Monday 28 August 2017

‘मन की बात’ “मनोगतम्” प्रसारण-तिथि:- 27.08.2017

मन की बात’ [35]
मनोगतम् [35]              (प्रसारण-तिथि:- 27.08.2017)
[“मन की बात”- मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                -भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर

मम प्रियाः देश-वासिनः !  
           सादरं  नमस्कारः |
         एकतः देशः उत्सवेषु व्यापृतः अस्ति अपरतः च, हिन्दुस्थानस्य कस्मादपि कोणात् यदा हिंसा-वार्ता आयाति तदा देशस्य चिन्ता स्वाभाविकी एव | अस्मदीयः देशः अयं बुद्ध-गान्धिनोः देशः वर्तते | देशस्य एकतायै प्राण-पाणेनापि प्रयत्नशीलस्य सरदार-पटेलस्य देशः अयं | नैक-सहस्र-वर्षेभ्यः अस्मदीयाः पूर्वजाः सार्वजनिक-जीवन-मूल्यानि अहिंसां समादरञ्च स्वीकृतवन्तः | अस्मदीयेषु अन्तर्मनस्सु एतत् संभृतं वर्तते | “अहिंसा परमो धर्मः” - सूत्रमिदं वयं बाल्यकालादेव शृण्वन्तः  कथयन्तः च स्मः | रक्तदुर्गस्य प्राचीरेभ्यः अपि अहं उक्तवान् यत् आस्था-नाम्ना विधीयमाना हिंसा न मनागपि सहिष्यते | भवतु नाम सा सांप्रदायिकी आस्था वा राजनीतिक-विचारधारां प्रति आस्था वा भवतु नाम व्यक्ति-विशेषं प्रत्यास्था, उताहो स्याद् वा परम्पराः प्रत्यास्था -  आस्था-व्याजेन न कश्चन विधिं स्वयत्तीकर्तुं अधिकृतः अस्ति | डॉ.बाबा-साहेब-अम्बेडकरः अस्मभ्यं संविधानं प्रादात्, एतस्मिन् सर्वोsपि जनः न्यायं प्राप्नुयादिति सर्वप्रकारेण  व्यवस्थापितमस्ति | अहं देशवासिनः विश्वासयितुं वाञ्छामि यत् विधिं स्वायतीकर्तुं प्रयतमानः वा हिंसा-मार्ग-निरतः दमनशीलः वा, कश्चन अपि भवतु नाम व्यक्तिविशेषः वा समूहः, नायं देशः तं सहिष्यते न वा कश्चन सर्वकारः | प्रत्येकमपि जनः विधेः समक्षं नत-मस्तकः स्यात् | विधिरेव तत् उत्तरदायित्वं निश्चेष्यति | तथा च, दोषिणो नूनं   दण्डयिष्यन्ते |
मम प्रियाः देशवासिनः !
      अस्माकं देशः विविधताभिः सम्भरितः अस्ति, एताः विविधताः पानाशनयोः वासावासयोः परिधानादिषु एव सीमिताः  नैव सन्ति | जीवनस्य प्रत्येकमपि व्यवहारे वैविध्यमिदं द्रष्टुं शक्यते | एतावद् एव नैव, अस्मदीयाः उत्सवाः अपि वैविध्य-पूर्णाः सन्ति | सहस्रेभ्यः अपि वर्षेभ्यः प्राचीनम् अस्मदीयं सांस्कृतिकं रिक्थम् अतः,  पश्यन्तु नाम,  एताः सांस्कृतिक-परम्पराः वा सामाजिक-परम्पराः, अवलोकयन्तु वा ऐतिहासिक-घटनाः| आवर्षं स्याद् कश्चन एव दिवसः अवशिष्टः यो हि अस्मदीयेन उत्सवेन सम्पृक्तो नास्ति ! भवन्तः एतदपि जानन्ति एव यद् अस्मदीयाः सर्वेsपि उत्सवाः, सर्वाणि अपि पर्वाणि, प्रकृतेः समय-पत्रकम् अनुसरन्ति | प्रकृत्या साक्षात् संबद्धानि सन्ति | एतेषु अधिसंख्यन्तु साक्षात् कृषकैः श्रमिकैः मत्स्यजीविभिः च संपृक्तानि सन्ति |
