Monday, 27 November 2017

मन की बात[३८]
मनोगतम् [३८]              (प्रसारण-तिथि:- 26.11.2017)

[“मन की बात”- मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                           
                                       -    बलदेवानन्द-सागरः  
मम प्रियाः देश-वासिनः !  
             नमस्कारः | कतिपय-दिनेभ्यः पूर्वम् अहं कर्णाटकस्य बालमित्रैः सह परोक्ष-संवादस्य अवसरं लब्धवान् | Times Group - इत्यस्य विजय-र्णाटक-वार्तापत्रं बाल-दिवसावसरे, प्राथमिक-प्रयासम् अकरोत् यस्मिन् साग्रहं बालाः प्रेरिताः यत्ते प्रधानमन्त्रिणं पत्रं लिखेयुः | अनन्तरम् अमुना कानिचन चितानि पत्राणि प्रकाशितानि | अहं तानि पत्राणि अपठम्, तत् मह्यं सुतरां अरोचत | एते लघु-लघु-बालकाः अपि,  देशस्य समस्याभिः अभिज्ञाताः सन्ति,  देशे प्रवर्तमानाभिः चर्चाभिरपि परिचिताः सन्ति | अनेकान् विषयान् आलक्ष्य एते बालाः अलिखन् | उत्तर-कन्नड़स्य, कीर्ति-हेगड़े, Digital India-Smart City - इति  योजनां प्रशंसन्ती परामर्शयत् यत् अस्मदीयायां शिक्षा-व्यवस्थायां परिवर्तनस्य आवश्यकतास्ति, तथा च, सा इदमपि परामर्शयत् यत् अद्यत्वे बालाः कक्ष्यायामेव पठितुं नाभिलषन्ति, तेभ्यः प्रकृति-ज्ञानं अतितरां रोचते | यदि वयं बालेभ्यः प्रकृति-सूचनां दद्मश्चेत्, स्यात् पर्यावरणस्य रक्षायाः कृते तेभ्यः भविष्यत्काले महत्-साहाय्यं सेत्स्यति |
             लक्ष्मेश्वरातः रीडा-नदाफः अलिखत् यत् सा सैनिकस्य पुत्री अस्ति, सा चैतद्-विषये गौरवम् अनुभवति | को नाम वा भवेत् भारतीयः, यः सैनिकत्व-विषये गौरवं नानुभवेत् ! भवती तु सैनिकस्य पुत्री, भवत्याः गौरवानुभूतिस्तु स्वाभाविकी | कलबुर्गीतः इरफ़ाना-बेग़मः अलिखत् यत् तस्याः विद्यालयः तद्-ग्रामात् पञ्च-किलोमीटर-मितान्तरालेन दूरं वर्तते, यतः तया गृहात् शीघ्रं निर्गन्तव्यं भवति, अपि च, प्रत्यागमनेsपि अतितरां विलम्बो भवति | सा इदमपि लिखितवती यत् एतस्मात् कारणात् स्वीयैः सखिभिः साकं सा कालं यापयितुं नैव शक्नोति | सा परामर्शयत् यत् समीपमेव कश्चन विद्यालयः स्थापनीयः | परञ्च, देशवासिनः ! एकेन वार्तापत्रेण प्राथमिक-प्रयासत्वेन इदमारब्धम्, मां प्रति एतानि पत्राणि प्रापितानि, मह्यम् इदम् अरोचत, तेषां पत्राणां पठनस्य अवसरं लब्धवान् | मत्कृतेsपि अयं सुखदः अनुभवः आसीत् |
             मम प्रियाः देशवासिनः, अद्य नवम्बर-मासीयः एकादश-दिनाङ्कः | नवम्बर-मासीयः एकादश-दिनाङ्कः, अस्मदीय-संविधानस्य दिवसः अस्ति | ऊनविंश-शताब्दस्य ऊन-पन्चाशत्तमे वर्षे [1949] अस्मिन्नेव दिने, संविधान-सभा भारतस्य संविधानं स्वीकृतवती |  ऊनविंश-शताब्दस्य पञ्चाशत्तमे वर्षे [1950] जान्युआरि-मासे षड्विंशे दिनाङ्के संविधानं प्रवर्तितम्, अत एव वयं एनं गणतंत्र-दिवसरूपेण आयोजयामः | भारतस्य संविधानं हि, अस्मदीय-लोकतंत्रस्य आत्मा वर्तते | अद्यतनोsयं दिवसः, संविधान-सभायाः सदस्यानां स्मरण-दिनं वर्तते | ते हि भारतस्य संविधान-संरचनायाः कृते प्रायेण वर्षत्रयं यावत् परिश्रमम् अकुर्वन् | यः कश्चन तद्विषयिणीं परिचर्चां पठति, नूनं सः अनुभवति यत् राष्ट्राय समर्पित-जीवनस्य विचार-सरणी कीदृशी भवति ! एतद्-विषये वयं गौरवम् अनुभवामः | किं भवन्तः इदं कल्पयितुं शक्नुवन्ति यत् विविधता-पूर्णस्य अस्मदीय-देशस्य संविधान-रचनायै ते कियन्तं कठोरं श्रमितवन्तः ? पारदर्शित्वस्य प्रबोधस्य  दूर-दर्शितायाः च नूनं ते दर्शनं कारितवन्तः, तथा च, तस्मिन् काले यदा देशः दासतायाः शृङ्खलाभ्यः मुक्ति-प्रक्रियायाम् आसीत् |  अस्यैव संविधानस्य प्रकाशान्तर्गतं संविधान-निर्मातॄणां, तेषां महापुरुषाणां