Friday 2 June 2017

“मन की बात” -प्रसारण-तिथि - २८-मई’२०१७

“मनोगतम्” “मन की बात’ (प्रसारण-तिथिः 28.05.2017)
["मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य प्रथमः संस्कृत-भाषिकानुवादः ]

मम प्रियाः देश-वासिनः ! नमस्कारः । अस्य वर्षस्य निदाघं न वयं विस्मरिष्यामः । परञ्च वृष्टिं प्रतीक्षामहे । अद्य अहं भवद्भिः सार्धं यदा संभाषे तदा रमजानस्य पवित्र-मासः आरभत | रमजानस्य पवित्र-मासारम्भे अहं भारतस्य अशेष-विश्वस्य च जनान् विशेषेण मुस्लिम-समुदायस्य कृते हार्दिकी: शुभ-कामनाः व्याहरामि । अवसरेsस्मिन् प्रार्थना-आध्यात्मिकता-prayer-spirituality-charity-इति त्रयम् अतितरां महात्वाधायि आमान्यते | वयं भारतीयाः नितरां सौभाग्यशालिनः यतो हि अस्मदीयाः पूर्वजाः तादृशीः परम्पराः व्यरचयन् यत् भारतम् अद्य गौरवम् अनुभवति, वयं सपाद-शत-कोटि-देशवासिनः गौरवम् अनुभवामः यत् विश्वस्य सर्वेsपि सम्प्रदायाः भारते विराजन्ते । एतादृशोऽयं देशः यत्र ईश्वर-विश्वासिनः, ईश्वर-विरोधिनोऽपि, मूर्तिपूजकाः, मूर्ति-पूजाविरोधिनोऽपि निवसन्ति | प्रत्येक-प्रकारिकाः विचारधाराः, भिन्न-प्रकारिकाः पूजापद्धतीः, बहुविधाः परम्पराः च स्वीकृत्य वयं सर्वे सहैव स्थातुं जीवितुञ्च तादृर्शीं कलाम् आत्मसात्कृतवन्तः । अपि च, अन्ततः कश्चन धर्मः, सम्प्रदायः, विचारधारा परम्परा वा भवतु, एते सर्वे अस्मान् शान्तिम् एकतां सद्भावनां च सन्दिशन्ति । रमजानस्य पवित्र-मासोऽयं शान्तेः एकतायाः सद्भावनायाः च पन्थानमेनम् अग्रेसारयितुं नूनं सहायको भविता । पुनरेकवारं सर्वेभ्यः शुभ-कामनाः वितरामि ।
विगते क्रमे, यदा अहं मनोगतं प्रकटयन् आसम् तदा मया एकः शब्दः प्रयुक्तः आसीत्, अपि च, विशेषेण युव-जनान् कथयन् आसम्, यत् किमपि नूतनं कुरुत इति | सौख्य-वलयात् बहिः निर्गच्छन्तु, अभिनवान् अनुभवान् च अर्जयत, इदमेव आयुः भवति यदा जीवने किञ्चित् सङ्कटं स्वीकृत्य काठिन्यानि चामन्त्रयितुं शक्यते । प्रसन्नताम् अनुभवामि यत् अनेके जनाः मां प्रतिक्रियां ज्ञापितवन्तः | मनोगत-भाव-प्रकटनार्थं व्यक्तिशः सर्वेऽपि माम् उत्साहितवन्तः | न मया सर्वाः अपि
1