      अद्याहं यदा उत्सव-विषये मनोगतं प्रकटयामि तदा सर्व-प्रथमं भवतः सर्वान् “मिच्छामि दुक्कडम” वक्तुमिच्छामि | जैन-समाजे श्वः सम्वत्सरीयं पर्व आयोजयिष्यते | जैन-समाजः भाद्र-मासे पर्युषण-पर्व आमिनोति | पर्युषण-पर्वणः अन्तिमे दिने संवत्सरीयः दिवसो भवति | एषा नाम अद्भुता स्वयम्भूः परम्परा ! संवत्सरीयं पर्व क्षमायाः अहिंसायाः मित्रतायाः च प्रतीक-रूपम् | क्षमा-वाणी-पर्वेति अपरनाम्ना अपि एतत् निगद्यते | अस्मिन् दिने जनाः परस्परं “मिच्छामि दुक्कडम” इति वदन्ति इत्येषास्ति अस्मदीया परम्परा | अस्मदीयेषु शास्त्रेषु तु उक्तमेव- “क्षमा वीरस्य भूषणम् |” क्षमाशीलः वीरो भवति | एषा चर्चा अस्माभिः पूर्वं श्रुता एव, महात्म-गान्धी तु सर्वदैव कथयति स्म- क्षमाकरणन्तु बलिनो जनस्य वैशिष्ट्यं भवति |
              “The Merchant of Venice” - नाम्नि स्वीये नाटके शेक्सपियरः लिखति - “Mercy is twice blest, it blesseth him that gives and him that takes” अर्थात् क्षमाकर्ता क्षमितः चेति द्वयमपि भगवतः आशीर्वादम् अवाप्नोति |
        मम प्रियाः देशवासिनः ! साम्प्रतं हिन्दुस्थानस्य प्रत्येकमपि कोणे गणेश-चतुर्थी-समुत्सवस्य प्रगाढोत्साहः दरीदृश्यते | यदा च, गणेश-चतुर्थी सन्दर्भ्यते तदा सार्वजनिकस्य गणेशोत्सवस्य चर्चा स्वाभाविकी | सपादैक-शत-वर्षेभ्यः पूर्वं लोकमान्यः बाल-गङ्गाधर-तिलकः एनां परम्परां प्रवर्तितवान्, अपि च, सपादैक-शत-वर्षात्मकः कालः स्वाधीनता-प्राप्तेः प्राक्  स्वाधीनतायाः आन्दोलनस्य प्रतीकरूपः सञ्जातः तथा च, स्वाधीनता-प्राप्तेः अनन्तरं समाजिकयोः शिक्षा-चेतनयोः जागृतेः प्रतीकत्वेन प्रवर्तते | दश-दिवसात्मकं गणेश-चतुर्थी-महापर्व एकतायाः समतायाः शुचितायाः च प्रतीकमिति निगद्यते | सर्वेभ्योsपि देशवासिभ्यः गणेशोत्सवस्य भूरिशः मङ्गल-कामनाः |
     सम्प्रति केरळ-राज्ये “ओणम्”-उत्सवः आमान्यते | भारतस्य बहुविधेषु वार्णिकेषु प्रमुखेषु उत्सवेषु ‘ओणम्’ हि केरळस्य अन्यतमः समुत्सवः | पर्वेदं स्वस्य सामाजिकस्य सांस्कृतिकस्य च महत्वस्य कृते सुख्यातम् | ओणम्-पर्व केरळस्य समृद्धं सांस्कृतिकं रिक्थं प्रदर्शयति | एतच्च, समाजे प्रेम-सौहार्दयोः सन्देश-प्रदानेन सह जनानां मनस्सु नवीनम् उत्साहं नूतनाम् आशां अभिनवञ्च विश्वासं जागरयति | अपि च, अद्यत्वे तु अस्मदीयाः इमे उत्सवाः पर्यटकाणाम् अपि आकर्षण-कारणानि जायन्ते | व्यक्तिशो वदामि देशवासिनः यत् यथा गुजराते नवरात्रि-समुत्सवः बङ्गाले च दुर्गोत्सवः पर्यटनस्य आकर्षण-केन्द्रीभूते स्तः तद्वद् अस्मदीयाः सर्वेsपि उत्सवाः वैदेशिकान् आकर्षयितुं सम्यग्-अवसरत्वेन भवेयुः | अस्यां दिशि वयं किं किं कर्तुं प्रभवामः इति नूनं चिन्तनीयम् |
