श्ववर्तिनः
गोरखपुरान्तर्वर्त्तिनः
‘टडवा’- इति लघुग्रामस्य
वास्तव्योsस्मि | मगहर-क्षेत्रं कबीर-महात्मनः
समाधि-स्थलीरूपेण
सुख्यातं तथा चात्र, सामाजिक-समरसतायाः
कृते जनाः कबीरं सुस्मरन्ति, कबीरस्य विचारान्
आधृत्य प्रत्येकमपि स्तरे चर्चा भवति | भवतः
कार्ययोजनया अस्यां दिशि
समाजस्य
प्रत्येकमपि स्तरः नूनं सम्यक्तया प्रभावितो भविता | भवन्तं निवेदयामि यत् कृपया
भारत-सरकारस्य या कार्ययोजनास्ति, तस्याः
विषये अस्मान् अवगतान् करोतु |”
भवतः दूरभाषाकारणायै भूरिशो धन्यवादाः | सत्यमिदं
यत् मासेsस्मिन् अष्टाविंशे दिनाङ्केsहं मगहरमागमिष्यामि
| पूर्वं
यदा गुजराते कार्यनिरतः आसम्, तदा गुजरातस्य कबीरवड-इत्यत्र
महात्मनः कबीरस्य परम्पराभिः
सम्बद्धानां जनानामेकं बृहत्-राष्ट्रियम् अधिवेशनम् अपि आयोजिवान् | तर्हि पुनरप्येकवारं समाधि-स्थलेsस्मिन्
आगमनस्यावसरं लभे | मन्ये, भवन्तः सर्वे सम्यक्तया अवगच्छन्ति यत् पूर्वीयोत्तर-प्रदेशे
मगहरं
नाम सुप्रसिद्धमेकं स्थानम् | इदमेव तत्स्थानं यत्र महात्मनः
कबीरदासस्य
समाधिः
वर्त्तते | किं भवन्तः जानन्ति यत् कबीरदासः
मगहरं
किमर्थं गतवान् ? तदा एतादृशी धारणा आसीत् यत् मगहरे
यस्य मरणं भवति, सः स्वर्गं
प्रयाति | एतद्-विपरीतं काश्यां यः शरीर-त्यागं
करोति, सः स्वर्गं
प्रयाति | मगहर-क्षेत्रं अपवित्रं
मान्यते स्म परञ्च महात्मा कबीरदासः
नैतस्मिन् विश्वसिति स्म | निज-कालस्य एतादृशीः
कुरीतीः
अन्धविश्वासान् च अपास्तुं सः कार्याणि
अन्वतिष्ठत्, अत एवासौ मगहरम् अगच्छत्, तथा च तत्रैव समाधिम्
अङ्गीकृतवान् | महात्मा कबीरदासः
निज-साखी-दोहेति
अभिव्यक्ति-माध्यमेन सामाजिक-समानतां, शान्तिं, भ्रातृत्वञ्च सबलं ख्यापितवान् | एते एव
तस्यादर्शाः आसन् | तस्य रचनासु वयम् एतान् एव आदर्शान्
अवलोकयामः, तथा च, अद्यतनेsपि युगे असौ
तावान् एव प्रेरकोsस्ति | तस्य एका
दोहा-इति
उक्तिरस्ति :-
“कबीर सोई पीर है, जो जाने पर पीर |
जो पर पीर न जानही, सो का पीर में पीर ||
अर्थात्
यथार्थः साधुः सत्पुरुषः च
सः एवास्ति यो हि परेषां वेदनां जानाति अनुभवति च | ये अपरेषां दुःखानि नैव जानाति
ते निष्ठुराः सन्ति | कबीरदासः सामाजिक-समरसतां सबलं ख्यापितवान् | सः
स्वीय-कालाद् सुबहु पूर्वं विचारयति स्म | तस्मिन् काले यदा विश्वे अवनतिः
संघर्षश्च प्रवर्तेते स्म, तदा सः शान्ति-सद्भावयोः सन्देशं प्रादात्, तथा च,
लोकमानसं एकीकृत्य मतभेदानां अपाकरणं व्यदधात् |
“जग
में बैरी कोई नहीं, जो मन शीतल होय |
यह
आपा तो डाल दे, दया
करे सब कोय ||”
अपरास्यां दोहोक्तौ
कबीरः लिखति –
“जहां दया तहं धर्म है, जहां
लोभ तहं पाप |