प्रतिकियाः पठिताः न च, सर्वेऽपि सन्देशाः श्रुताः, बृहन्-मात्रिकाः प्रतिक्रियाः अधिगताः सन्ति । परञ्च कश्चन नूतनानि वाद्यानि वादयितुं चेष्टते, कञ्चन जनाः यूट्युब् -इत्यस्य उपयोगं कुर्वन्तः नूतनविषयान् अवगन्तुं यतन्ते | अपरः नूतनां भाषां पठितुं प्रयतते । केचन पाक-विद्याम् अवगन्तुम् , अपरे च नृत्यं शिक्षितुं यतन्ते | एके नाट्यम् अभ्यस्तुं आरभन्त । केचन जनाः तु लिखितवन्तः यत् वयं साम्प्रतं कविताः लेखितुम् आरब्धवन्तः । प्रकृतिम् अवगन्तुम्, ज्ञातुं जीवितुं च एते, तस्यां दिशि प्रयतन्ते |
अहम् आनन्द-सन्दोहम् अन्वभवम्, अपि च, अन्यतमं दूरभाष-सम्भाषणं भवद्भ्यः अपि श्रावयितुं इच्छामि -
“दीक्षा-कात्यालः वदामि | मम पठनस्य अनुसरणं प्रायेण अपगतम् आसीत्, अतः एतेषु अवकाश-दिनेषु मया पठनार्थं निश्चितम् | यदा मया स्वतन्त्रता-संग्राम-विषये पठनम् आरब्धम्, तदा मयानुभूतं यत् भारतस्य स्वातन्त्र्यार्थं कियान् संघर्षः विहितः ? कियत् बलिदानम् आचरितम् । कियन्तो हि स्वतन्त्रता-सैनिकाः कारासु अनेक-वर्षाणि यापितवन्तः ? भगतसिंहः यो हि अल्पे एव वयसि बहु अधिगतवान्, तेन अतितरां प्रेरिता अभवम् । अतः अत्र भवन्तम् अनुरुन्धे यत् विषयेऽस्मिन्
प्रसन्नोऽस्मि यत् युव-जनाः अस्मदीयेतिहासस्य, अस्माकं स्वतन्त्रता-सैनिकानां राष्ट्रहितार्थं बलिदान-कर्तृणाञ्च विषये ज्ञातुं रुचिमन्तो वर्तन्ते । असंख्याः महापुरुषाः यैः स्वीयं यौवनं कारासु एव यापितम् | अनेके नव-युवकाः रज्जुपाशेन मृत्युम् आलिङ्गितवन्तः | कियत् प्रकारकं काठिन्यं तैः न सोढम् ? तस्मादेव कारणात् साम्प्रतं वयं स्वतन्त्रे भारते श्वसिमः । एकं तथ्यन्तु अस्माभिः ज्ञातमेव यत् स्वतन्त्रतायाः आन्दोलने ये ये महापुरुषाः कारासु कालं यापितवन्तः, ते लेखनस्य अध्ययनस्य च महत्-कार्यम् अकुर्वन् अपि च, तेषां लेखनी अपि भारतस्य स्वाधीनतां सबलाम् अकरोत् |
अद्य वीर-सावरकरस्य जन्म-जयन्ती वर्तते । वीर-सावरकरः कारायां ‘माजी जन्मठे'-पुस्तकम् अलिखत्
2
। सः कविताः लिखति स्म, भित्तिषु लिखति स्म । अतिलघौ कुटीरे असौ पिहितः आसीत् । स्वाधीनतायाः कृते समर्पिताः एते अवर्णनीयां यातनां सोढवन्तः | यदा सावरकर-महोदयस्य ‘माजी जन्मठे'-पुस्तकम् अपठम्, तदाहं सेलुलर-कारां विलोकयितुं प्रेरितोऽभवम् । तत्र एकः ध्वनि-प्रकाशकार्यक्रमः प्रदर्श्यते, यो हि अतितरां प्रेरकोऽस्ति | भारतस्य नैकमपि तादृशं राज्यमासीत्, भारतस्य नैकोऽपि तादृशो भाषाभाषी आसीत् येन स्वाधीनता प्राप्तुं 'काला पानी इति दुर्गम-निर्वासन-दण्डम् अवाप्य अण्डमान-कारायाम्, अस्यां सेलुलर-कारायां स्वीयं यौवनं नैव यापितम्। प्रत्येकमपि भाषा-भाषी, प्रत्येकमपि प्रान्तस्य, प्रत्येकमपि प्रसूतेः च जनाः यातनाः सोढवन्तः ।
अद्य वीर-सावरकरस्य जन्म-जयन्ती वर्तते | देशस्य युवजनान् अहं सबलं कथयामि यत् अस्माभिः या स्वाधीनता अधिगता, तदर्थं कियन्त्यः यातनाः जनाः सोढवन्तः ? कानि कानि कष्टानि चानुभूतवन्तः । यदि वयं सेलुलर-कारां गत्वा पश्येम चेत् ‘काला-पानी’ इति कथं कथ्यते, एतत्तु तत्र गत्वैव ज्ञातुं शक्यते । एतत्तु अस्मदीय-स्वाधीनता-संग्रामस्य तीर्थ-क्षेत्रम्, प्राप्ते सति अवसरे भवन्तः नूनं तत्र गच्छन्तु ।
मम प्रियाः देश-वासिनः ! जून-मासे पञ्चमे दिनाङ्के प्रथमोऽयं सोमवासरः । एवं हि सर्वमपि सामान्यं वर्तते परञ्च जून्-मासीयः पञ्चमः विशिष्टः दिवसोऽस्ति, यतो हि अयं “पर्यावरण-दिवस”त्वेन समायोज्यते, तथा च सम्वत्सरेऽस्मिन् संयुक्त-संघेन विषयो निर्धारितोऽस्ति यत् "connecting People to Nature" अर्थात् प्रकृत्या सह जनानां संयोजनम् | अपरैः शब्दैः वक्तुं शक्यते यत् back to basics इति, तथा च, प्रकृत्या संयोजनं नाम किमस्ति ? मम दृष्ट्या अस्यार्थोऽस्ति- स्वात्मना सम्पर्को विधेयः | आत्मना एव आत्मनः संयोजनम् । प्रकृत्या सह सम्पर्कः अर्थात् भद्रतर-ग्रहस्य पुष्टीकरणम् । अपि च, विषयोऽयं महात्म-गान्धिनम् अतिरिच्य अपरः कः सुष्ठुतया व्याख्यातुम् अर्हति ? महात्मा गान्धी बहुवारम् कथयन् आसीत् - “One must care about a world one will not see” अर्थात्, यं विश्वं वयं न अवलोकयिष्यामः, अस्मदीयं कर्तव्यं वर्तते यत् तविषयेऽपि अस्माभिः चिन्तनीयम् । अपि च, प्रकृतेः शक्तिः भवति, ‘भवद्भिरपि अनुभूतं स्यात् यत् यदि भवान् बहु क्लान्तः सन् गृहमागतः तथा च, चषकमात्रं जलेन मुख-प्रोक्षणं करोति चेत् तदा कियती स्फूर्तिः अनुभूयते । बहु क्लान्तः सन् गृहमागतः चेत्, यदि कक्षस्य गवाक्ष-कपाटानि उदघाटयेत्, दवारं वा उद्घाटयेत्, सद्यः वायोः श्वसनञ्च विधीयेत चेत् एका नवीना चेतना अनुभूयते ।
3