च विचार-प्रकाशान्तर्गतं नूतन-भारतस्य निर्माणम् अस्माकं सर्वेषां दायित्वं वर्तते | अस्मदीयं संविधानम् अतिव्यापकं वर्तते | सम्भवतः जीवनस्य तादृशं किञ्चन क्षेत्रं नास्ति, प्रकृतेः तादृशः कश्चन विषयो नैवास्ति, यो हि नात्र समावेशितः | सर्वेषां कृते समानता, सर्वान् प्रति च संवेदनशीलता, एतदस्ति - अस्मदीय-संविधानस्य अभिज्ञानम् | इदं प्रत्येकमपि नागरिकस्य, भवतु नाम सः निर्धनो वा दलितः, पश्चवर्ती वा वञ्चितः,  आदिवासी वा महिला - सर्वेषां मौलिकान् अधिकारान् रक्षति तेषाञ्च हितानि परिपालयति | अस्मदीयमिदं कर्तव्यं यत् वयं संविधानम् अक्षरशः अनुसरेम | भवतु नाम सः  नागरिको वा प्रशासकः, संविधानस्य भावनानुरूपम् अग्रेसरेम |  न कश्चन अपि क्षतिम् अवाप्नुयात् - अयमेवास्ति संविधानस्य सन्देशः | अद्य, संविधान-दिवसस्य अवसरे डॉ.बाबासाहेब-आंबेडकरस्य स्मरणं सुतरां  स्वाभाविकम् | अस्यां संविधान-सभायां महत्वपूर्ण-विषयाणां कृते  सप्तदश पृथक्-पृथक् समितयो विरचिताः आसन् | एतासु अतितरां महत्वपूर्णाषु समितिषु अन्यतरा आसीत् - drafting committee - प्रारूपण-समितिः | डॉ. बाबासाहेब-आंबेडकरः, संविधानस्य तस्याः प्रारूपण-समितेः अध्यक्षः आसीत् |  असौ नितरां भूयसीं महत्वपूर्णां भूमिकां निर्वाहयन् आसीत् | अद्य वयं भारतस्य यस्य संविधानस्य विषये गौरवमनुभवामः, तस्य निर्माणे बाबासाहेब-आंबेडकरस्य कुशल-नेतृत्वस्य अनुपमः प्रभावः वर्तते | तेन सुनिर्धारितमासीत् यत् समाजस्य प्रत्येकमपि वर्गस्य कल्याणं भवेत् | डिसम्बर-मासे षष्ठे दिने तस्य महापरिनिर्वाण-दिवसस्य अवसरे, वयं सर्वदा एव तं स्मरामः नमामश्च | देशस्य समृद्धौ शक्तिमत्करणे च बाबासाहेस्य योगदानम् अविस्मरणीयम् अस्ति | डिसम्बर-मासे पञ्चदशे दिने सरदार-वल्लभभाई-पटेलस्य पुण्यतिथिरस्ति | कृषक-पुत्रतः लौह-पुरुषत्वेन प्रतिष्ठितः सरदार-पटेलः,  देशस्य एकसूत्रीकरणे अतितराम् असाधारण-कार्यम् अनुष्ठितवान् | सरदार-साहबः अपि संविधान-सभायाः सदस्यः आसीत् | असौ मौलिकाधिकाराणां, अल्प-संख्यकानाम् आदिवासिनां च कृते विरचितायाः परामर्शदातृ-समितेः अपि अध्यक्षः आसीत् |
           नवम्बर-मासीयः एकादश-दिनाङ्कः अस्मदीय-संविधान-दिवसोsस्ति, परञ्च देशोsयं कथं विस्मर्तुं प्रभवति यत् नव-वर्षेभ्यः प्राक्, अस्मिन्नेव दिने, आतंकवादिनः मुंबईम् आक्रान्तवन्तः |  देशोsयं तान् वीरान् नागरिकान्, रक्षिकर्मिणः, सुरक्षाकर्मिणः, सर्वान् अपि तान् स्मरति प्रणमति च, ये आत्मानम् उत्सृष्टवन्तः | देशोsयं तेषां बलिदानं न कदापि विस्मरिष्यति | आतंकवादः, अद्यत्वे विश्वस्य प्रत्येकमपि भू-भागे सामान्यतः प्रतिदिनं सञ्जायमानायाः घटनायाः अति-भयंकर-रूपत्वेन संतिष्ठते | वयं, भारते वितेभ्यः चत्वारिंशद्वर्षेभ्यः आतंकवादस्य कारणात् सुबहु सम्मुखीकुर्मः | अस्मदीयाः परस्सहस्रं निर्दोष-जनाः विगत-प्राणाः जाताः | अपि च, कतिपय-वर्षेभ्यः प्राक्, यदा भारतं जगति आतंकवादं चर्चते स्म, आतंकवादात्  सञ्जायमानं भयङ्रं सङ्कटं परिचर्चते स्म, तदा जगतः जनानाम् अधिसंख्यं विषयमेनं गभीरतया स्वीकर्तुम् उद्यतं नैव आसीत् | परञ्चाद्य, आतंकवादः तेषां द्वाराणि संकेतयति तदा जगतः प्रत्येकमपि प्रशासनम्, मानवतावादे आहित-विश्वासानि, लोकतन्त्रे आश्वस्तानि प्रशासनानि च, आतंकवादं बृहत्तर-समाह्वानत्वेन अवलोकयन्ति | आतंकवादः विश्वस्य मानवतां समाह्वयति | सः मानवीय-क्तीः नाशयितुं तत्परः | अतः न केवलं भारतं, विश्वस्य सर्वाः अपि मानवतावादि-शक्तयः सम्भूय, नूनम् आतंकवादं पराजयेरन् | भगवान् बुद्धः,  भगवान् महावीरः, गुरुः नानकः,  महात्म-गांधी चैतेषाम् एषा भूः, ये सदा जगति अहिंसा-प्रेम्णोः सन्देशं प्रसारितवन्तः |  आतंकवादः उग्रवादश्च, अस्मदीयां सामाजिक-संरचनां दुर्बलीकृत्य एनां छेत्तुं भेत्तुञ्च दुश्चेष्टेते |  अत एव, कालेsस्मिन् मानवतावादि-शक्तयः समधिक-जागरुतया व्यवहरेयुः इति परमावश्यकम् |