जहां क्रोध तहं काल है, जहां
क्षमा तहं आप ||”
अर्थात् यत्र दया, तत्रैव
धर्मः
| यत्र लोभः
तत्रैव पापम् | यत्र क्रोधः
कालः
अर्थात् मृत्युः | यत्र क्षमा तत्र
साक्षात्प्रभोः
वासोsस्ति | तेनोक्तम् :-
“जाति न पूछो साधू की, पूछ लीजिये
ज्ञान |
तथा च, जनान् अपि निवेदितवान् यत्ते जाति-धर्मम्
अविगणय्य ज्ञानाधारेण
सर्वान् अभिमन्येरन्, तान् सम्मानयेयुः,
कबीर-महात्मनः सदुपदेशाः शताब्देभ्यः पश्चाद् अद्यत्वेsपि
तावन्तः एव प्रभाविनः सन्ति | अद्य वयं यदा तस्य कथनानि
परिशीलयामः, तदानुभवामः यत् सः अद्यतन-युगस्य ज्ञान-विषयान् सुतरामस्मान् निगदति | सद्यः वयं
महात्म-कबीर-विषये चर्चां कुर्वन्तः आस्मः, तर्हि तस्य दोहमेकं
स्मरामि | अत्रासौ भणति :-
“गुरु
गोविन्द दोऊ खड़े, काके लागूं पांय |
बलिहारी
गुरु आपने, गोविन्द दियो बताय ||”
एतादृगेव भवति गुरोः
माहात्म्यम्, तथा च, एतादृगेव एकः गुरुरस्ति, जगद्-गुरुः – गुरुः
नानकदेवः
यो हि कोटि-कोटि-जनेभ्यः सन्मार्गं
प्रादर्शयत्, शताब्देभ्यश्च एतान् प्रेरयन्नस्ति
| निगद्यते
यत् प्रत्येकमपि सिक्खगुरुः
दिव्य-गुणान्
प्रतिनिधत्ते | गुरुः नानकदेवः
प्रतिनिधत्ते – नम्रताम् | गुरोः नानक-देवस्य
शिक्षा-सदुपदेशानां
कारणादेव
स्वच्छता, भवतु नाम सा व्यक्तिगत-स्तरीया
वा सामाजिक-स्तरीया, सिक्ख-परम्परासु
एषा सबलं ख्यापितास्ति | जीवनशैल्यां, आचरणे च स्वच्छता
हि केन्द्रीभूतास्ति | गुरुः नानक-देवः
समाजे
प्रवर्त्तमानं जातिगतं भेदभावम्
अपास्तुं, सम्पूर्णामपि मानवजातिमेकत्वेन
स्वीकृत्य एनाम् आश्लेषयितुम् अशिक्षयत् | गुरुः
नानकदेवः
कथयति स्म – निर्धनानां अपेक्षावताञ्च सेवा हि भगवतः
एव सेवास्ति | सः यत्र-कुत्रापि अगच्छत्, समाजस्य
कल्याणार्थं प्राथम्याधारेण अनेकविधान् प्रयासान् अकरोत् | सामाजिक-भेदभावेन
मुक्तायाः
‘लङ्गर’-इति भोजन-व्यवस्थायाः
शुभारम्भः गुरुणा नानकदेवेन एव विहितः यत्र सर्वविध-जाति-पक्ष-धर्म-सम्प्रदायानां
जनाः आगत्य भोजनं कर्तुमर्हन्ति | आगामिनि वर्षे गुरोः
नानकदेवस्य
सार्ध-पञ्चशततमं प्रकाशपर्व आयोजयिष्यते
| वाञ्छामि
यद्-वयं सर्वे उत्साह-संरम्भाभ्याम्
अमुना आत्मानं संयोजयेम | भवतः सर्वान् अपि साग्रहं कथयामि - गुरोः
नानकदेवस्य
सार्ध-पञ्चशततमं प्रकाशपर्व आलक्ष्य
सम्पूर्णेsपि समाजे विश्वस्मिन्नपि
विश्वे चास्य आयोजनं केन प्रकारेण स्यादिति कृत्वा तत्सम्बद्धान् अभिनवान्
विचारान्, नवीनान् परामर्शान्, नूतनाः कल्पनाश्च आधृत्य विचारयेम,
पूर्वोपकल्पनानि करवाम, तथा च, वयं सर्वे सम्भूय सगौरवं
प्रकाश-पर्वेदं प्रेरणापर्वत्वेनापि
विरचयेम |
मम प्रियाः देशवासिनः
!
