Tuesday 27 November 2018

‘मनोगतम्’ – ५० ‘मन की बात’ (५०-वीं कड़ी) प्रसारणतिथि: - २५-११-२०१८

‘मनोगतम्’ – ५० 
मन की बात’ (५०-वीं कड़ी)   प्रसारणतिथि: - २५-११-२०१८    
     [“मन की बात”- मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                                     - भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः
       मम प्रियाः देशवासिनः!  नमस्कारः  | एतच्छताब्दस्य चतुर्दशे वर्षे ओक्टोबर-मासे तृतीय-दिनाङ्के विजयादशमी-पर्वणि ‘मन की बात’-इति कार्यक्रमस्य माध्यमेन सहैव वयं सर्वे सम्भूय, यात्रामेकामारभाम | ‘मन की बात’- इत्यस्याः प्रसारण-यात्रायाः पञ्चाशदङ्काः अद्य पूर्णतां यान्ति | एवं हि अद्यायं सुवर्ण-जयन्ती-आख्यानं वर्तते | एतस्मिन् क्रमे भवतां यानि पत्राणि अवाप्तानि, दूरभाषाकारणाश्च सञ्जाताः, तत्राधिसंख्यं अस्य पञ्चाशदङ्कस्य सन्दर्भे एवास्ति | MyGov-इत्यत्र दिल्ल्याः अंशु-कुमारः अमर-कुमारश्च, पटनातः विकास-यादवः; तद्वद् NarendraModiApp- इत्यत्र दिल्ल्याः मोनिका-जैनः, पश्चिम-बङ्गस्य वर्धमानतः प्रसेनजीत-सरकारः, नागपुरस्य संगीता-शास्त्री  चेत्यादयः प्रायेण समानमेव प्रश्नमपृच्छन्, एते थयन्ति यत् प्रायेण जनाः अधुनातन-प्रविधिना, सामाजिक-सञ्चार-माध्यमैः Mobile Apps-प्रभृतिभिः संयुताः भवन्ति, परञ्च जनैः साकमात्मानं संयोजयितुं भवता रेडियो-इति प्रसारण-माध्यमं कथं चितम्?
      भवतामेषा जिज्ञासा सुतरां स्वाभाविकी यत् अद्यतने युगे यदा प्रायेण रेडियो-माध्यमं विस्मारितमासीत्, तदा मोदि-महोदयः रेडियो-माध्यमं कथं स्वीकृतवान्! वृत्तान्तमेकं श्रावयामि | अष्ट-नवत्युत्तरैकोनविंश-शत-वर्षीयोsयं वृत्तान्तः, अहं भारतीय-जनता-दलस्य संघटस्य कार्यकर्तृरूपेण हिमाचल-राज्ये कार्यनिरतः आसम् | मे-मासीयः कालः आसीत् तथा चाहं सायंकाले यात्रानिरतः सन् कुत्रचित् अन्यस्मिन् स्थाने गम्यमानः आसम् | हिमाचलस्य पार्वत्य-क्षेत्रेषु सायं शैत्यं तु विवर्धते एव, तदा मध्येमार्गं एकस्मिन् ढाबा-इति पथिकापणे चाय-पानार्थम् अरुन्धि | सः लघु-पथिकापणः अवर्तत, एकः एव सः चायं निर्माति विक्रीणाति स्म, आपणोपरि आच्छादक-वस्त्रमपि नासीत्, केवलं मार्गोपान्तं लघु-शकटं स्थापयित्वा स्थितः आसीत् | यदाहं चाय-दानार्थम् आदिशम् तदा सः स्वीय-शकटस्थात् काच-भाण्डात्, मोदकमेकं निष्कास्य अवादीत् – महोदय! चायपानम् अनन्तरम्, प्रथमं मोदकं स्वीकरोतु | मिष्टान्नेन मधुरास्वादम् अनुभवतु | अहमाश्चर्यम् अन्वभवम्, यतो हि मया पृष्टम् – किं भो ! को नाम विशेषः ? गृहे कश्चन उद्वाह-प्रसङ्गो वा? तेनोत्तरितम् -  नैव नैव बन्धुवर !  किं भवान् नैव जानाति ?  यि भो! अतितरां प्रसन्नतायाः वृत्तान्तः | सः भूरिशः समुत्साहितः हर्षातिरेक-भरितः चासीत्, मया पृष्टं – किं जातम् ? सः सावेगम् अब्रवीत् यत् अयि भो! अद्य भारतं विस्फोटं व्यदधात् | अहमवदम् – भारतं विस्फोटं व्यदधात् ? नावगच्छामि किमपि! तदा सः स्पष्टमकरोत् पश्यतु महोदय, रेडियो-प्रसारणं शृणोतु | तदा रेडियो-प्रसारणेषु सः एव विषयः परिचर्च्यते स्म | तदास्माकं प्रधानमंत्री अटलबिहारीवाजपेयी आसीत् तद्धि परमाणु-परीक्षण-दिनमवर्तत, तथा च, सः सञ्चार-माध्यमेभ्यः वृत्तमेतत्  उद्घोषितवान्, सः चायापणिकः रेडियोतः घोषणामेनां श्रुत्वा आनन्द-सन्दोहानुभवेन नृत्यति स्म |  नितरामहम् आश्चर्यमन्वभवम् यत् अरण्यस्य निर्जनेsस्मिन् प्रदेशे, हिमाच्छादितेषु पार्वत्य-क्षेत्रेषु सामान्योsयं जनः यो हि चाय-यानं स्थापयित्वा निजकार्यं करोति, आदिनं रेडियो-प्रसारणं शृण्वन् तिष्ठति, तथा च रेडियो-वार्तानां