         मम प्रियाः देशवासिनः, डिसम्बर-मासे चतुर्थ-दिने वयं सर्वे मिलित्वा नौ-सेना-दिवसम् आयोजयिष्यामः |  भारतीय-नौ-सेना, अस्मदीय-समुद्र-तटानि संरक्षति |  अहं, नौ-सेना-सम्बद्धान् सर्वान्नपि जनान् अभिनन्दामि | भवन्तः सर्वे जानन्त्येव यत् अस्मदीय-सभ्यतायाः विकासः दीनां तटेषु अजायत | भवतु नाम सा गङ्गा वा सिन्धुः वा यमुना वा सरस्वती - अस्मदीयाः सरितः समुद्राश्च, आर्थिक-सामरिकेति द्विविध-लक्ष्यार्थं महत्वाधायिनः सन्ति |  एते अशेष-विश्वस्य कृते अस्मदीय-द्वाराणि सन्ति | अस्य देशस्य, अस्मदीयायाः अस्याः भूमेः महासागरैः साकम् अविभाज्यः सम्बन्धः अवर्तत, तथा च, यदा वयम् इतिहासम् अवलोकयामः, प्रायेण अष्टशत-नवशत-वर्षेभ्यः प्राक् [800-900] चोल-वंश-काले, चोल-नौ-सेना शक्तिमत्तमासु सेनासु अन्यतमा मान्यते स्म | चोल-साम्राज्यस्य विस्तरे, आर्थिक-महच्छक्तित्वेन अस्य विकासार्थं नौ-सेनायाः महद्-योगदानमासीत् | चोल-नौ-सेनायाः अभियानानाम्, अन्वेषण-यात्राणाम् चानेकानि उदाहरणानि अद्यापि, संगम-साहित्ये समुपलब्धानि सन्ति | अतिन्यूनाः एव अवगताः भवेयुः यत् जगति नौसेनानाम् अधिसंख्यं सुदीर्घ-कालानन्तरं युद्ध-पोतेषु कार्यार्थं महिलाः अनुज्ञातवत् | परञ्च, चोल-नौसेनायां, अष्टशत-नवशत-वर्षेभ्यः प्राक्, अनेकाः महिलाः प्रमुखां भूमिकां निरवहन् | न केवलम् एतावदेव, युद्धेष्वपि महिलाः समाविष्टाः आसन् | चोल-शासकाः पोत-निर्माण-विषयकं बहुतरं समृद्धं ज्ञानं सन्धारयन्ति स्म | यदा वयं नौ-सेना-विषयं कथयामः तदा छत्रपति-शिवाजी-महाराजस्य तस्य च नौ-सेनायाः सामर्थ्यं को नाम विस्मर्तुम् अर्हति ! कोंकण-तट-क्षेत्रम्, यत्र समुद्रस्य महत्वपूर्णा भूमिका वर्तते,  शिवाजी-महाराजस्य राज्यान्तर्वर्ति आसीत् |  शिवाजी-महाराजेन सम्बद्धाः अनेके दुर्गाः - यथा सिंधु-दुर्गः, मुरुड-जंजिरा-दुर्गः, स्वर्ण-दुर्गः प्रभृतयः, समुद्रतट-वर्तिनः आसन् उत वा समुद्रेण परिवृताः आसन् | एतेषां दुर्गाणां सुरक्षा-दायित्वं हि मराठा-नौ-सेना कुर्वन्ती आसीत् | मराठा-नौ-सेनायां विशाल-काय-पोतानां लघु-नौकानाञ्च संयुतिः आसीत् | अस्याः नौसैनिकाः कमपि शत्रुम् आक्रान्तुं तस्माच्च आत्मानं रक्षितुं अतितरां कुशलाः आसन् | यदा वयं मराठा-नौ-सेनायाः चर्चां कुर्मः, तदा कान्होजी-आंग्रे-वर्यस्य स्मरणं नैव जायेत, तन्नैवास्ति शक्यम् ! सः मराठा-नौ-सेनायाः स्तरोन्नयनं कृतवान् अपि च, नैकत्र, मराठा-नौ-सैनिकानाम् आस्थानकानि स्थापितवान् | स्वतंत्रतायाः प्राप्तेः अनन्तरम् अस्मदीया भारतीया नौ-सेना, विभिन्नेषु अवसरेषु स्वीयं पराक्रमं प्रादर्शयत् -  भवतु सः गोवा-मुक्ति-संग्रामः आहोस्वित् ऊनविंश-शताब्दस्य एकसप्ततितम-वर्षीयं [1971] भारत-पाक-युद्धम् |  यदा वयं नौ-सेनायाः चर्चां कुर्मः तदा केवलं युद्धमेव पश्यामः परञ्च भारतस्य नौ-सेना, मानवतायाः कार्येष्वपि सोत्साहं सहभागित्वमावहति |  वर्षेsस्मिन् जून-मासे बांग्लादेश-म्यांमार-देशयोः Cyclone Mora- इति सामुद्रिक-झञ्झावात-संकटं समापन्नमासीत्, तदा अस्मदीय-नौसेनायाः  INS-SUMITRA-पोतः तत्कालमेव सुरक्षा-साहाय्य-कार्याणि कुर्वन् अनेकान् मत्स्य-जीविनः जलेभ्यः निष्कास्य संरक्ष्य च बांग्लादेशाय अर्पितवान् | वर्षेsस्मिन् मे-जून-मासयोः यदा श्रीलंका-देशे जलपूरस्य भयंकरं संकटं समापन्नं तदा अस्मदीय-नौ-सेनायाः पोत-त्रयं तत्कालमेव तत्र गत्वा तत्रत्य-प्रशासनाय