भारतस्य स्वतन्त्रता-संघर्षः
अतितरां दीर्घः अस्ति, बहु-व्यापकोsस्ति, नितरां
गूढोsस्ति, अगणित-हुतात्मभिः
परिपूर्णोsस्ति | पञ्जाबेन सम्पृक्तः अपरः अन्यतमः इतिहासोsस्ति
|
आगामिनि
वर्षे जलियांवाला-बाग़-इत्यस्याः
अशेष-मानवतायै लज्जाकर्याः भयानक-घटनायाश्चापि
शत-वर्षाणि पूर्णतां यास्यन्ति | विगते शताब्दे एप्रिल्-मासीयं
त्रयोदशं कालिम-पूर्णं दिनं
को नाम विस्मर्तुम् अर्हति ? यदा शासनाधिकारान् दुरुपयुज्य क्रूरताञ्च
अङ्गीकृत्य निर्दोषेषु,
निरपराधिषु निरायुधेषु च जनेषु गोलिकाः
प्रहृताः | घटनेयं शतवर्षीया जायते | एषा केन
प्रकारेण स्मरणीया, वयं सर्वे सम्भूय इदं विचारयितुं शक्नुमः, परञ्च
घटनैषा यम् अमर-सन्देशं
प्रादात्, तं वयं सर्वदैव संस्मरेम | एतादृशेन
हिंसा-क्रूरता-क्रमेण
कदाचिदपि कस्याश्चिदपि समस्यायाः समाधानमधिगन्तुं
नैव शक्यते | सर्वदैव शान्तिः अहिंसा च
विजयेते, त्यागस्य बलिदानस्य
चैव विजयो जायते |
मम
प्रियाः देशवासिनः!
दिल्ल्याः रोहिणी-वास्तव्यः
श्रीमान् रमणकुमारः
‘Narendra
Modi Mobile App’- इत्यत्र अलिखत् यत् आगामिनि जुलाई-मासे
षष्ठे दिने डॉ०श्यामाप्रसादमुखर्जि-वर्यस्य
जन्मदिनमस्ति,
तथा चासौ वाञ्छति यत् कार्यक्रमेsस्मिन् डॉ०श्यामाप्रसादमुखर्जिनः
विषये देशवासिनो विज्ञापयामि, विषयेsस्मिन्
सम्वदेयं च |
रमण-महोदय
! सर्व-प्रथमन्तु भवते भूयान्सो धन्यवादाः | भारतस्य
इतिहासे
भवान् रुचिमान् इति कृत्वा सन्तोषोsनुभूयते | भवान् जानाति, ह्यः एव,
जूनमासे त्रयोविंशे दिने डॉ०श्यामाप्रसादमुखर्जिनः
पुण्यतिथिरासीत् | डॉ०श्यामाप्रसादमुखर्जी
अनेकैः क्षेत्रैः सम्पृक्तः आसीत् परन्तु
येषु क्षेत्रेषु तस्य गहना संसक्तिः आसीत् तानि सन्ति – शिक्षा, प्रशासनं,
संसदीय-कार्याणि च, न्यूनाः एव जानीयुः
यदसौ कोलकाता-विश्वविद्यालयस्य