तावान् प्रभावः तस्य मनसि जातः, एतावान् च दृढः परिणामः संवृत्तः | ततः प्रभृति एतत् वृत्तं मम मनसि बद्धमूलं जातं यत् रेडियो-माध्यमं नाम प्रतिजनं सम्बद्धम् | रेडियो-माध्यमं बलवत्तमम्  | सञ्चारस्य सहज-प्रापणं तस्य च गहनता ! कदाचित् नान्यत् अपरं किञ्चित् रेडियो-माध्यमेन आत्मानं  तूलयितुं प्रभवति | कदाचित् तत्कालादारभ्य मम मनसि एतादृशः  संस्कारः समजायत, अस्य माध्यमस्य सामर्थ्यं कदाचित् तत्कालादेव अनुभवन्नासम् | अत एव, यदाहं प्रधानमन्त्रि-पदमारूढवान्, तदेदं स्वाभाविकमासीत् यत् शक्तिमत्तममिदं माध्यमं प्रति ममावधानमभ्यागच्छेत् | एतच्छताब्दस्य चतुर्दशे वर्षे मे-मासे यदाहं ‘प्रधान-सेवक’-रूपेण कार्यभारं  म्भालितवान् तदा मम मनसि समीहासीत् यत् देशस्य एकता, अस्मदीयो व्येतिहासः, अस्य शौर्यम्, भारतस्य विविधताः, अस्माकं सांस्कृतिक-वैविध्यम्, अस्मदीय-समाजस्य प्रतिश्वासं समाहितानि सद्वृत्तानि, जनानां पुरुषार्थः, समुत्साहः, त्यागः, तपस्या चेत्यादीनि सर्वाणि तथ्यानि, भारतस्यैषा कथा, प्रतिजनं प्रापिता स्यात् | देशस्य दूर-सुदूर-वर्त्तिभ्यो ग्रामेभ्यः महानगराणि यावत्, कृषकेभ्यः आरभ्य युव-व्यवसायि-पर्यन्तं भारतस्यैषा कथा सूचिता स्यात् | एवं हि, एतस्मादेव भावात् ‘मन की बात’-प्रसारणस्य यात्रा आरब्धा जाता |  प्रतिमासं लक्षशः पत्राणि पठन्निव, दूरभाषाकारणाः शृण्वन्निव,  App- MyGov-चेत्यत्र लब्धाः टीप्पणीः प्रतिक्रियाश्च अवलोकयन्निव, तथा च, एतत्सर्वम् एकस्मिन् सूत्रे संग्रथ्य, सरलं पेशलञ्च च वृत्तान्त-जातम् उदीरयन्निव पञ्चाशदङ्कानामेका यात्रा, एषा यात्रा वयं सर्वे सम्भूय अकुर्म | इतः परम् अग्रेसारिण्या यात्रया सह सिंहावलोकनस्यापि अयमेकोsवसरः | ‘मन की बात’-कार्यक्रमेण वयं भारतस्य प्रतिकोणं यात्रा-सौभाग्यं लब्धवन्तः यस्यां वयम् अस्माकम् अनेकेषां प्रतिभाशालिनां  नागरिकाणां असाधारण-कार्याणि अपि अवालोकयाम | ‘मन की बात’-कार्यक्रमः अधुना क्षेत्र-र्मायुः-राजनीति-सदृंशि सर्वाणि बन्धनानि अतिक्रम्य अग्रेसृतो जातः, अयं हि अस्मदीयः सर्वेषामपि निनादः संवृत्तः | नातिचिरम् आकाशवाणी  ‘मन की बात’-प्रसारणस्य सर्वेक्षणमपि अकारयत् | तासु काश्चन तादृशीः प्रतिक्रियाः अवालोकयम् याः हि अतितरां रुचिकर्यः आसन् | येषां जनानां सर्वेक्षणं विहितं, तेषु प्रायेण प्रतिशतं सप्तति जनाः नियमितरूपेण ‘मन की बात’-कार्यक्रमस्य श्रोतारो वर्तन्ते | जनानाम् अधिसंख्यम् आमिनोति यत् ‘मन की बात’-प्रसारणस्य सर्वाधिकं योगदानं हि इदमेव यत् अमुना समाजे रचनात्मिका भावना समेधिता | ‘मन की बात’-माध्यमेन बृहत्स्तरेण जनान्दोनानि प्रोत्साहितानि | #indiapositive – इति विषयमाधृत्य व्यापिनी चर्चापि जाता |  इयं हि अस्माकं देशवासिनां मनस्सु स्थिता रचनात्मिकायाः भावनास्ति, सकारात्मिकतायाः भावनायाश्चापि निदर्शनमत्र भवति | जनाः तं निजानुभवमपि संविभाजितवन्तः यत् मन की बात-प्रसारणेन स्वेच्छयापि किञ्चित्-करणस्य भावना समेधिता | एतादृशं किमपि परिवर्तनं जातं यस्मिन् समाज-सेवार्थं जनाः सोत्साहम् अग्रे आयान्ति | एतद्-दृष्ट्वा सुतरां प्रसीदामि यत् मन की बात-प्रसारणेन रेडियो-माध्यमं समधिकं लोकप्रियमजायत, परञ्च नैतत् केवलं रेडियो-माध्यममेव यस्य माध्यमेन जनाः अमुना कार्यक्रमेण संयुताः भवन्ति | जनाः दृश्यवाहिनी-फ्.एम्.रेडियो-जङ्गम-दूरभाष-अन्तर्जाल-फेस्बुक्-सद्यस्क-periscope-इत्येभिः, युगपदेव NarendraModiApp-माध्यमेन चापि मन की बात-कार्यक्रमे नैजं सहभागित्वं सुनिश्चितं कुर्वन्तः सन्ति | ‘मन की बात- परिवारस्य भवद्भ्यः सर्वेभ्योsपि सदस्येभ्यः विश्वासाधानार्थम्, अस्य चाङ्गीभवनार्थम् न्तःकरणपूर्वकं धन्यवादान् वितरामि |