जनतायै च साहाय्यं व्यदधात् | बांग्लादेशे सेप्टेम्बर-मासे रोहिंग्या-विषये अस्मदीय-नौ-सेनायाः  INS-GHADIYAL- (घड़ियाल)- इति पोत-द्वारा मानवीय-सहायता प्रापिता | जून-मासे PAPUA NEW GUINEA ( पापुआ न्यू गिनी ) - देशस्य र्वकारः SOS- इत्यात्मरक्षि-सन्देशं प्राहिणोत्, तथा च, तस्य मत्स्याहरण-नौकायाः धीवरान् रक्षितुम् अस्मदीया नौ-सेना साहाय्यम् अकरोत् | नवंबर-मासे एक-विंशे दिने पश्चिमीय-खाते एकस्मिन् व्यापारिक-पोते दुरापन्ने सामुद्रिक-लुण्ठन-घटनावसरेsपि, अस्मदीय-नौ-सेनायाः INS TRIKAND - (त्रिकंड) इति पोतः साहाय्यार्थं तत्र द्रुतं प्रयातः | फ़िजी-देशाय [FIJI] आरोग्य-सेवानां सम्प्रापणं वा भवेत्,  तत्कालमेव साहाय्य-प्रदानं वा स्यात्, प्रतिवेशि-देशस्य संकट-काले मानवीय-साहाय्य-प्रदानं वा स्यात्, अस्मदीया नौ-सेना सर्वदैव गौरवपूर्णानि कार्याणि कुर्वन्ती आसीत् | वयं भारतवासिनः, अस्मदीय-सुरक्षा-बलानि प्रति सर्वदैव गौरवस्य आदरस्य च भावं सन्धारयामः -  भवतु नाम स्थल-सेना वा नौ-सेना वा वायु-सेना, अस्माकं सैनिकानां साहसं, वीरता, शौर्यं, पराक्रमः, बलिदानञ्च गौरवास्पदमेव, प्रत्येकमपि देशवासी एतान् प्रणमति | सपाद-शत-कोटि-मिताः देशवासिनः सुखेन जीवनं यापयेयुः इति विचिन्त्य एते स्वीयं यौवनं राष्ट्राय समर्पयन्ति | प्रति-वर्षं डिसेम्बर-मासे सप्तमे दिने सशस्त्रबलानि ध्वज-दिनम् आयोजयन्ति |  अयं हि देशस्य सशस्त्रबलानि प्रति गर्व-सम्मानयोः प्रकटीकरणस्य दिवसोsस्ति | प्रसन्नोsस्मि यत् सम्प्रति प्रतिरक्षा-मंत्रालयः डिसेम्बर-मासे एकतः सप्तम-दिनं यावत् अभियानं प्रचालयितुं निरणैषीत् - देशस्य नागरिकान् सम्प्राप्य सशस्त्रबलानां विषये जनाः संसूचनीयाः, ते च सुतरां प्रबोधनीयाः | सम्पूर्णेsपि सप्ताहे आबाल-वृद्धाः सर्वेsपि ध्वजं सन्धारयेयुः | देशे सेनां प्रति सम्मानस्य आन्दोलनं प्रवर्तितं स्यात् |  अवसरेsस्मिन् वयं सशस्त्रबलानां ध्वजान् वितरितुं शक्नुमः | स्व-परिवर्तिभ्यः निज-परिचितेभ्यश्च सशस्त्रबलैः सम्बद्धानां अनुभवान्, तेषां शौर्यपूर्ण-कार्याणि, तत्सम्बद्ध-चित्राङ्कन-मुद्रिकाः, चित्राणि च (hashtag armedforcesflagday) #armedforcesflagday- इत्यत्र प्रेषयितुं शक्नुमः | विद्यालयेषु, महाविद्यालयेषु च, सैनिकान् सैन्याधिकारिणश्च समामन्त्र्य, तेभ्यः सैन्य-विषयाणां सूचनाः आदातुं शक्नुमः | अस्माकं नूतन-सन्ततये सेना-सम्बद्ध-सूचनाः अधिगन्तुमयं समुचितः अवसरः भवितुमर्हति | अवसरोsयं अस्माकं सशस्त्र-सैन्य-बालानां सर्वेषामपि सैनिकानां कल्याणार्थं धनराशि-संग्रहस्य कालः भवति | राशिरयं, सैनिक-कल्याण-मण्डल-माध्यमेन युद्धस्य हुतात्मनां सैनिकानां कुटुम्ब-जनानां व्रणितानाम् आहतानां च भटानां कल्याणार्थं पुनर्वासार्थञ्च व्ययीक्रियते | आर्थिक-योगदानार्थं भवन्तः विभिन्न-प्रदेय-विषयिणीः सूचनाः ksb.gov.in - इत्यतः आदातुं शक्नुवन्ति | भवन्तः एतदर्थं cashless- इति रोक्क-रहितं प्रदातुमर्हन्ति | आगच्छन्तु, अवसरेsस्मिन् वयमपि किञ्चित् तादृशं करवाम, येन अस्मदीय-सशस्त्र-लानां मनोबलं विवर्धेत |  वयमपि तेषां कल्याण-दिशि स्वीयं योगदानं करवाम |