यैः पञ्च-भूतैः शरीरमिदं निर्मितमस्ति, तैः पञ्च-भूतैः साकं यदा संपर्को भवति तदा, स्वयमेव अस्मदीय-शरीरे काचित् नवीना चेतना प्रकटीभवति । एका नूतना ऊर्जा उद्भवति । एतद अस्माभिः सर्वेरपि अनुभूतम्, परञ्च सावधानं नैव अवलोकयामः | वयं तत् एकस्मिन् तन्तौ वा एकस्मिन् सूत्रे नैव ग्रथ्नामः । ततः परं भवन्तः नूनं अवलोकयन्तु यत् यदा यदा प्राकृतिक-स्थित्या सम्पकॉ जायते, भवताम् अन्तर्मनसि एका नूतना चेतना उद्भविष्यति तथा च, एतदर्थं जून-मासस्य पर्यावरणस्य संरक्षणम् अस्मदीयैः पूर्वजैः अनुष्ठितम्, तस्य लाभाः अस्माभिः प्राप्यन्ते । यदि वयम् एनं रक्षिष्यामः तर्हि अस्मदीया भाविनी संततिः नूनं लाभान् अवाप्स्यति । वेदेषु पृथ्वी पर्यावरणञ्च शक्तेः आधारत्वेन वर्णिते स्तः । अस्माकं वेदेषु एतदविषयकं वर्णनं लभ्यते । तथा च, अथर्ववेदस्तु पूर्णतया, पर्यावरणस्य बृहत्तमः दिशा-निर्देशकः ग्रन्थोऽस्ति । नैक-सहस्र-वर्षेभ्यः पूर्वं विरचितः । वेदेषु प्रोक्तम् - “माता भूमिः पुत्रोहं पृथिव्याः॥” वेदेषु वर्णितं यत् अस्मत्सु यत् पावित्र्यमस्ति, तद्धि अस्मदीयायाः पृथिव्याः कारणादेव । पृथ्वी अस्माकं माता अस्ति, वयञ्च तस्याः पुत्राः ।
यदि वयं भगवन्तं बुद्धं स्मरामः तदा तथ्यमिदं नूनं स्फूटीभवति यत् महात्मनः बुद्धस्य जन्म, तस्य बुद्धत्व-प्राप्तिः, तस्य च महा-परिनिर्वाणः- एतत्-त्रयमपि वृक्षस्य अधस्तात् अजायत | अस्माकं देशेsपि अनेके एतादृशाः उत्सवाः, विविधाः एतादृश्यः अर्चना-पद्धतयः च सन्ति | पठिताः साक्षराः निरक्षराः वा भवन्तु, पौराः ग्रामीणाः वा आदिवासि-सामाजिकाः च भवन्तु, प्रकृतेः अर्चना, प्रकृति प्रति प्रेम वा सहजरूपेण समाज-जीवनस्य अङ्गत्वेन विद्यते । परञ्च अस्मामििरिदं आधुनिकशब्देषु आधुनिक-तकैं: साकं संयोजनीयम्, एतदस्ति परमावश्यकम्।
एतेषु दिनेषु अहं राज्येभ्यः वार्ताः प्राप्नुवन् अस्मि । प्रायेण सर्वेष्वपि राज्येषु वृष्टेः आगमनेन सहैव वृक्षारोपणस्य बृहदमियानं प्रचलति । अनेक-कोटि-वृक्षाणां वपनं भवति । विद्यालयीयाः बालाः अपि अत्र संयोज्यन्ते, समाजसेवि-संघटनानि अपि संयुतानि भवन्ति, प्रशासनेतर-संघटनानि अपि संयुक्तानि भवन्ति, प्रशासनमपि स्वयं प्रथम-प्रयासत्वेन आचरति । वयमपि अस्मिन् काले वर्षा-ऋतौ वृक्षारोपणं प्रोत्साहयेम, एतदर्थं योगदानं कुर्म ।
4
मम प्रियाः देशवासिनः ! जूनमासीयः एकविन्शतितमः दिवसः, सम्प्रति अशेष-जगति जूनमासीयः एकविन्शतितमः दिवसः, परिचित-दिनत्वेन अभिज्ञायते । विश्व-योग-दिवस-रूपेण संपूर्णमपि जगत् एनम् आयोजयति | अल्पीयसि एव काले जूनमासीयः एकविन्शतितम-योग-दिवसः, प्रत्येकमपि कोणे प्रसृतो जातः, अयञ्च जनान् संयोजयति ।
एकतः जगति पृथक्तायाः अनेकाः शक्तयः स्वीयं विकृतं मुखं विस्फारयति, एतादृशे काले योगाचरण नाम विश्वस्य कृते भारतस्य बृहत्तमं योगदानं वर्तते । योग-माध्यमेन वयं विश्वम् एकसूत्रे संयोजयितुं शक्नुमः । यथा योगः- शरीरं मनः बुद्धिम् आत्मानं च संयोजयति, तथैव अद्यत्वे योगाभ्यासः विश्वमपि संयोजयति |