आदरणीय! प्रधानमन्त्रि-महोदय! नमस्ते ! मम नाम शालिनी, अहं  हैदराबादतो वदामि | ममैषा महती जिज्ञासा यत् मन की बात-कार्यक्रमस्यायं मञ्चः जनेषु अतितरां लोकप्रियः वर्तते परन्तु नाहं स्मरामि यत् भवान् अस्मात् मञ्चात् कदाचिदपि बीजेपी-वा-कांग्रेस्-सदृशान्ब्दान् उल्लेखितवान् |  किं भवान् कदाचित् नैवम् अनुभवति यत् मञ्चमेनं राजनीतेः कृते उपयोक्तुं पार्यते, आहोस्वित् मञ्चादस्मात् स्वीय-सर्वकारस्य उपलब्धीः गणयितुं पारयेत्?  धन्यवादाः |”
        भवत्याः दूरभाषाकारणायै भूरिशो धन्यवादाः | भवत्याः आशङ्का समुचितास्ति | वस्तुतस्तु कश्चन नेता यदा mike-इति ध्वनि-वर्धकम् प्राप्नोति, कोटि-कोटि-संख्यकाश्च श्रोतारो भवन्ति, तर्हि किमतः परम् अभिलष्यते? कानिचन युवमित्राणि मन की बात-प्रसारणे समाविष्टानां सर्वेषामपि विषयाणामध्ययनम् अकुर्वन् | ते सर्वेषामपि प्रसारणानां कोषीय-विश्लेषणम् अकुर्वन्, ते इदमपि अधीतवन्तः यत् को नाम शब्दः कतिवारम् उच्चारितः, के के च शब्दाः पुनः पुनः अभिभाषिताः, तेषामियमेका उपलब्धिः यत् कार्यक्रमोsयं राजनीतीतरः एवावर्तत | यदा मन की बात-प्रसारणमारब्धं तदैवाहं निर्णयम् अकरवम् यत् नास्मिन् राजनीतिः स्यात्,   वास्मिन् सर्वकारस्य प्रशंसा भवेत्,  नात्र कुत्रचित् मोदी वा भवेत्, तथा च, ममैनं संकल्पं सन्धारयितुं सर्वाधिकं म्बलम्,  महत्तमा च प्रेरणा भवद्भ्यः सर्वेभ्यः प्राप्ता | प्रत्येकमपि मन की बात-प्रसारणात् प्राक् अधिगम्यमानेषु पत्रेषु, सद्यस्कः टिप्पणीषु,  दूरभाषाकारणासु च श्रोॄणां अपेक्षाः स्पष्टाः भवन्ति | मोदी आगमिष्यति प्रयास्यति च, परञ्च देशोsयं अचलः स्थास्यति, अस्मदीया संस्कृतिः अमृतास्ति | त्रिंशदुत्तर-शत-कोटि-देशवासिनाम् एताः अल्पाः स्वल्पाश्च कथाः सर्वदैव जीविष्यन्ति | देशमेनं अभिनव-प्रेरणया सोत्साहं नूत्नोन्नतिं प्रति अग्रेसारयिष्यन्ति | अहमपि कदाचिद् सिंहावलोकनं करोमि तदा स्वयमपि महदाश्चर्यम् अनुभवामि | कदाचित् कश्चन, देशस्य कस्मादपि कोणात् पत्रं लिखित्वा कथयति – लघ्वापणिकैः, ऑटो-यानचालकैः, शाकविक्रेतृ-सदृशैश्च जनैः साकमस्माभिः नाधिकतरः मूल्य-विषयको विवादः करणीयः | पत्रमहं पठामि, एतादृशः एव भावः कदाचित् कस्मिन्चित् अपर-पत्रे लिखितोsस्ति चेत् तमपि सहैव ग्रथ्नामि | युगपदेव स्वानुभवानामपि वृत्तान्तैक-द्वयोः संविभाजनं भवद्भिः साकं करोमि | भवद्भिः साकं संविभाजयामि, ततः परम्, न जाने कदा एतानि वृत्तानि गृह-कुटुम्बेषु प्रचरन्ति,  सामाजिक-माध्यमेषु WhatsApp-इत्यादिषु च परिभ्रमन्ति तथा च, किमप्येकं परिवर्तनं प्रति अग्रेसरन्ति | भवद्भिः प्रेषिताः स्वच्छता-सम्बद्धाः कथाः, सामान्य-जनानाम् अनेकानि उदाहरणानि च,  न जाने, कदा प्रतिगृहं स्वच्छतायाः लघुमेकं समङ्कितं दूतं प्रतिष्ठापितवन्ति, यो हि कौटुम्बिकान् अपि अवरोधयति, कदाचिच्च दूरभाषं कृत्वा प्रधानमन्त्रिणमपिदिशति | कदा कस्यचिदपि प्रशासनस्य तावती शक्तिः भविता यत् selfiewithdaughter-इत्यभियानं हरियाणा-राज्यस्य एकस्मात् लघु-ग्रामात् आरभ्य सम्पूर्णेsपि देशे एव नैव, विदेशेष्वपि प्रसरेत् | समाजस्य प्रत्येकमपि वर्गः, विशिष्टाः जनाश्च सर्वेsपि संयुताः भवेयुः, तथा च, अद्यतन-युव-संततिः अवगन्तुं पारयेत्, तादृश्यां नूतनायां आधुनिकभाषायां समाजस्य विचार-परिवर्तनस्य एतादृशं जागरणं प्रसारयेयुः | कदाचित्तु मन की बात-प्रसारणस्य प्रहसनमपि विधीयते परञ्च मम मनसि सर्वदैव त्रिंशदुत्तर-शत-कोटि-देशवासिनः निवसन्तो विराजन्ते | तेषां मनः मम