                  मम प्रियाः देशवासिनः, डिसेम्बर-मासीये पञ्चमे दिने ‘World Soil Day’ - इति विश्व-मृत्तिका-दिवसोsस्ति | अहं स्वीयैः कृषक-भ्रातृ-भगिनीभिः साकमपि किञ्चित् सम्भाषितुमीहे | पृथिव्याः महत्वपूर्णाङ्गत्वेन वर्तते - मृत्तिका | वयं यत्-किमपि खादामः तत्-सर्वमपि अनया मृत्तिकया एव सम्पृक्तं वर्तते | एकतस्तु, कृत्स्नापि खाद्य-शृङ्खला मृत्तिकया सम्बद्धास्ति | किञ्चित् कल्पयन्तु, यदि विश्वेsस्मिन् कुत्रचिदपि उत्पादक-मृत्तिका नैव भवेत् चेत्, किं नाम भविष्यति ? इदं विचिन्त्यैव भीतिः अनुभूयते | नैव मृत्तिका भविता, न हि पादपाः वा वृक्षाः समुत्पत्स्यन्ते, मानव-जीवनं कुत्र सम्भविता ? जीव-जन्तवः कुत्र सम्भविष्यन्ति ?  अस्मदीयायां संस्कृतौ एतद्-विषयिणी चिन्ता पूर्वमेव परिशीलिता, इदमेव कारणमस्ति यत् वयं मृत्तिकायाः महत्व-विषये प्राचीन-कालादेव जागरुकाः स्मः | अस्मदीयायां  संस्कृतौ एकतः कृषि-क्षेत्राणि प्रति, मृत्तिकां प्रति क्तिः आभार-भावश्च, जनेषु प्रवर्तेत - इति कृत्वा सहजः प्रयासः विहितः, अपरतश्च, तादृश्यः वैज्ञानिक-द्धतयः, जीवनस्य अङ्गत्वेन अवर्तन्त यत् अस्याः मृत्तिकायाः पोषणं सततं स्यात् | अस्य देशस्य कृषकस्य जीवने तथ्य-द्वयस्यापि महत्वं प्रावर्तत - निज-मृत्तिकां प्रतिक्तिः युगपदेव, वैज्ञानिक-रूपेण मृत्तिकायाः संरक्षणं परिपोषणञ्च | वयं सर्वेsपि विषयेsस्मिन् गौरवमनुभवामः यत् अस्मदीयाः कृषकाः, परम्पराभिः साकमपि सम्पृक्ताः भवन्ति तथा च, आधुनिक-विज्ञानं प्रत्यपि रुचिमन्तो भवन्ति, प्रयतन्ते, संकल्पयन्ति च | अहं हिमाचल-प्रदेशस्य हमीरपुर-जनपदस्य टोहू-ग्रामस्य  भोरंज-प्रखण्डस्य कृषकाणां विषये श्रुतवान् | अत्र पूर्वं कृषकाः असन्तोलित-रीत्या रासायनि- कोर्वरकाणाम् उपयोगं कुर्वन्ति स्म, येन एतस्याः भूमेः स्वास्थ्यम् अपक्षतम् | उत्पादनं न्यूनीभूतम्, उत्पादन-न्यूनतायाः कारणात् आयजातमपि न्यूनीभूतम्, मृत्तिकायाः उत्पादकता चापि शनैः शनैः क्षीणा जायते स्म | ग्रामस्य केचन जागरुकाः कृषकाः अस्याः परिस्थितेः गम्भीताम् अवागच्छन्, तदनन्तरं ग्रामस्य कृषकाः काले एव स्व-मृत्तिकां परीक्षितवन्तः, तथा च, यावन्ति उर्वरकाणि, लघु-पौष्टिक-वस्तूनि, जैविकोर्वर्काणि चोपयोक्तुं ते निर्दिष्टाः, ते तदनुसृतवन्तः | तथा च, भवन्तः तत्परिणामं श्रुत्वा चकिताः भविष्यन्ति यन् मृत्तिका-आरोग्य-द्वारा कृषकाः यां सूचनां प्राप्तवन्तः, यन्मार्ग-दर्शनं लब्धवन्तः, तस्य कार्यान्वयनस्य परिणामः किमभवत् ? विगत-वित्त-वर्षे श्रावणीय-शस्यावधौ गोधूमस्य उत्पादने प्रति-एकड् त्रितः चतुर्मिता वृद्धिः जाता, अपि च, आयमितौ अपि प्रति-एकड् चतुर्तः षट्-सहस्र-रूप्यकाणां वृद्धिः अभवत् | अमुना साकं मृत्तिकायाः गुणवत्तायामपि परिष्कारः अजायत | उर्वरकस्य उपयोगस्य न्यूनता-कारणात् आर्थिक-सञ्चयोsपि जातः |  इदं दृष्ट्वा प्रसीदामितमां यन्मम कृषक-भ्रातरः, मृदास्वास्थ्य-पत्रस्य परमर्शान् क्रियया अन्वेतुं प्रेरिताः अभूवन्, तथा च, यथा यथा परिणामाः अवाप्यन्ते, तेषां समुत्साहः अपि संवर्धते | सम्प्रति कृषकाः अपि अनुभवन्ति यत् शस्यानि चिन्तनीयानि सन्ति चेत् प्रथमं तावत् भूमेः चिन्ता करणीयास्ति, एवं हि, यदि वयं भूमि-मातुः चिन्तां करिष्यामश्चेत् भूमि-मातापि अस्माकं सर्वेषां पोषणं करिष्यति | अशेष- देशे अस्मदीयैः कृषकैः दश-कोट्यधिकानि मृदारोग्य-पत्राणि विनिर्मितानि येन हि ते स्वीय-मृत्तिकां सम्यग्रूपेण अवगन्तुं शक्नुयुः, तदनुरूपेण च, शस्य-वपनमपि कर्तुं पारयेयुः |  वयं भूमि-मातुः भक्तिं कुर्मः, परञ्च यूरिया-सदृशैः उर्वरकैः भूमि-मातुः स्वास्थ्यं कियद् अपक्षतं भवति ? कदाचित् विचारितं वा ? प्रत्येकमपि वैज्ञानिक-प्रकारेण इदं सिद्धं यत् भूमि-माता समधिकस्य यूरियोपयोगस्य कारणात् गभीरां क्षतिं सम्मुखी- करोति | कृषकस्तु पृथिव्याः पुत्रोsस्ति, कृषकः भूमि-मातरम् अस्वस्थां कथं द्रष्टुं शक्ष्यति ?  कालस्य इयमावश्यकतास्ति यत् मातृ-पुत्रयोः सम्बन्धाः पुनरेकवारं जागृताः स्युः | किम् अस्माकं कृषकाः, अस्मदीयायाः भूमेः पुत्राः, अस्माकं धरण्याः सन्ततयश्च इदं संकल्पयितुं शक्नुवन्ति यत् साम्प्रतं ते स्वीय-क्षेत्रेषु यावन्तं यूरियोपयोगं कुर्वन्ति, एतच्छताब्दस्य द्वाविंश-वर्षं यावत्, यद्धि स्वाधीनता-प्राप्तेः पञ्च-सप्तति-वर्षं भविता, अर्धोपयोगं अवरोत्स्यन्ति ?  एक-वारं यदि, भूमि-मातुः पुत्रः, मम कृषक-भ्राता, इदं संकल्पयति चेत्, नूनं पश्यन्तु, भूमि-मातुः आरोग्यं परिष्कृतं भविता,  उत्पादनञ्च विवर्धिता | कृषकस्य जीवनं परिवर्तितुम् आरप्स्यते |