अद्यत्वे जीवन-शैली-कारणात्, व्यग्रतातः, त्वरायाः च कारणात्, समेधमान-दायित्व-अव-हेतोः च आतति-मुक्त-जीवनं कठिनायते । अपि च, एतदपि ज्ञायते यत् लघु-वयोयुतेषु अपि एषा स्थितिः दृग्गोचरीभवति | प्रकीर्णाः अप्रामाणिकाः चौषधयः स्वीक्रियन्ते, एवं हि कालो याप्यते | एतादृश्यां स्थितौ आतति-मुक्त-जीवनार्थं योगस्य भूमिका महत्वपूर्णा अस्ति । योगो नाम आरोग्यतायाः समीचीनतायाः च प्रतिभूतत्वेन विराजते | योगो नाम न केवलं व्यायाम-क्रिया | शरीरेण मनसा विचारैः आचारेण च स्वस्थतायाः अन्तर्यात्रा केन प्रकारेण प्रचलेत् - तस्याः अन्तर्यात्रायाः अनुभवः केवलं योगाचरण-माध्यमेन एव संभाव्यते । सद्य: दिवस-दवय-पूर्वमेव, अहं योग-दिवस-विषये विश्वस्य सर्वेभ्यः प्रशासनेभ्यः नेतृभ्यः च, पत्राणि लिखितवान् ।
विगते वर्षे अहं योग-सम्बद्धाः काश्चन स्पर्धाः घोषितवान् । केचन पुरस्काराः घोषिताः । शनैः शनैः तस्यां दिशि कार्यम् अग्रेसरिष्यति । मया परामर्शः अधिगतः, अपि च एनं मौलिक-परामर्शकम् अभिनन्दामि । अतीव रोचकोऽयं परामर्शः । तेनोक्तं यत् तृतीयोयम् अन्ताराष्ट्रिय-योग-दिवसः त्रयं युगपदेव योगाभ्यासम् आचरेत् । पितामहः पितामही च भवतु वा मातामहः मातामही वा, मातापितरौ, पुत्रः पुत्री वा, सन्तति-त्रयमपि युगपदमेव योगाभ्यासं करोतु, तथा च, एतस्य चित्राणि अन्तर्जाले स्थापयन्तु, हयः अद्य श्वः चेति सुभग-संयोगो अविता, योगाभ्यासाय च नूतन: आयामोऽपि अवाप्स्यते |
5
एतत्-परामर्शार्थ साधुवादान् वितरामि | अहमपि अनुभवामि यत् यथा पूर्व “selfie with daughter” इति अभियानम् अस्माभिः प्रचालितमासीत्, तदा रोचकः अनुभवः सञ्जातः आसीत् । योगाभ्यास-निरतस्य सन्तति-त्रयस्य एतानि चित्राणि नूनं देशस्य जगतः च कृते कौतुहल-कराणि भविष्यन्ति | भवन्तः अवश्यमेव NarendraModiApp, MyGov चेत्यत्र सन्तति-त्रयस्य, जनाः यत्र युगपत् योगाभ्यासं कुर्वन्तः सन्ति, तेषां चित्राणि मह्यं प्रेषयन्तु | ह्यः, अद्य श्वः चेति सुभग-संयोगस्य एतानि चित्राणि भवितारः । यानि भद्रतरस्य भाविकालस्य प्रत्याभूतिरूपेण सेत्स्यन्ति । अहं अत्र भवतः सर्वान् आमन्त्रयामि । इतः परम् अन्ताराष्ट्रिय-योग-दिवसस्य कृते प्रायः सप्ताह-त्रयस्य कालः अस्माकं पाश्र्वे वर्तते । अद्य प्रभृति एव, अभ्यासम् आरभन्ताम् ! अहं जून-मासस्य प्रथम-दिवसादेव प्रतिदिनं twitter-इत्यत्र योग-सम्बद्धं किञ्चित् किञ्चित् प्रेषयिष्यामि, तथा च, अनारतं एक-विन्शतितमं दिनं यावत् प्रेषयिष्यामि, एतत् भवद्भिः साकं संभजिष्ये ॥ भवन्तोऽपि सप्ताह-त्रयम् अनारतं योग-विषयं प्रचारयन्तु,प्रसारयन्तु च, जनान् च संयोजयन्तु । एवं हि एतत् निवारक-स्वास्थ्य-परिचर्यायाः
आन्दोलनमेव अस्ति । अत्र आत्मानं संयोजयितुम् अहं भवतः सर्वान् आमन्त्रयामि ।
यावत् प्रभृति भवन्तः मह्यं प्रधान-सेवकस्य दायित्वं दत्तवन्तः, तथा च, प्रथमवारं रक्तदुर्गस्य प्राचीरेभ्यः, अगस्त-मासे पञ्चदश-दिनाङ्के अभिभाषणस्य अवसरं प्राप्तवान्, तदा स्वच्छता-विषये मया अभिभाषितमासीत् । तदा प्रभृति आरभ्य अद्य पर्यन्तं भारतस्य नाना-भागेषु मम प्रवासो भवति । मया अवलोकितं यत् केचन जनाः अतिसूक्ष्मतया निरीक्षन्ते यत् मोदि-वर्यः किं करोति ? मोदि-वर्यः कुत्र गच्छति ? मोदिवर्येण किं किं कृतम् ? निरन्तरम् एतत् अनुसरन्ति । यतो हि अहम् एकम् अतिरोचकं दूरभाष-सन्देशं प्राप्तवान्, मयापि कदाचिद् एवं नैव विचारितमासीत् | परञ्च तया यो विषयः अवधारितः तदर्थं तस्याः कार्तज्ञ्यम् आवहामि । एतत्तु भवन्तः अमुना दूरभाषेण अवधास्यन्ति ।