मनोsस्ति | ‘मन की बात-इति प्रसारणं सर्वकारस्य वृत्तं नास्ति एतत्तु समाजस्य कथ्यमस्ति | ‘मन की बात-प्रसारणं हि महत्वकाङ्क्षिणः भारतस्य कथ्यमस्ति | भारतस्य मूल-प्राण राजनीतिर्नैवास्ति,  भारतस्य मूल-प्राण राजशक्तिरपि नास्ति – भारतस्य मूल-प्राण समाजनीति वर्तते समाज-शक्ति श्चास्ति | समाज-जीवनस्य परसहस्रं पक्षाः भवन्ति, तेष्वन्यतमः पक्षः राजनीतिरपि विद्यते | राजनीति कर्तुमकर्तुं समर्था भवति चेत्, तादृशी व्यवस्था स्वस्थ-समाजस्य कृते हितावहा नैवास्ति | कदाचित्तु राजनीतिक-घटना राजनीतिक-जनाश्च तावन्तं प्रभवन्ति यत् समाजस्य न्याः प्रतिभान्ये च पुरुषार्थाः दमिताः जायन्ते | भारत-सदृशस्य देशस्य उज्ज्वल-भविष्यत्कृते जनसामान्यस्य प्रतिभाः पुरुषार्थाश्च समुचित-स्थानमवाप्नुयुः, इदमस्मदीयं सर्वेषां सामूहिक-दायित्वमस्ति, तथा च, मन की बात-प्रसारणम् अस्यां दिशि नम्र ईषत्-प्रयासश्च वर्तते |
 “नमस्कारः! प्रधानमन्त्रिमहोदय! अहं प्रोमिता-मुखर्जी, मुम्बतो ब्रवीमि | महोदय ! मन की बात-प्रसारणस्य प्रत्येकमपि आख्यानं गूढ-प्रबोधेन, सूचनाभिः, रचनात्मक-वृत्तान्तैः सामान्य-जनानाञ्च सम्यक्-कार्यैः सम्भरितं भवति | अतः भवन्तं प्रष्टुं वाञ्छामि यत् प्रत्येकमपि कार्यक्रमात् प्राक् भवान् कियतीं सज्जां करोति?”  
   दूरभाष-करणार्थं भवत्यै भूयान्सो धन्यवादाः ! भवत्याः प्रश्नः वस्तुतस्तु  आत्मीयत्वेन जिज्ञासिता पृच्छास्ति | आमिनोमि यत् मन की बात-प्रसारणस्य पञ्चाशत्-आख्यानानाम् उत्कृष्टा सिद्धिरियमेव यत् भवती प्रधानमन्त्रिणा साकं नैव, परन्तु यथा कञ्चित् निकटस्थं सहवर्त्तिनं प्रश्नं पृच्छति, बाढम्, इदमेवास्ति लोकतन्त्रम् | भवती यं प्रश्नम् अपृच्छत्, यदि निराडम्बरं उत्तरेयं चेत् तदा वदिष्यामि यत् न किञ्चिदपि सज्जीकरोमि | वस्तुतस्तु मन की बात-प्रसारणं मम कृते अतितरां सरलं कार्यं वर्तते | प्रतिवारं मन की बात-प्रसारणात् प्राक् जनानां पत्राणि प्राप्यन्ते | Mygov-NarendraModiMobileApp-इत्यत्र जनाः निज-विचारान् संविभाजयन्ति | एका निःशुल्कं दूरभाष-संख्यास्ति 1800117800 – एकम् अष्टौ शून्यं शून्यम् एकम् एकं सप्त अष्टौ शून्यं शून्यं च | तत्र दूरभाषं कृत्वा जनाः निज-सन्देशं स्वीय-स्वरेण एव ध्वन्यङ्कितमपि कुर्वन्ति |  मम प्रयासो भवति यदहं मन की बात-प्रसारणात् प्राक् अधिकाधिकानि पत्राणि टिप्पणीश्च स्वयमेव पठेयम् | अहम् अनेकाः दूरभाषाकारणाश्चापि शृणोमि | यथैव मन की बात-प्रसारण-कालः  समीपमागच्छति, तदा तदवधौ भवद्भिः प्रेषितान् विचारान् परामर्शान् चाहं निगूढतया पठामि  |     
    प्रतिपलं मम देशवासिनः मम मनसि विराजन्ते अतो यदापि किञ्चित् पत्रं पठामि तदा पत्र-लेखस्य परिस्थिति भावश्च दीय-विचाराणामङ्गानि भवन्ति | तत्पत्रं मम कृते केवलमेकं कर्गदस्य अंशमात्रं नैव भवति, एवमपि अहं प्रायेण चत्वारिंशत्-पञ्चचत्वारिंशत्-वर्षाणि यावत् खण्डरूपेण परिव्राजकस्य जीवनं यापितवान्, देशस्य जनपदानामधिसंख्यम् अगच्छम्, तथा च देशस्य सुदूरवर्ति-जनपदेषु पर्याप्तकालमहम् अनैषम् एतस्मात् कारणात् यदाहं त्रं पठामि तदाहं सरलतया तेन स्थानेन तेन सन्दर्भेण चात्मानं संयोजयितुं शक्नोमि, ततः परं, कानिचित् तथ्यानि यथा ग्रामं जनस्य नाम चेत्यादीनि लेख्ये आरोहयामि | सत्यं पृच्छतु चेत् मन की बात-प्रसारणे स्वरः मदीयोsस्ति परञ्च उदाहरणानि,  भावाः, भावनाश्च मम देशवासिनामेव वर्तन्ते | मन की बात-प्रसारणस्य कृते योगदान-प्रदात्रे प्रत्येकमपि जनाय धन्यवादान् व्याहर्तुमिच्छामि | एतादृशाः लक्षशो जनाः सन्ति येषां नामान्यहम् अद्यावधि मन की बात-प्रसारणे