     सम्प्रति वयं सर्वेsपि Global warming, Climate change- इति जागतोष्णता-ऋतु-परिवर्तन-विषयम् अनुभवामः | कदाचित् तादृशः कालः आसीत् यदा दीपावल्याः प्रागेव शीतर्तुः प्रारभते स्म | अधुना सत्यपि डिसेम्बर-मासे आगते, शीतर्तुः शनैः शनैः समुपागच्छति | परञ्च यथैव शीतकालः आरभते, वयं सर्वेsपि अनुभवामः यत् कम्बलात् बहिः निर्गन्तुं न मनागपि कस्मैचिद् रोचते | परञ्च, एतादृशेष्वपि ऋतुषु सततं जागरुकाः सन्तः जनाः महान्तं परिणामं विधातुमर्हन्ति, अपि चैतानि उदाहरणानि अस्माकं सर्वेषां कृते प्रेरणा-प्रदायीनि भवन्ति | भवन्तोsपि इदं श्रुत्वा आश्चर्यमनुभविष्यन्ति यन् मध्यप्रदेशस्य अष्ट-वर्षीयः दिव्यांग-बालकः तुषारः, स्वीयं ग्रामं अनावृत-शौचाचरणान् मुक्तं विधातुं निरणैषीत् | एतावत्-व्यापक-स्तरीयं कार्यं तथा च, एतावान् कनीयान् बालकः ! परञ्च भावः संकल्पश्च, सुतरां बहुगुणितौ बृहन्तौ बलवत्तरौ च आस्ताम् | अष्ट-वर्षीय-बालकः न वक्तुं प्रभवति परञ्च, शीष्कारं स्वीयायुधत्वेन स्वीकृत्य प्रातः पञ्च-वादने उत्थाय स्वीय-ग्रामे प्रतिगृहं गत्वा च जनान् शीष्कार-स्वरेण जागरयति, हस्तयोः संकेतेन अनावृते शौचाचरणं नैव कर्तुं  शिक्षयितुम् आरभत | प्रतिदिनं त्रिंशत्-चत्वारिंशत्-संख्याकेषु गृहेषु गत्वा स्वच्छतायाः सन्देश-प्रदायकस्य अस्य बालकस्य कारणात् कुम्हारी-ग्रामः, अनावृते शौचाचरणान् मुक्तः अभवत् | स्वच्छता-प्रोत्साहनाय कनिष्ठः बालकः तुषारः प्रेरकं कार्यमकरोत् | अस्माकीनाः दिव्यांग-भातृ-भगिन्यः दृढ़-निश्चयिनः, सामर्थ्यवन्तः, साहसिकाः संकल्प-वन्तश्च वर्तन्ते | प्रतिक्षणं वयं किञ्चित्-किञ्चिदपि शिक्षितुं अवसरान् लभेमहि | साम्प्रतं ते प्रत्येकमपि क्षेत्रे समीचीनतरं कार्यं कुर्वन्ति | अस्माकं दिव्यांग-जनाः न कस्मादपि पश्चवर्तिनः वर्तन्ते |  भवन्तः सर्वे स्मरन्ति वा यत् अस्माकं दिव्याङ्गाः क्रीडकाः Rio Olympic-क्रीडा-स्पर्धासु भद्रतरं प्रदर्शनम् अकुर्वन्, चत्वारि पदकानि च विजितवन्तः | तथा च, नेत्रहीन- T-20 Cricket World Cup- इति स्पर्धायां अपि विजेतारः अभूवन् | अशेष-देशे पृथक्-पृथक्-प्रकारिकाः प्रतियोगिताः आयोज्यन्ते | विगतेषु दिनेषु उदयपुरे  सप्तदश-संख्याकाः राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धाः आयोजिताः | अशेष-देशाद् आगताः अस्मदीयाः युवानः दिव्याङ्गाः भ्रातृ-भगिन्यः आसु सहभागित्वम् आवहन्, स्वीयं कौशलञ्च प्रादर्शयन् | तेषु अन्यतमः अस्ति- गुजरातस्य ऊनविंश-वर्षीयः जिगर-ठक्करः, तस्य शरीरे प्रतिशतं अशीतौ भागेषु मांसकोशिकाः नैव वर्तन्ते, परञ्च, तस्य साहसम्, संकल्पम् श्रमञ्च पश्यन्तु ! राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धायाम् ऊनविंश-वर्षीयः जिगर-ठक्करः  एकादश-पदकानि विजितवान् !  असौ भारतस्य स्पर्धा-प्राधिकरण- द्वारा विंशति-विंशति-दिव्याङ्ग-ओलम्पिक-स्पर्धायै चितः, द्वात्रिंशत्-तरण-पटुषु चान्यतमः यो हि गुजराते गांधीनगरे    Centre for Excellences- इत्यत्र प्रशिक्षणं प्राप्स्यति | अहं यूनः जिगर-ठक्करस्य समुत्साहम् अभिनन्दामि, तस्मै च मङ्गल-कामनाः व्याहरामि | अस्मदीयोsयं प्रयासो वर्तते यत् देशस्य प्रत्येकमपि जनः समर्थः क्षमश्च स्यात् | एकस्य समावेशि-समाजस्य निर्माणं भवेत् | ‘सम-मम इत्यनयोः भावः समाजे समरसतां विवर्धयेत्, सर्वे च सम्भूय अग्रेसरेम |