सुतराम् अल्पतमायुष्कः कुलपतिः आसीत् | यदासौ कुलपति-पदम्
अलमकरोत् तदा केवलं त्रयस्त्रिंशद्वर्ष-देशीयः आसीत् | बहु-न्यूनाः
एव जानन्ति यत् विगते शताब्दे सप्त-त्रिंशत्तमे वर्षे डॉ०श्यामा-
प्रसादमुखर्जिनः निमन्त्रणं
स्वीकृत्य श्रीगुरुदेव-रवीन्द्रनाथ-ठाकुरः
कोलकाता-विश्वविद्यालयस्य
दीक्षान्ताभिभाषणं बांग्ला-भाषया
व्याहरत् | प्रप्रथमोsयमवसरः आसीत्, यदा सत्यपि
आङ्ग्ल-शासने कोलकाता-विश्वविद्यालये
केनचित् बांग्ला-भाषया
दीक्षान्ताभिभाषणं प्रस्तुतम् | विगते शताब्दे चतुःचत्वारिंशत्तः
पञ्चाशत्तम-वर्षं यावत् डॉ०श्यामाप्रसादमुखर्जी भारतस्य
प्रथमः उद्योग-मन्त्री
अवर्त्तत, तथा च, परमार्थेन वदेम चेत्, सः भारतस्य,
औद्योगिक-विकासस्य च
दृढतरं शिलान्यासमकरोत्, दृढतराधारं
सज्जीकृतवान्, स्थिरञ्च मञ्चमुपकल्पितवान् | विगते शताब्दे अष्टचत्वारिंशत्तमे
वर्षे प्रवर्त्तितायां स्वतन्त्र-भारतस्य
प्रथमायाम् औद्योगिक-नीतौ
तस्यैव दृष्टिः विचाराश्च गुम्फिताः आसन् | डॉ०मुखर्जिनः
स्वप्नः आसीत् यत् भारतं प्रत्येकमपि क्षेत्रे औद्योगिकरूपेण
आत्मनिर्भरं
स्यात्, कुशलं समृद्धञ्च
भवेत् | असौ वाञ्छति स्म यत् लघु-कुटीरोद्योगानां विकासः स्यात्,
एतदर्थं विगते शताब्दे अष्टचत्वारिंशत्तः पञ्चाशत्तम-वर्ष-मध्ये All India
Handicrafts Board, All India Handloom Board, Khaadi &
Village Industries Board चेत्यादीनां स्थापना
विहिता | river valley projects-इति
परियोजनानां स्थापनायां डॉ०श्यामाप्रसाद-
मुखर्जिनो महत्तम-योगदानमासीत् | पश्चिम-बंगालस्य
विकासमभिलक्ष्य
असौ
संरम्भपूर्णः आसीत् | तस्य अवगमन- विवेक-सक्रियतानामेव
परिणामः
यत् बंगालस्य अन्यतमः भागः संरक्षितः | तस्य कृते सर्वाधिकं
महत्वपूर्णमासीत् - भारतस्य
अखण्डता एकता च
–
एतदर्थमेव सः द्विपञ्चाशद्वर्षीये एव अल्पायुषि विगत-प्राणः जातः | आयान्तु
!