नैव प्रासारयम्, परञ्च ते विनैव नैराश्यं निज-त्राणि, प्रतिक्रियाश्च सततं प्रेषयन्ति भवतां विचाराः, भवतां भावनाश्च मम जीवने अतितरां महत्त्वमावहन्ति |  पूर्णतया विश्वसिमि यत् भवतां सर्वेषां वृत्तानि पूर्वतोsपेक्षया समधिकानि एवाप्स्यामि, तथा च, मन की बात-प्रसारणं इतोsप्यधिकतरं रोचकं प्रभावकं समुपयोगिनञ्च करिष्यन्ति| एवमपि प्रयत्यते यत् यानि त्राणि मन की बात-प्रसारणे नैव समावेशितानि तानि पत्राणि परामर्शान् चाधिकृत्य सम्बद्धाः विभागाश्चापि अवदध्युः | अहम् आकाशवाण्याः, दूरदर्शन-दृश्यवाहिन्याः फ्.एम्.रेडियो-माध्यमस्य अन्यासाञ्च दृश्यवाहिनीनां, सामाजिक-माध्यमानाञ्च मम सहकर्मिभ्योsपि धन्यवादान् कथयितुमिच्छामि | तेषां परिश्रमेण एव मन की बात-प्रसारणम् अधिकाधिक-जन-पर्यन्तं प्रयाति|    
    आकाशवाण्याः वृन्दं प्रत्येकमपि आख्यानम् अनेकासु भाषासु प्रसारयितुं प्रकल्पयति |  केचन जनाः कुशलतया क्षेत्रीय-भाषासु प्रायेण मोदिनः स्वर-तुल्येन स्वरेण, तयैव शैल्या मन की बात-प्रसारणं श्रावयन्ति | एवं रीत्या ते तत्त्रिंशत्-मिनिट्-पर्यन्तं नरेन्द्रमोदिनः एव भवन्ति | तानपि सर्वान् अहं तेषां प्रतिभायै दक्षतायै च वर्धापयामि, तेभ्यश्च धन्यवादान् व्याहरामि | साग्रहं भवतो निवेदयामि यद् भवन्तः सर्वे कार्यक्रममेनं निज-स्थानीय-भाषास्वपि अवश्यं शृण्वन्तु | सञ्चार-कर्मिणां सर्वेषामपि मित्राणां कृतेsपि हार्दिकान् धन्यवादान् वितरामि ये हि निज-निज-वाहिनीभ्यः मन की बात-कार्यक्रमं नियमितरूपेण प्रसारयन्ति | न कश्चनापि राजनैतिक-जनः सञ्चार-माध्यमेभ्यः कदाचिदपि प्रसन्नो भवति, सोsनुभवति यत्तस्मै प्रसारणेषु अतिन्यूनः कालः प्रदीयते, आहोस्वित् तद्विषयकं प्रसारणं विधीयते चेत् तन्नकारात्मकं भवति परञ्च मन की बात-इत्यत्र समुत्त्थापिताः अनेके विषयाः संचार-माध्यमैः स्वायत्तीकृताः| स्वच्छता, मार्गसुरक्षा, मादकौषध-मुक्तं भारतम्, selfie with daughter-चेत्यादि-विषयाः सन्ति यान् सञ्चारमाध्यमानि नवाचार-पद्धत्या अभियानरूपेण अग्रेसारितवन्ति | दृश्यवाहिन्यः प्रसारणमिदं सर्वाधिक-जनैः अवलोक्यमानमिति कार्यक्रमत्वेन प्रतिष्ठापितवत्यः अहं सञ्चार-माध्यमानि हृदयेन अभिनन्दामि | भवतां सहयोगं विना मन की बात-प्रसारणस्य यात्रेयमपूर्णा एव अभविष्यत् |
नमस्कारः मोदिमहोदय! अहम् उत्तराखण्डस्य मसूरीतो निधि-बहुगुणा वदामि | अहं युव-सन्तति-द्वयस्य जननी अस्मि | प्रायेण अहम् अवालोकयम् यत् अस्मिन् वयसि स्थितेभ्यः बालेभ्यः नेदं रोचते यत् तैः किं करणीयमिति कृत्वा कश्चन तान् उपदिशेत्? भवतु नाम ते शिक्षकाः वा तेषां मातापितरौ | परञ्च यदा भवतः मन की बात-प्रसारणं भवति, भवान् च बालकान् सम्बोध्य किमपि वदति,  तदा ते हृदयेन तदवगच्छन्ति तथा च, तस्य कार्यान्वयनमपि कुर्वन्ति अतः भवान् रहस्यमिदं अस्मभ्यमपि संविभाजयिष्यति किमु? धन्यवादः |” 
          निधि-महोदये, भवत्याः दूरभाषार्थं भूरिशो धन्यवादाः | वस्तुतस्तु मम पार्श्वे न किमपि रहस्यं वर्तते |  यत्किमपि करोमि तत्सर्वं कुटुम्बेष्वपि स्यात् भवत्येव | सरलभाषया वदेयं चेत् तदा आत्मानं तस्मिन् युवजने अवतारयितुं प्रयते, आत्मानञ्च तस्य परिस्थितिषु भावयामि, तस्य विचारैः सह किञ्चित् सामञ्जस्यं स्थापयितुं, तेन साकम् अनुभूत्यैक्यञ्च कर्तुं प्रयते | अस्माकं निज-जीवनस्य या  प्राचीना सामग्री, यदा सा बाधारूपा नैव भवति चेत् तदा कमपि अवगन्तुं सरलता भवति | दाचित्तु अस्माकं पूर्वाग्रहाः एव संवादार्थं महत्तम-ङ्कट-रूपाः भवन्ति | स्वीकृत्यस्वीकृत्योः प्रतिक्रियाणाञ्चापेक्षया कस्यचिज्जनस्य स्थितेः अवगमनस्य