          कतिपय-दिनानन्तरम् ईद-ए-मिलाद्-उन-नबी-पर्व आयोजयिष्यते| दिनेsस्मिन् पैगम्बर-हज़रत-मोहम्मद-वर्यस्य जन्म अजायत | अहं सर्वेभ्योsपि देशवासिभ्यः हार्दिकीः शुभकामनाः वितरामि, आशासे यत् इदम् ईद-पर्व,  समाजे शान्तिं सद्भावनाञ्च विवर्धयितुं अस्मभ्यं सर्वेभ्यः नूतन-प्रेरणा-प्रदायि स्यात्, अभिनवाञ्च र्जां प्रदद्यात्, नवीन-संकल्पस्य च सामर्थ्य-प्रदं भवेत् |      
(दूरभाषः)
नमस्ते ! प्रधानमन्त्रि-महोदय, अहं कानपुरतः नीरजा-सिंहः वदामि |  मम निवेदनं यत् अस्मिन् सम्पूर्णेsपि वर्षे स्वीये मन की बात-प्रसारणे यत् किमपि भवता उक्तं तेषु सर्वोत्तमान् दश-विषयान् पुनरपि अस्मान् कथयतु, येन पुनरपि तेषां विषयाणां स्मरणं स्यात् तथा च, वयं किञ्चित् इतः परमपि शिक्षितुं शक्नुमः | धन्यवादः |
( इति दूरभाष-सम्भाषणंम् )
        भवत्याः कथनं समीचीनम् | इदं वर्षं पूर्णं भवति | अभिनवं वर्षं आसन्न-प्रायम् | परञ्च भवत्या सम्यक् परामर्शितम् | भवत्या यदुक्तं तेन सह किमपि संयोक्तुं किञ्चित् परिवर्तयितुं चाभिलषामि |  अस्माकं ग्रामेषु ये वरिष्ठाः वृद्धाः भवन्ति, ते सर्वदैव कथयन्ति यत् दुःखं विस्मरतु, सुखञ्च नैव विस्मृतं स्यात् | अनुभवामि यद् विषयोsयं अस्माभिः प्रचारणीयः | वयं अष्टादशोत्तर-द्विसहस्र-तमे वर्षे शुभ-स्मरण-पुरस्सरम्, शुभ-संकल्पेन सहैव प्रविशेम | अस्माकं देशे तु संचार-माध्यमेषु, विगत-वर्षस्य अनेकासां रोचक-घटनानां पुनःस्मरणं कारयितुं प्रयत्यते | तेषु रचनात्मकमपि भवति, नकारात्मकमपि भवति | अहं भवद्भ्यः परामर्शमेकं वदामि यत् भवन्तः पञ्च वा दश वा रचनात्मक-विषयान् स्वीकर्वन्तु ये भवद्भिः श्रुताः वा दृष्टाः वा अनुभूताः स्युः तान् जनाः अपि अवगच्छन्ति चेत्, तेsपि शुभ-भावानुभूतिम् अवाप्नुयुः| किमत्र योगदानं कर्तुं शक्ष्यन्ति ?  किम् अस्मिन् क्रमे वयं अस्य वर्षस्य जीवनस्य पञ्च रचनात्मक-विषयानुभवान् संभक्तुं शक्नुमः ? भवतु नाम तत् चित्र-माध्यमेन, वा लघुकथा-रूपेण, लघु-दृश्याङ्कनेन वा, अहम् आमन्त्रयामि यत् अष्टादशोत्तर-द्विसहस्र-तम-वर्षस्य स्वागतम् अस्माभिः शुभे परिवेशे करणीयम् | शुभ-स्मृतिभिः साकं करणीयम् | रचनात्मक-चिन्तनेन सह अनुष्ठेयम् | रचनात्मक-विषयान् संस्मृत्य विधेयम् |
      आगच्छन्तु, NarendraModi App- इत्यत्र, MyGov- इत्यत्र, सामाजिक-संचार-माध्यमेषु #PositiveIndia (हैशटैग Positive India) - इत्यमुना साकं सकारात्मक-विषयान् वितरेम | अन्येभ्यः प्रेरणा-प्रदायि-घटनाः स्मरेम |  शुभं स्मरेम चेत् शुभानुष्ठानस्य रुचिः समुत्पत्स्यते | शुभ-वस्तूनि शुभ-कार्यार्थम् ऊर्जां प्रददति | शुभ-भावः,  शुभ-संकल्पस्य हेतुः भवति | शुभ-संकल्पः शुभ-परिणामार्थम् अग्रे सन्नयति |
   आगच्छन्तु, सम्प्रति प्रयतेम #PositiveIndia (हैशटैग Positive India)  | पश्यन्तु, वयं सर्वे सम्भूय प्रबलं रचनात्मकं च परिवेशं निर्माय आगमिष्यमाणस्य वर्षस्य स्वागतं करिष्यामः | अस्य वर्षस्य सामूहिक-गतेः शक्तिम्, अस्याश्च शक्तेः  प्रभावं वयं सर्वे मिलित्वा द्रक्ष्यामः | तथा च, अवश्यमहम् आगामिनि मन की बात-प्रसारणे #PositiveIndia (हैशटैग Positive India) इत्यत्र स्थापितान् विषयान् देशवासिभ्यः प्रापयितुं प्रयतिष्ये |                                                 
            मम प्रियाः देशवासिनः,  आगामिनि मासे, आगामिने मन की बात-प्रसारणाय अहं पुनरेकवारं भवतां मध्ये आगमिष्यामि | अनेकविधान् विषयान्  चर्चितुं अवसरञ्च लप्स्ये | भूयांसो धन्यवादाः !!!   