वयं सर्वदा डॉ०श्यामा-
प्रसादमुखर्जिनः एकता-सन्देशं
संस्मरेम, सद्भाव-बन्धुत्वयोः
भावनाभिः
सहैव, भारतस्य
प्रगतेः
कृते प्राण-पणेन संलग्नाः भवेम |
मम प्रियाः देशवासिनः! विगतेषु
केषुचित् सप्ताहेषु video call-माध्यमेन सर्वकारस्य
विभिन्न-योजनानां
लाभार्थिभिः
सम्वादावसरो
लब्धः | जनाः स्वीय-संकल्प-सुख-दुःख-समुपलब्धि-विषये
अभाषन्त | मन्येsहं यत् मम कृते केवलम् अयं सर्वकारीय-कार्यक्रमः
नैवासीत् परञ्च अयं हि स्वप्रकारकः पृथगेव अध्ययनानुभवः आसीत् | अवसरेsस्मिन्
जनानाम् आननानि प्रसन्नानि अवलोकितानि | तेषां निष्कपट-शब्दैः श्राविताः अनुभव-कथाः
हृदय-स्पर्शिन्यः आसन् | दूर-सुदूरेषु
ग्रामेषु दुहितरः common service Centre-माध्यमेन
ग्रामाणां वरिष्ठानां वृद्धानाञ्च सेवानिवृत्ति-वेतनतः पारगमन-पत्राणां निर्माण-सेवाः
प्रापयन्ति | छत्तीसगढस्य काचित् भगिनी सीताफलम्
आहृत्य तस्मात् ice cream-इति हैम-मिष्टिं निर्मीय व्यवसायं यदा करोति
|
झारखण्डे
च, अञ्जन-प्रकाश-समाः
देशस्य लक्षशो युवानः औषधि-केन्द्राणां
सञ्चालनेन सहैव परिपार्श्व-वर्त्तिषु ग्रामेषु गत्वा अल्प-मूल्यैः औषधीनि
उपायनीकुर्वन्ति | अपरतश्च पश्चिम-बंगालस्य
कश्चन नवयुवा द्वात्रि-वर्ष-पूर्वं कार्यम् अन्विषन् आसीत्, साम्प्रतञ्च केवलं सः
स्वीयं सफल-व्यवसायं
करोति; नैतावदेव
केवलं, दशभ्यो
वा पञ्चदशभ्यो जनेभ्यः सेवा-वृत्तिमपि प्रापयति | अत्र तमिलनाडु-पञ्जाब- गोवादीनां
विद्यालयीयाः छात्राः अल्पयस्येव वयसि waste
management-सदृशेषु महत्त्वाधायि-विषयेषु कार्याणि कुर्वन्ति | न
जाने, कति कति कथाः आसन् | देशस्य
नैकमपि कोणमस्ति यत्र जनानां निज-सफलतानां कथाः
नैव सन्तीति | मम प्रसन्नतायाः विषयस्तु अयमेव यत् अस्मिन्
समग्रेsपि कार्यक्रमे सर्वकारस्य
सफलतातोsधिकाः
सामान्य-मानवीय-सफलतानां
कथाः आसन् याः हि देशस्य शक्तिः, नूतन-भारतस्य
स्वप्नानां शक्तिः, अभिनव-भारतस्य संकल्प-शक्तिश्च
वर्त्तते – एतत्सर्वमहम् अनुभवन्नासम् | दूर-सुदूरम्
एकस्मिन्
लघु-ग्रामे लघुबालिकायाः घटनापि
सपाद-शत-कोटि-देशवासिनां कृते प्रेरणारूपा
जायते | मम कृते प्रविधि-साहाय्येन, video
bridge- माध्यमेन
च लाभार्थिभिः साकं समय-यापनस्य
पलमिदं अतितरां सुखदं, अतितराञ्च प्रेरकमासीत्,
तथा च, अमुना कार्यानुष्ठानस्य तोषोsनुभूयते एव परञ्च समधिक-कार्य-करणार्थमपि
उत्साहः लभ्यते | निर्धनतमोsपि जनः जीवन-यापनस्य नूतनमेकम्
आनन्दं, अपरमेकं अभिनवमुत्साहं, अपरा ञ्चैकां नवीनां प्रेरणाम्
प्राप्नोति |
अहं देशवासिनां कार्तज्ञ्यमावहामि
|
चत्वारिंशत्तः पञ्चाशल्लक्षाधिकाः जनाः अमुना video bridge-कार्यक्रमेण
संयुताः जाताः तथा च, मह्यं नूतनायाः शक्तेः प्रदानं विहितम् | अहं
पुनरेकवारं भवतां सर्वेषां कार्तज्ञ्यमावहामि |
मम प्रियाः देशवासिनः!