कृतेsहं प्राथमिकतां ददामि | ममायम् अनुभवः यत् एतादृश्यां स्थितौ प्रतिवक्तापि अस्मान् अनुकूलयितुं विभिन्न-र्काणाम् आपीडस्य चोपस्थापनापेक्षया अस्माकम् अनुभूत्यैक्यम् अवगन्तुं प्रयतते एतस्माच्च कारणात् सञ्चारान्तरालं समाप्नोति, ततः परं प्रकारान्तरेण तस्य विचारैः साकम् आवां द्वावपि सहयात्रिणौ भवावः | द्वयोरन्यतरः न मनागपि अवगन्तुं पारयति यत्  कदा केन अन्यतरेण स्वीय-विचारान् त्यक्त्वा अपरस्य विचाराः स्वीकृताः स्वायत्ती- कृताश्च | अद्यतन-यूनामियं विशेषता यत् ते तादृशं किञ्चिदपि नैवाचरिष्यन्ति यस्मिन् हि ते स्वयं  नैव विश्वसन्ति, तथा च, यदा ते कस्मिन्चित् विश्वसितुमारभन्ते चेत् ततः परं तदर्थं सर्वमपि त्यक्त्वा अनारतं तदनुकुर्वन्ति | प्रायेण जनाः कुटुम्बेषु वरिष्ठानां किशोराणाञ्च सञ्चारान्तरालं चर्चन्ते | वस्तुतस्तु कुटुम्बेषु प्रायेण किशोरैः साकं सम्वाद-परिधिः बहु सीमितो भवति | अधिकतर-कालार्थम् अध्ययनस्य चर्चा जायते आहोस्वित् प्रवृत्तेः वा व्यसनस्य वा जीवन-शैल्याश्च विषयमाधृत्य ‘एवं कुरु, एवं मा कुरु’ इत्यादि प्रवर्तते | विनैव कामपि अपेक्षाम्, मुक्तमनसा विधीयमानं  सम्वादजातम् – शनैः शनैः परिवारेष्वपि अतितरां न्यूनायते, तथा चायमपि चिन्ता- विषयोsस्ति |
        अपेक्षापेक्षया स्वीकृतिः, निरसनापेक्षया च चर्चा विधीयते चेत् सम्वादः प्रभावी जायते | पृथक्-पृथक्-कार्यक्रमेषु आहोस्वित् सञ्चारमाध्यमानां माध्यमेन युव-जनैः साकं सततं सम्वादानुष्ठानस्य मदीयो यत्नो भवति | ते यत्किमपि कुर्वन्ति अथवा किं वा विचारयन्ति, तस्मादहं किमपि आत्मानं शिक्षयितुं प्रयते | तेषां पार्श्वे सदा विचार-भाण्डारो राजते | तेsतितरां ऊर्जावन्तः नवाचार-शीलाः अवधानपूर्णाश्च भवन्ति | ‘मन की बात- माध्यमेनाहं यूनां प्रयासान्,  तेषां वृत्तानि, अधिकाधिकं सम्विभाजयितुं प्रयते | प्रायेण परिदेवनं क्रियते यत् युवानोsधिकाधिकान् प्रश्नान् पृच्छन्ति | वदाम्यहं यत् नूनं भद्रमिदं यत् नवयुवानः प्रश्नान् उपस्थापयन्ति | वृत्तमिदं नूनं भद्रं यतो हि एवमामान्यते यत्ते सर्वेषामपि विषयाणाम् आमूलान्वीक्षणं कर्तुमिच्छन्ति | केचिद् वदन्ति यत् युव-जनेषु धैर्याभावो भवति, परञ्चाहम् आमिनोमि यत् यूनां पार्श्वे निरर्थकः कालो नैवास्ति इदमेव तत्तथ्यं यदद्यत्वे नवयुवकाः समधिक-नवाचारशीलाः भवितुमर्हन्ति, यतो हि, ते कार्याणि त्वरितगत्या विधातुमीहन्ते | वयमनुभवामः यत् अद्यतन-युवानः अतितरां महत्वाकाङ्क्षिणो भवन्ति, तथा च, अनेकान् बृहत्तरान् विषयान् विचारयन्ति | नूनं समीचीनमिदम्, ते बृहत्तराणि स्वप्नानि पश्यन्तु तथा च, बृहत्तराश्च सफलताः अधिगच्छन्तु परमार्थेन इदमेव अभिनवं भारतं वर्तते | केचन कथयन्ति यत् युवसन्ततिः एकस्मिन्नेव काले अनेकान् विषयान् अवधातुमिच्छति | वदाम्यहं यत् कोsत्र दोषः ? | ते multitasking-इति बहुव्यापारेषु पारङ्ताः सन्ति अत एवमाचरन्ति | यदि वयं परिपार्श्वं पश्येम तदा, भवतु नाम सा सामाजिकोद्यमिता, Start-Ups, वा क्रीडा वान्यानि कानिचित् क्षेत्राणि समाजे बृहत्-परिवर्तनकारिणो युवजनाः एव सन्ति | ते एव युवजनाः, ये प्रश्नान् अपृच्छन्, बृहन्ति स्वप्नानि द्रष्टुं साहसं च प्रदर्शितवन्तः | यदि वयं यूनां विचारान् क्रियया अन्वेतुं प्रयतेम तथा च, तान् विचारान् अभिव्यञ्जयितुम् उदारं परिवेशं दद्याम, तर्हि ते देशे सकारात्मकं परिवर्तनं विधातुमर्हन्ति ते एवं कुर्वन्त्यपि |