“प्रणमामि मोदि-वार्याय । मुम्बईतः अहमस्मि नैना । मोदि-वर्य ! दृश्य-माध्यमेषु सामाजिक-सञ्चार-माध्यमेषु च अद्यत्वे सततं पश्यामि यत् भवान् यत्र-कुत्रापि याति, तत्रत्याः जनाः स्वच्छता-विषये विशेषेण अवधानं प्रददति । मुम्बई भवतु वा सूरत इति - भवतः आहवानं स्वीकृत्य जनाः सामूहिक-रूपेण स्वच्छता-विषयं विशिष्ट-कर्मत्वेन अङ्गीकृतवन्तः । न केवलं वरिष्ठाः जनाः, बालाः अपि स्वच्छता-विषये प्रबुद्धाः सञ्जाताः सन्ति । मार्गोपरि अवस्कर-प्रसारकान् वरिष्ठान्
6
निवारयन्तः एते अनेकवारम् अवलोकिताः । काश्याः घट्टेभ्यः यत् स्वच्छताभियानं भवता आरब्धम्, भवतः प्रेरणया तत् साम्प्रतं आन्दोलनात्मकेन रूपायितम् ।”
भवतः विचारः समुचितः यत् यत्र-यत्र अहं गच्छामि, तत्र प्रशासन-तन्त्रं तु स्वच्छताकार्याणि कुर्वन्ति, किन्तु एतेषु दिनेषु समाजेऽपि स्वच्छता-समुत्सवः संजायते । मम तत्र गमनात् पञ्चदिनेभ्यः प्राक्, सप्त-दिनेभ्यः दश-दिनेभ्यो वा प्राक्, बहुमात्रिकाः स्वच्छता-कार्यक्रमाः भवन्ति । सञ्चारमाध्यमानि अपि, वार्तामेनां समधिकावधानेन प्रचारयन्ति ।”
नातिचिरं गुजराते कच्छ-प्रदेशं गतवान् आसम् । तत्र बृहन्मात्रिकं स्वच्छताभियानं प्रावर्तत । मयापि इदं संयोज्य नैव विचारितमासीत् । परञ्च यदा अयं दूरभाषः आगतः तदा अहमपि विचारयितुम् आरंभम् । मया दृष्टं यत् एतत्तु समीचीनमेवास्ति । भवन्तः कल्पयितुं शक्नुवन्ति यत् कियन्तं महान्तम् आनन्दम् अनुभवामि - एतत् ज्ञात्वा यत् अशेष-राष्ट्रमपि एतानि तथ्यानि विशेषोल्लेखपुरस्सरं निभालयन्ति । मम कृते नेतः परं अधिकतरा प्रसन्नता अस्ति यत् मम यात्रापि स्वच्छतया सार्क संयोजिता जाता । प्रधानमन्त्रिणः स्वागतार्थम् अन्यत् सर्वम् औपचारिकोपकल्पन्नं भवति, तद् भवतु नाम, परञ्च, स्वच्छता नाम प्रमुख-विषयत्वेन एव स्यात् । एतत्तु कस्यापि स्वच्छता-प्रेमिणः कृते सर्वाधिकम् आनन्द-दायकं, प्रेरकञ्च भवति । स्वच्छता-कार्यं सबलं विधातुं प्रयतमानेभ्यः सर्वेभ्यः साधुवादान् व्याहरामि ।
कश्चन मां परामर्शयत्। यद्यपि परामशॉऽयं विनोदात्मकः अस्ति, नाहं जाने यत्। इदं कर्तु पारयिष्यामि न वा इति ।
“मोदि-महोदय ! इतः परं प्रवासार्थं निश्चयावसरे यः अभवत्-प्रवासार्थं निवेदयति, सः निर्देष्टव्यः यत् स्वच्छता-स्तरः कीदृशः अस्ति वा कियत्-टन्न-परिमितम् अवकरम् भवन्तः महयम् उपाहरिष्यन्ति ? तदाधारीकृत्य अहं प्रवासं निश्चेष्यामि । विचारः अत्युत्तमः परञ्च एतदर्थं मया विचारणीयम् अवशिष्यते । किन्तु एतत्तु समुचितमेव यत् इदमान्दोलनत्वेन प्रवर्तेत । इतर-वस्तूनाम् उपायनीकरणापेक्षया इदं शुभं भविता यत् वयम् उपहार-रूपेण स्वच्छता-कार्याणि कृत्वा एतावन्-टनमात्रिकम् अवकरं दद्येम । एवं हि वयं अनेकान् जनान् रोगेभ्यः रक्षितुं शक्ष्यामः । कियत् हि श्रेष्ठं
7