             ----- भाषान्तर-कर्ता -   डॉ.बलदेवानन्द-सागरः  
                        


****************************

            


Monday, 27 February 2017

bhadram karṇebhiḥ RV 1.89.8 & svasti na indro RV 1.89.6 transliterated


Verse 1: Ṛg veda 1.189.8

A beautiful and well known mantra, which has been mistranslated with the best of intentions by countless online websites. For those who are keen to know the exact meaning supported by grammar, here it is. This mantra is recited before some atharvan upanishads, for instance praśna and gaṇeśa-atharva-śīrṣa. It appears at Taittireya araṇyaka 1.21.3 and is chanted in countless situations as a śānti mantra.

oṃ

bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ।
bhadraṃ paśyemākṣabhiryajatrāḥ ।
sthirairaṅgaistuṣṭuvāg‍m̐sastanūbhiḥ ।
vyaśema devahitaṃ yadāyuḥ ।

Translation

O devas, may we (always/only) hear what is auspicious with our ears,
O gods/worthy of sacrifice, may we (always/only) see what is auspicious with our eyes; O gods/who are praised, may we reach/attain with steady limbs and bodies the life(span) that has been established by the gods.

padaccheda:

bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ।
bhadraṃ paśyema akṣabhiḥ yajatrāḥ।
sthiraiḥ aṅgaiḥ tuṣṭuvām̐saḥ tanubhiḥ ।
vyaśema devahitaṃ yadāyuḥ ।

anvaya:

devāḥ, karṇebhiḥ bhadraṃ  śṛṇuyāma । yajatrāḥ, akṣabhiḥ bhadraṃ paśyema । tuṣṭuvām̐saḥ, sthiraiḥ aṅgaiḥ tanubhiḥ (ca ) yad āyuḥ devahitam (asti, tad )vyaśema ।

padaparicaya:

bhadraṃ - auspicious, excellent, good; neut, acc, sing
karṇebhiḥ* - with the ears; masc, inst, pl
śṛṇuyāma - may we hear; 1st person, plural, optative, √śru
devāḥ - (O you) gods, shining ones; masc, vocative, plural
bhadraṃ - auspicious, excellent, good; neut, acc, sing
paśyema - may we see; 1st person, plural, optative, √paś
akṣabhiḥ - with the eyes; neut, inst, pl
yajatrāḥ - (O you) worthy of worship, worthy of sacrifice; masc, vocative, pl
sthiraiḥ - with steady - neut, inst, pl, adj
aṅgaiḥ - with limbs - neut, inst, pl
tuṣṭuvām̐saḥ - (O you who are) praised; masc, vocative, plural, perfect active participle, √stu
tanubhiḥ - with bodies; fem, inst, plural
vyaśema - may we attain, reach, consume, take possession of; 1st person, plural, optative, vi√aś
deva-hitam - placed, put, established by the gods; neut, acc, sing, ppp/adj
yadāyuḥ (yad āyuḥ) - the life(span); neut, acc, sing

(*karṇebhiḥ this conjugated form is Vedic. We would normally use karṇaiḥ)


Verse 2  Ṛg veda 1.189.6

svasti na indro vṛddhaśravāḥ ।
svasti naḥ pūṣā viśvavedāḥ ।
svasti nastārkṣyo ariṣṭanemiḥ ।
svasti no bṛhaspatirdadhātu ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

padaccheda & anvaya

The verb dadhātu applies to each god:

indraḥ vṛddhaśravāḥ naḥ svasti (dadhātu)।
pūṣā viśvavedāḥ naḥ svasti  (dadhātu) ।
tārkṣyaḥ ariṣṭanemiḥ naḥ svasti (dadhātu) ।
bṛhaspatiḥ naḥ svasti dadhātu ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

Translation:

May Indra (of) exalted fame give us well being; may the omniscient Pūṣā give us well being; may Tārkṣya of indestructible wheel rims give us well being; may Bṛhaspati give us well being. Om, peace, peace, peace.

indraḥ - Indra; masc, nom, sing
vṛddha-śravāḥ - of augmented, exalted, wide fame; masc, nom, sing, adj
naḥ - to us; dative plural, 1st person pronoun; asmad
svasti - welfare, well being, prosperity, luck; fem, acc, sing
pūṣā - Pūṣan, early vedic god; masc, nom, sing
viśvavedāḥ - all knowing, omniscient; masc, nom, sing, adj
naḥ - to us; dative plural, 1st person pronoun; asmad
svasti - welfare, well being, prosperity, luck; fem, acc, sing
tārkṣyaḥ - mythical bird later associated with the sun and Garuḍa
ariṣṭanemiḥ - the felly of whose wheel is un-damaged; epithet of Tārkṣya
naḥ -dative plural, 1st person pronoun; asmad
svasti - welfare, well being, prosperity, luck; fem, acc, sing
bṛhaspatiḥ - Lord of prayer, early Vedic sage; masc, nom, sing
naḥ - to us; dative plural, 1st person pronoun; asmad
svasti welfare, well being, prosperity, luck; fem, acc, sing
dadhātu - may he give; 3rd, person, singular, imperative, √dhā


oṃ śāntiḥ śāntiḥ śāntiḥ ॥