अहं सर्वदैव अनुभवामि – यदि वयं परितः अवलोकयामः चेत्, तदा कुत्रचिद् किञ्चित्
भद्रं नूनं भवति | समीचीन-करणं हि जनाः एव कुर्वन्ति | समीचीनतायाः सुगन्धिं
वयमपि अनुभवितुं शक्नुमः | विगतेषु
दिनेषु तथ्यमेकं मया अवधत्तम्, तथा च, संयुतिरेषा
अनुपमास्ति | अत्र एकतः व्यावसायिकाः अभियन्तारश्च
सन्ति, तर्हि अपरतः कृषि-क्षेत्रेषु कर्मकराः, कृषि-सम्बद्धाः अस्मदीयाः कृषक-भ्रातरो
भगिन्यश्च वर्तन्ते | सम्प्रति भवन्तः विचारयन्तः स्युः यत् एतत्तु
नितरां प्रथक्-पृथक्-व्यवसाय-द्वयं वर्तते – अनयोः
मध्ये को नाम सम्बन्धः? परञ्च एवमस्ति, बैंगलुरु-नगरे
निगम-व्यवसायिनः, सूचना-प्रविधि-अभियन्तारः समवेताः जाताः | ते सम्भूय एकं
सहज-समृद्धि-न्यासं
निर्मितवन्तः, तथा च, कृषकाणाम् आयः द्विगुणितो भवेद् इत्येतदर्थम्, न्यासं
सक्रियं विहितवन्तः | कृषेः नूतनान् गुणान् शिक्षयितुं,
युगपदेव जैविक-कृषिः केन प्रकारेण कर्तुं
शक्यते ? इत्यादयो विषयाः न्यास-द्वारा प्रशिक्ष्यन्ते | पूर्वं ये कृषकाः
निज-क्षेत्रेषु एकस्मिन्नेव पाके निर्भराः आसन् ते साम्प्रतं पाकस्य भद्रत्वात्
लाभमपि अर्जयन्ति, साम्प्रतञ्च ते शाकादि-पाकान् अपि लभन्ते तथा च, न्यास-माध्यमेन
समुचित-मूल्यैः विपणनमपि कुर्वन्ति | अन्नोत्पादकाः कृषकाः अपि
अमुनाः संयुक्ताः सञ्जाताः | एकतस्तु पाकोत्पादनात् विपणनं
यावत् समग्रायां
शृङ्खलायां कृषकाणां प्रमुखा
भूमिकास्ति,
अपरतश्च, लाभार्जने कृषकाणां सहभागित्वं सुनिश्चेतुं
तेषाञ्च अधिकाराणां सुनिश्चितीकरणस्य
प्रयासोsस्ति | पाकः समीचीनः स्याद् इत्येतदर्थम् समुचित-बीजानि
अपेक्ष्यन्ते | एतदर्थं पृथक्तया बीज-बैङ्कं
विनिर्मितम् | महिलाः अस्य बीज-बैंकस्य
कार्याणि निभालयन्ति | अमुना महिलाः अपि
संयोजिताः | अस्य अभिनवप्रयोगस्य
कृते अहं एतेभ्यः युवकेभ्यः भूरिशो धन्यवादान् वर्धापनानि च वितरामि, तथा च,
प्रसीदामि यत् व्यावसायिकाः, प्रविधिज्ञाः, अभियन्तारश्च इत्येषां संसारेण
सम्बद्धाः एते युवानः निज-संकीर्ण-सीमतो बहिः
निष्क्रम्य कृषकैः ग्रामैः क्षेत्रैश्च साकं संयोजनस्य मार्गम् अङ्गीकृतवन्तः |
मित्राणि! भवतां यौवनं सत्यमेव
कमपि नवयुवकं प्रेरयितुम् अलम् | देशस्य
अन्येsपि युवानः भवतां वेबसाइट्-इति
अन्तर्जालीय-वाहिकां अवलोक्य भवतां कार्याणि सूक्ष्मेक्षिकया विवेचयिष्यन्ति, तथा