निरर्थकं नास्ति , तदस्ति “वेल्थ”- समृद्धिः वा resource अर्थात् संसाधनम् । नैतत् केवलं प्रबन्धनस्य अनेके अभिनवाः पद्धतयः अस्माकं समक्षम् आगमिष्यन्ति । start up - इत्यनेन संयुक्ताः नवयुवकाः अपि नव-नव-योजनाः आदाय आगमिष्यन्ति । नूतनानि उपकरणानि नीत्वा आयास्यन्ति । भारतीय-प्रशासनं राज्य-प्रशासनानां साहाय्येन साकमेव नगराणां जन-प्रतिनिधीनां साहाय्य-द्वारा देशस्य प्रायेण चतुःसहस्र-नगरेषु solid waste - liquid waste - इति घट्ट-प्रवाहि-प्रकारयोः अवस्करयोः संग्रहणार्थं तावत्-प्रकारकाणि साधनानि उपलप्स्यन्ते | वि-प्रकारिकाः अवकर-पेटिकाः उपलप्स्यन्ते - अनयोः एका हरित-वर्णिका अपरा च नील-वर्णिका । वि-प्रकारकः अवकरो भवति । अनयोः अन्यतरः प्रवाहि-अवकरः, अपरश्च शुष्कः अवकरः । यदि वयम् अनुशासनम् अनुसरामश्चेत् एतेषु चतुः-सहस्रं नगरेषु एताः अवकर-पेटिकाः स्थापयिष्यन्ते । शुष्कः अवकरः नील-वर्णिकायां पेटिकायां प्रक्षिपन्तु, तथा च, आद्रवकरं हरित-पेटिकायां क्षिपन्तु। यथा पाकशालायाः अवकारादयः - शाकादीनां पत्राणि, अवशिष्टं भोजनम्, कुक्कुटाण्ड-आवरणानि, पादप-पत्राणि च अवन्ति, एतानि सर्वाणि आर्द्ध-अवकारत्वेन सन्ति, तानि च हरित-पेटिकायां क्षेपणीयानि । एतानि वस्तूनि कृषि-क्षेत्रेषु समुपयुक्तानि भवन्ति । क्षेत्रस्य वर्णः । अपि च, अपरः अवस्करः अस्ति - व्यर्थ-कर्गजः, स्थूल-कर्गजः,लौहः, शीशकं वस्त्र-खण्डानि, घट्ट्यातुः, विशीर्णाः लघु-पेटिकाः, धातवः, plastic-polythene-चेत्यादीनि अनेकानि वस्तूनि भवन्ति - एतानि सर्वाणि शुष्क-प्रकारकाणि अवकर-जातानि सन्ति, एतानि यन्त्रेषु स्थापयित्वा recycle-पद्ध्यत्या पुनरुपयोगार्थ संस्क्रियन्ते । अनुपयुक्तानि वस्तूनि नील-वर्णिकायां पेटिकायां क्षेपणीयानि सन्ति | अहं विश्वसिमि यत् वयं सम्भूय एकां संस्कृतिं विकासयिष्यामः । स्वच्छतां प्रति पौनःपुनिकम् अस्माभिः नूतनाः पद-क्षेपाः सततं करणीयाः सन्ति । तदैव वयं गान्धि-महात्मना दृष्टान् स्वप्नान्, स्वच्छता-विषयकान् स्वप्नान् प्रपूरयितुं शक्ष्यामः ।
सः बृहत्-जनान्दोलनम् प्रवर्तयितुं शक्नोति । स्वच्छतायाः कार्यमपि तादृशमेवास्ति ।
8
विगतेषु दिनेषु । भवद्रिः एका वार्ता श्रुता स्यात् । मुम्बय्यां अस्वच्छता-युतः वसौंवा-तटविस्तरः सम्प्रति स्वच्छः सुन्दरश्च तट-प्रदेशः सञ्जातः । नैतत् सहसा सञ्जातम् | प्रायः अशीतिनवति-सप्ताह-पर्यन्तं नागरिका: निरन्तरं परिश्रमं कृत्वा वसॉवा-तट-विस्तरस्य स्वरूपं परिवर्तितवन्तः । सहस्राधिक-टन्न-परिमितः अवकरो निष्कासितः, ततः परमेव वसाँवा-तट-विस्तरः अद्यत्वे स्वच्छः सुन्दरश्च अजायत । अस्य कार्यस्य पूर्ण-दायित्वं निव्र्यढम् -VRV - इति वसौंवा-आवास-स्वयंसेविना श्रीमता अफरोज-शाहेन । वर्ष-द्वय-पूर्वं अक्टूबर-मासे असौ सर्वात्मना कार्येऽस्मिन् व्यापृतः जातः । शनैः शनैः समूहोऽयं अग्रेसृतः । जनान्दोलनत्वेन परिणतः । अपि चैतत्-कार्यार्थं श्रीमान् अफरोज-शाहः संयुक्त-राष्ट्र-संघस्य पर्यावरण-कार्यक्रमेण सबहु-मान-पुरस्सरं सम्मानितः पुरस्कृतश्च । Champions of the Earth Award - इति पुरस्कार-प्रापकेषु असौ प्रथमः भारतीयः सिद्धः । अहं श्रीमन्तम् अफरोजशाहम् अभिनन्दामि । आन्दोलनमिदं वर्धापयामि । अपि च, येन प्रकारेण लोक-संग्रह-रीत्या च सः अशेष-क्षेत्रस्य जनान् संयोज्य कार्यमेतत् जनान्दोलनत्वेन परिवर्तितवान्, एतत्तु स्वप्रकारकं प्रेरकम् उदाहरणं वर्तते ।