       मम प्रियाः देशवासिनः, गुरुग्रामतो विनीता-महोदया MyGov-इत्यत्र अलिखत् यत् मन की बात-प्रसारणे मया श्वोsर्थात् नवम्बर-मासीये षड्विंशे दिने संपत्स्यमानस्य संविधान दिवस-स्य विषये किमपि वक्तव्यम् | तस्याः कथनानुसारेण, दिवसोsयं विशेष यतो हि संविधान-स्वीकरणस्य सप्ततितमे वर्षे वयं प्रवेक्ष्यामः|
   विनीता-महोदये ! भवत्या परामर्शार्थं भवत्यै भूरिशो धन्यवादाः |
   अस्तु, श्वः संविधान-दिवसो वर्तते | तासां महतीनां विभूतीनां स्मरण-दिनमस्ति यैः अस्मदीयं संविधानं विरचितम् | विगते शताब्दे ऊन्पन्चात्तमे वर्षे नवम्बरमासे, षड्विंशे दिने अस्मदीयं संविधानमिदं स्वीकृतमासीत् | संविधानस्य प्रारूपार्थम्, अस्य चैतिहासिक-कार्यस्य पूर्णतायै म्विधान-सभा सप्तदश-दिनोत्तरै- कादश-मासाधिक-द्विवर्षात्मक-कालम् अनैषीत् | भवन्तः कृपया कल्पयन्तु यत् त्रिवर्षाभ्यन्तरमेव एताः महत्यो विभूतयः अस्मभ्यमेतावद् व्यापकं विस्तृतञ्च  संविधानमादुः | एतैः यया असाधारण-त्या म्विधानं निर्मितं तद्धि अद्यापि काल-प्रबन्धनस्य उत्पादकतायाश्च उदाहरणत्वेन विद्यते | एते अस्मान् अपि स्वीयानि दायित्वानि आभिलेख्य-काले एव पूर्णतां नेतुं प्रेरयन्ति | म्विधानसभा देशस्य महतीनां प्रतिभानां सङ्गम आसीत्, तेषु प्रत्येकमपि निज-राष्ट्राय एतादृशमेकं सम्विधानं प्रदातुं प्रतिबद्धमासीत् येन भारतवासिनो जनाः क्ताः स्युः, निर्धनतमोsपि जनः समर्थ भवेत् |
 अस्मदीयस्य म्विधानस्येदमेव वैशिष्ट्यं यत् अधिकार-कर्तव्य-विषयोsत्र विस्तरेण वर्णितः | नागरिकाणां जीवने एतद्द्वयस्य सामञ्जस्यमेव राष्ट्रमग्रे सन्नेष्यति | यदि वयम् अन्येषाम् अधिकारान् सम्मानयिष्यामः तदास्मदीयाः अधिकाराः स्वयमेव क्षिताः भवितारः, तथा च एवंरीत्या यदि वयं म्विधानेन निर्दिष्टानि स्वीय-कर्तव्यानि अनुपालयामश्चेत्, अस्माकम् अधिकाराः स्वतः एव रक्षिताः भविष्यन्ति | साम्प्रतमपि स्मराम्यहं – दशोत्तरोन्विंश-शततमे वर्षे, यदा भारतीयगतन्त्रस्य षष्टि-वर्षाणि पूर्णानि, तदा गुजराते गजोपरि संविधानं प्रतिष्ठाप्य वयं शोभा-यात्रां व्यवस्थापितवन्तः | युव-जनेषु संविधान-विषयिणीं जागर्तिं विवर्धयितुं, तान् च सम्विधानस्य विविधैः पक्षैः संयोजयितुमयमेकः स्मरणीयः प्रसंग आसीत् | विम्शत्युत्तर-द्विसहस्रतमे वर्षे गणतंत्र-रूपेण वयं सप्तति-वर्षाणि पूरयितास्मः तथा च द्वाविम्शत्युत्तर-द्विसहस्रतमे वर्षे अस्माकं स्स्वतन्त्रतायाः पञ्च-सप्ततिः र्षाणि पूर्णानि भवितारः |
 आगच्छन्तु, वयं सर्वेsपि स्वीय-संविधानस्य मूल्यानि अग्रेसारयेम तथा चास्मदीये देशे शांतिम्, समुन्नतिम्, समृद्धिञ्च सुनिश्चितां करवाम |
     मम प्रियाः देशवासिन,  संविधानसभायाः सन्दर्भे तस्य महापुरुषस्य योगदानं न कदाचिदपि विस्मर्तुं शक्यते यो हि संविधानसभायाः केन्द्रीभूतोsवर्तत | अयं महापुरुष आसीत् - पूजनीय डॉ.बाबा-साहेब-अम्बेडकर | डीसेम्बर-मासे षष्ठे  दिने तस्य महापरिनिर्वाण-दिवसोsस्ति | अहं सर्वेषामपि देशवासिनां पक्षतः बाबा-साहब- वर्यं नमामि यो हि कोटि-कोटि-भारतीयान् ससम्मानं जीवनाधिकारं प्रादात् | लोकतन्त्रं नाम बाबा-साहब-वर्यस्य स्वभावे संसक्तमासीत् तथा च सः कथयति स्म यत् भारतस्य लोकतांत्रिक-मूल्यानि कुतश्चित् बहिस्तः नैवागतानि | किं नाम गणतंत्रम् भवति तथा च, का नाम भवति संसदीया व्यवस्था ? एतद्धि भारतस्य कृते किञ्चित् नूतनं वृत्तं नास्ति | संविधानसभायां सोsतितरां भावपूर्णं निवेदनम् अकरोत् यत् एतावत्-संघर्षानन्तरं प्राप्तायाः स्वतंत्रतायाः रक्षा अस्माभिः निज-रक्तस्य अन्तिम-बिन्दु-पर्यन्तं करणीयास्ति |  सः इदमपि कथयति स्म यत् वयं भारतीयाः, भवेम नाम पृथक्-पृथक्-पृष्ठभूमिवन्तः परञ्च अस्माभिः देशहितं सर्वोपरि संधारणीयम् | सर्व-प्रथमं भारतमिति - डॉ. बाबा साहेब अम्बेडकरस्य मूलमंत्रमासीत् | पुनरेकवारं पूज्याय बाबा-साहब-वर्याय विनम्र श्रद्धांजलि |