च, तेsपि निज-क्षेत्रे समाजस्य विवेधेषु भागेषु
कार्यानुष्ठानस्य प्रेरणां नूनमादास्यन्ति | अहं पुनरेकवारं मम देशस्य
युव-जनेभ्यः
सर्वेभ्यः, तेषामेतेभ्यः अभिनव-प्रयोगेभ्यः, मम
पक्षतः अनेकशः शुभकामनाः
व्याहरामि |
मम प्रियाः
देशवासिनः! GST- इति समग्र-सेवा-कराधानस्य
प्रवर्तनस्य वर्षावधिः पूर्णतां याति, ‘One Nation, One Tax’- इत्येतत् देशस्य
नागरिकाणां कृते स्वप्न एव आसीत्, साम्प्रतमिदं यथार्थत्वेन
परिणतम् | One Nation One Tax reform – इत्येतदर्थं यदि कस्मैचित्
सर्वाधिकं श्रेयःप्रदानं करणीयमस्ति चेत्, अहं राज्येभ्यः
श्रेयःप्रदानं करोमि | साम्प्रतं यावत् GST-इत्यस्य
परिषदः सप्तविंशतिः उपवेशनानि सम्पन्नानि तथा च, वयं सर्वे गौरवमनुभवितुं शक्नुमः
यत् विभिन्नानां
राजनीतिक-विचारधाराणां जनाः
अत्रोपविशन्ति, विभिन्न-राज्यानां
च जनाः उपविशन्ति, पृथक्-पृथक्-प्राथम्यवन्ति राज्यानि भवन्ति, परञ्च एवं
सत्यपि GST-परिषदि अधुनावधि यावन्तो निर्णयाः सञ्जाताः, ते सर्वेsपि
सर्वसहमत्या
विहिताः सन्ति | GST-प्रवर्तनात् प्राक् देशे
सप्तदश पृथक्-पृथक्-प्रकारकाणि कराधानानि आसन् परञ्च
अस्याः व्यवस्थायाः
अन्तर्गतं साम्प्रतं केवलं एकमेव
कराधानं सम्पूर्णेsपि देशे प्रवर्त्तते | भारते एतावान्
बृहत्कर-परिष्कारः सफलः तस्मादेव कारणात् सञ्जातः यतो हि देशस्य
नागरिकाः एतत्-अङ्गीकृतवन्तः तथा च, जन-शक्ति-द्वारा
एव GST-इत्यस्य सफलता
सुनिश्चिता सञ्जाता | सामान्यतया एवं मन्यते यत्
एतावान् बृहत्-परिष्कारः, एतावान् बृहत्-देशः, एतावती बृहती जनसंख्या-अस्य
पूर्णरूपेण स्थिरीकरणार्थं पञ्चतः सप्त वर्षाणि अपेक्षन्ते परञ्च देशस्य
प्रामाणिकानां जनानां उत्साह-कारणात् जन-शक्ति-सहभागित्वाच्च
वर्षाभ्यन्तरमेव नूतनैषा कर-प्रणाली
स्वीयं स्थानं सुनिश्चितमकरोत्, स्थिरताञ्च
प्राप्तास्ति तथा च, आवष्यकतानुसारं
निजान्तर्वर्ति-व्यवस्थाद्वारा एषा
परिष्कारमपि कुर्वन्ती प्रवर्तते | एषास्ति महती सफलता यां सपाद-शत-कोटि-देशवासिनः
अर्जितवन्तः
|
मम प्रियाः देशवासिनः! पुनरेकवारं
‘मन
की बात’-कार्यक्रमं समुपसंहरन् आगामिनं ‘मन
की बात’-कार्यक्रमं प्रतीक्षे यदा भवद्भिः साकं सम्वादावसरः
लप्स्यते | भवद्भयः भूरि भूरि शुभकामनाः |
भूयान्सो धन्यवादाः |
*****
No comments:
Post a Comment