भ्रातरः भगिन्यः च ! अद्य अपरामेकां प्रसन्नतां भवद्भिः साकं संभक्तुं वाञ्छामि । ‘स्वच्छभारताभियान'स्य सन्दर्भे “रियासी-ब्लोक्-विषये वदामि । अहं सूचितः यत् रियासी-ब्लोक् इति open defecation free अर्थात् अनावृत-शौच-क्रिया-मुक्तम् अजायत । अहं रियासी-ब्लोक्-क्षेत्रस्य सर्वान् अपि नागरिकान् तत्रत्यान् प्रशासकान् च जम्मू-कश्मीरेण उत्तमम् उदाहरण स्थापितम् इति कृत्वा तान् सर्वान् वर्धापयामि । अहम् संसूचितः यत् अस्य आन्दोलनस्य सर्वाधिक-नेतृत्वं विहितं - जम्मूकश्मीरस्य तत्-क्षेत्रीय-महिलाभिः । ताभिः जागृति-प्रसारार्थं स्वयम् अग्नि-शिखा-यात्राः आयोजिताः । प्रति-गृहं प्रति-प्रतोली च गत्वा ताः जनान् प्रेरितवत्यः । एताः मातरः भगिन्यश्च मया हृदयेन अभिनन्द्रयन्ते । तत्रस्थाः प्रशासकाः अपि वर्धाप्यन्ते । ये हि जम्मू-कश्मीर-भूमौ ब्लोक्-इति क्षेत्रमेकं opendefecation free- इति अनावृत-शौच-क्रिया-मुक्तं कृत्वा उत्तमारम्भं विहितवन्तः ।
मम प्रियाः देशवासिनः ! विगतेभ्यः पञ्चदश-दिनेभ्यः वा एक-मासात् वा दैनिक-वार्तापत्रेषु, श्रव्य-वाहिकासु सामाजिक-संचार-माध्यमेषु च प्रवर्तमान-प्रशासनस्य वर्षत्रयस्य कार्यजातं समीक्ष्यते । वर्षत्रय-पूर्वं भवन्तः मह्यं प्रधान-सेवकस्य दायित्वं दत्तवन्तः । अनेकानि सर्वेक्षणानि विहितानि, बहुविधः च opinion pol|- इति अभिप्राय-संग्रहः जातः । अहं संपूर्णामपि प्रक्रियां सुतरां स्वस्थ-संकेत
9
रूपेण परिभावयामि । प्रत्येकमपि निकषत्वेन वर्ष-त्रयस्य कार्यकालः परीक्षिततः । समाजस्य प्रत्येकमपि वर्गस्य जनैः अस्य विश्लेषणं कृतम्, अथ च, लोकतन्त्रस्य एषास्ति - उत्तमा प्रक्रिया । स्पष्टतया चाहं स्वीकरोमि यत् लोकतन्त्रे प्रशासनानि उत्तरदायीनि स्यु । जनता-जनार्दनस्य सम्मुखं स्वीय-कार्याणां विवरणं उपस्थापनीयम् । अहं तेभ्यः सर्वेभ्यः साधुवादान् वितरामि, ये हि अस्माकं कार्याणि गंभीरतया समीक्षितवन्तः । कुत्रचित् प्रशंसा जाता, कुत्रचित् एतानि कार्याणि समर्थितानि, कुत्रचित् च न्यूनता प्रदर्शिता, एतेषां तथ्यानां महत्वम् अनुभवामि । तेभ्योऽपि साधुवादान् ददामि ये हि समीक्षात्मिकां महत्वाधायिनीं च प्रतिक्रियां प्रादुः । याः त्रुटयः भवन्ति, न्यूनताः वा सन्ति, ताः अपि यदा प्रकाशम् आनीयन्ते चेत् तासां परिष्कारस्य अवसरो लभ्यते । विषयो भवतु नाम समुचितः वा न्यून-समीचीनः वा अप्रियः, यो हि कश्चन अभवेत्, तस्मादेव शिक्षणीयं वर्तते । तदाधारेण एव अग्रेसरणीयम् | रचनात्मिका समीक्षा हि लोकतन्त्र संबलयति । प्रबुद्ध-राष्ट्रस्य कृते, चैतन्य-पूर्ण-राष्ट्रस्य कृते एतादृक्रमन्थनम् अतितराम् आवश्यकं भवति ।
मम प्रियाः देशवासिनः ! अहमपि भवतः इव एकः सामान्यः नागरिकोऽस्मि | तथा च, सामान्य-नागरिकत्वेन प्रत्येकमपि उचितानुचित-वस्तोः प्रभावः मयि अपि तादृशः एव भवति यथा कस्मिन्नपि सामान्यस्य नागरिकस्य मनसि अवति ।