       मम प्रियाः देशवासिनः, दिवस-द्वय-पूर्वं नवम्बर-मासीये त्रयोविंशतौ वयं सर्वे श्री गुरु नानक देवस्य जयंतीमायोजितवन्तः तथा चागामिनि वर्षे अर्थात् ऊनविम्शत्युत्तर-द्विसहस्रतमे वर्षे वयं तस्य प्रकाशपर्व- इति सार्ध-पञ्च-शतीमा- योजयिष्यामः | गुरु नानक देव-वर्यः सदा अशेष-मानवतायाः कल्याणहेतोः चिन्तित- वान् | सः समाजं सर्वदा सेवा-करुणा-सत्य-कर्म-सौहार्द-मार्गं प्रादर्शयत् | देश आगामिनि ऊनविम्शत्युत्तर-द्विसहस्रतमे वर्षे तस्य प्रकाशपर्व- इति सार्ध-पञ्च-शती-समारोहं भव्य-रूपेण आयोजयितास्ति, अस्य प्रकाश न केवलं देशे अशेष-जगत्यपि प्रसरिष्यति | सर्वाण्यपि राज्य-प्रशासनानि केन्द्र-शासित-प्रदेशाश्चापि अवसरमेनं सोत्साहं हर्ष-प्रकर्षेण चायोजयितुमनुरुद्धाः सन्ति | एवं हि गुरोः  नानक देवस्य  सार्ध-पञ्च-शतवर्षात्मकं प्रकाशपर्व विश्वस्य सर्वेष्वपि देशेषु आयोजयिष्यते | अमुना सहैव, गुरु-नानक-देवेन संबद्धानां पवित्र-स्थलानां मार्गोपरि रेलयानमपि प्रचालयिष्यते | नातिचिरमेव, यदाहं एतद्विषयकम् उपवेशनम्  आकारयन्नासम्, तस्मिनेव काले अहं लखपत-साहिब-गुरुद्वारा-स्थलं स्मारितवान् | गुजराते  एकोत्तर-द्विसहस्र-तमे वर्षे समापन्नभूकंपावधौ तस्य गुरूद्वारस्य महती क्षतिः सञ्जातासीत्, परन्तु,  येन प्रकारेण स्थानीय-जनैः सम्भूय राज्य-प्रशासनेन तस्य जीर्णोद्धार-कार्यं कारितं तद्धि अद्यापि उदाहरणरूपमेवास्ति |
   भारतसर्वकारेण महान् एकः महत्वपूर्ण निर्णयो विहितोsस्ति यत् करतारपुर-corridor-इत्यस्य निर्माणं स्यादिति येन अस्माकं देशस्य यात्रिणः सरलतया पाकिस्ताने, करतारपुरे गुरु नानक देवस्य पवित्र-स्थलस्य दर्शनं कर्तुं शक्नुयुः |
       मम प्रियाः देशवासिनः, पञ्चाशत्तमस्य आख्यानस्य अनन्तरं वयं पुनरेकवारं मेलिष्यामः आगामिनि मन की बात-प्रसारणे | विश्वसिमि यत् आद्योsयमवसरः यदा मन की बात-कार्यक्रमस्य पृष्ठभूम्यात्मकं वृत्तं भवतां समक्षम् उपस्थापितम्, यतो हि भवन्तः भवत्यश्च एतादृशान्  एव प्रश्नान् अपृच्छन् परञ्च अस्मदीया यात्रैषा सततं प्रवर्तिता | भवतां साहचर्यं यावदधिकतरं भविता तावती यात्रास्मदीया इतः परमपि गहना घनिष्ठा सर्वेषाञ्च कृते संतोषप्रदा सेत्स्यति | कदाचित्तु जनानां मनस्सु प्रश्नः समुदेति यत् मन की बात-प्रसारणेन किमहम् अलभम् ? अद्याहं कथयितुं वाञ्छामि यत् मन की बात-कार्यक्रमस्य याः प्रतिक्रियाः लभ्यन्ते, तासु अन्यतमं मम मनसोsतितरां स्पर्शकरं वृत्तमिदमेव, यत् जनानामधिसंख्यम् एतदकथयत्  यत् यदा वयं कुटुम्बस्स्य सर्वैः सदस्यैः सम्भूय समुपविश्य च मन की बात-प्रसारणं शृण्मः,  तदैवं प्रतीयते यत् अस्माकं कुटुम्बस्य अग्रणी अस्माकं मध्ये स्थित्वा अस्मदीयानि एव वृत्तानि अस्माभिः संविभाजयति |  यदा वृत्तमिदम् अहं व्यापकरूपेण श्रुतवान् तदाहं संतोषाधिक्यम् अन्वभवम् यत् अहं भवदीयः, भवत्सु एवान्यतमः, भवतां मध्ये एवास्मि, भवन्तः एव मां प्रमुख-पदे अभिषिक्तवन्तः, तथा च एवंप्रकारेण अहमपि भवतां कुटुम्बस्य सदस्यरूपेण मन की बात-माध्यमेन पुनः पुनः आगमिष्यामि, भवद्भिः साकम् आत्मानं संयोजयिष्यामि | भवतां सुखानि दुःखानि च, मदीयानि सुखानि दुःखानि च,  भवतामाकाङ्गक्षाः, मदीयाः आकांक्षा, भवतां महत्वाकांक्षा, मामकीनाः महत्वाकांक्षाश्च |
गच्छन्तु, यात्रामेनां वयं इतोsप्यग्रे सारयेम | भूरिशो धन्यवादाः |  
                             *****                             
           ---     भाषान्तर-कर्ता -   डॉ.बलदेवानन्द-सागरः