“मनोगत”मिति कार्यक्रमं कश्चन एकपक्षीय-संवादत्वेन परिगणयति, केचन राजनीतिक-दृष्ट्या आरब्धम्, तदा मयापि नैव विचारितमासीत् यत् कार्यक्रमोऽयं मां भारतस्य प्रत्येकं कुटुम्बस्य सदस्यरूपेण परिचिन्हितं विधास्यति । एवं प्रतीयते यत् अहं परिवारे एव सहैव उपविश्य गृहवार्ता करोमि, अपि च नैक-सहस्रं कुटुम्बानि सन्ति यैः लिखित्वा एतत् विषय-वस्तु प्रेषितम् । तथा मया उक्तं - सामान्य-मानवरूपेण मम मनसि अपि एतत् प्रभवति, पुनः दिवस-द्वय-पूर्वं राष्ट्रपति-भवने आदरणीय: राष्ट्रपतिः, आदरणीयः उपराष्ट्रपतिः, आदरणीया लोकसभाध्यक्षा-महाभागा चेति। सवें अपि "मन की बात" इत्यस्य विश्लेषणात्मक-पुस्तकस्य समारोहं आयोजितवन्तः । सामान्य-व्यक्ति-रूपेण, सभाध्यक्ष-महोदयायें च कार्तज्यं निवेदयामि यदेते वरिष्ठ-पदासीना: सन्तोषोऽपि समयं निष्कास्य “मनकी बात” इत्यस्मै महत्वं प्रादुः । वस्तुतस्तु एवंप्रकारेण “मन की बात”- इत्यस्मै स्वयमेव नूतनम्
10
आयामं प्रदत्तवन्तः । मम कानिचन मित्राणि “मन की बात”- इति पुस्तकोपरि कार्यं कुर्वन्तः आसन्, तदा मया साकमपि चर्चा कृतवन्तः । किञ्चित्-काल-पूर्वं एषा चर्चा पुनः प्रकाशम् आगता, तदा अहं आश्चर्यम् अन्वभवम् यत् अबु-धाबी-वास्तव्यः चित्रकारः अकबर-महोदयः स्वीय-कला-माध्यमेन “मन की बात"-विषयोपरि रेखाचित्राणि निर्मीय प्रदातुं प्रास्तवीत् । अपि चैतदर्थ न किमपि रूप्यकं स्वीकृत्यैव स्वीय-प्रेमाभिव्यक्तये अकबर-महोदयः मनोगतस्य विषयं कलारूपेण ख्यापितवान् । अहं अकबरमहोदयस्य कार्तज्यम् आवहामि ।
मम प्रियाः देशवासिनः ! आगामिनि काले यदा वयं पुनः मेलिष्यामः तदा देशस्य प्रत्येकमपि कोणे वृष्टिः पतिता स्यात्, परीक्षाणां परिणामाः प्रकाशिताः सम्भवेयुः, नूतनारम्भत्वेन विद्या-जीवनस्य आरम्भः भवेत् तथा च, वृष्टि-पातेन सहैव अभिनवां सुरभिम्, नवीनं सुगन्धं चानुभविष्यामः ।
आगच्छन्तु ! वयं सर्वेऽपि अस्मिन् परिवेशे प्रकृतिं प्रति प्रेमाणं व्यक्तीकुर्वन्तः अग्रेसरामः । भवद्भ्यः सर्वेभ्यः मम भूरिशः हार्दिक्यः मङ्गल-कामनाः ! धन्यवादाः !!!

4 comments:

Anonymous said...

Outstanding work.. enjoyable read! Need more access to "day-to-day" Samskrita content like this!

Anonymous said...

I did not read any of your blogs but from your twitter account realised that you are part of that rare breed of people who call themselves liberal and are into sanatana dharma. I am very glad such people exist. Those who really understand what sanatana dharma stands for. Today we have either right wing fanatics who chant slokas without knowing or intending to live by them or the left wing liberals who are like headless chicken without any guiding principles. I wish you all the best and hope your tribe increases.

Regards,
Well wisher

गौतम said...

अन्यभाषाभिस्सह संस्कृतगिरापि प्रधानमन्त्रिण: मनोगतम् आगतमिति ज्ञात्वा सुतरां प्रसीदामि ।एतदर्थं यो महानुभावोत्र नियुक्त : ,सोभिनन्दनीय:।

Roopa said...

Mam I accidently entered this blog while searching for matrubhootam song amd lyrics as I was pregnant then and wanted to sing that song.What a treasure this blog is. Samskritam was my first language in school and in college. later I lost touch with this beautiful language. You have brought me back to my real interest.Thanks a lot.