         अस्याम् उत्सव-शृङ्खलायां कतिपय-दिनानन्तरमेव अशेष-देशे ‘ईद्-उल्-ज़ुहा’-पर्व अपि आमन्स्यते | सर्वेषामपि देशवासिनां कृते ‘ईद्-उल्-ज़ुहा’-पर्वणि भूरि भूरि वर्धापनानि, भूरिशो मङ्गल-कामनाः च | उत्सवाः नाम अस्माकं कृते आस्था-विश्वासयोः प्रतीकत्वेन तु वर्तन्ते एव, नूतने भारते अस्माभिः एते उत्सवाः स्वच्छतायाः प्रतीक-रूपाः अपि करणीयाः सन्ति | कौटुम्बिक-जीवने तु एते उत्सवाः स्वच्छता च मिथः संपृक्ताः सन्ति | उत्सवानां पूर्व-सज्जता अर्थात् स्वच्छीकरणम् | नेदम् अस्माकं कृते किमपि नवीनम्, अभूतपूर्वं वा, परञ्चैतत् अनुष्ठानं सामाजिकस्वभावत्वेन अपि नूनं करणीयमवशिष्यते | सामाजिक- दृष्ट्या स्वच्छतायाः अयम् आग्रहः न केवलं गृहे एव, अस्मदीये सम्पूर्णेsपि ग्रामे. पूर्णेsपि पुरे, कृत्स्नेsपि नगरे, अस्मदीये अखिलेsपि राज्ये, समग्रेsपि अस्मदीये देशे स्वच्छता भवेत् | स्वच्छीकरणम् अवश्यम् उत्सवानाम् अभिन्नाङ्गत्वेन स्यात् |
           मम प्रियाः देशवासिनः ! आधुनिकीभवनस्य परिभाषाः सततं परिवर्तन्ते | एतेषु दिनेषु एकं नवीनं परिमाणं, नूतनं प्रमाणं च प्रवर्तते यत् भवान् कियान् संस्कारी ? कियान् आधुनिकः ? भवतः विचार-प्रक्रिया कियती आधुनिकी अस्ति ? एतत् सर्वम् अवगन्तुम् एकः निकषः अपि व्यवह्रियते अपि च सः वर्तते यत् भवान् पर्यावरणं प्रति कियान् जागरूकः इति ? भवतः स्वकीयेषु क्रियाकलापेषु echo-frendly वा environment-friendly इति परिवेशानुकूलः वा पर्यावरणानुकूलः व्यवहारः अस्ति वा तत्-प्रतिकूलः ? समाजे साम्प्रतं एतत्-प्रतिकूल-व्यवहारः अनुचितः परिगण्यते | अस्य परिणामं साम्प्रतं पश्यामि यत् एतद्दिनेषु गणेशोत्सवे अपि परिवेशानुकूलः गणपतिः विरच्यते, मन्ये यत् बृहदेकम् अभियानं प्रवर्त्यते | यदि भवान् YouTub - इत्यत्र गत्वा अवलोकयिष्यन्ति चेत्, प्रत्येकमपि गृहे बालाः गणेशं विरचयन्ति, मृत्तिकामादाय गजाननं निर्मान्ति | ताः आकृतीः वर्णैः रञ्जयन्ति | कश्चन वानस्पतिकैः रङ्गैः ताः लेपयति, कश्चन तासु कर्गद-शकलानि श्लेषयति | विविधाः प्रयोगाः प्रतिगृहं भवन्ति | प्रकारान्तरेण, गणेशोत्सवेsस्मिन् पर्यावरण-चेतनतायाः बृहद् व्यापकञ्च प्रशिक्षणम् अवलोकयितुं शक्यते, पूर्वं कदाचिदेव तत् दृष्टं स्यात् ? सञ्चार-माध्यमानि अपि, परिवेशानुकूलाः गणेश-प्रतिमाः विरचयितुं जनान् व्यापकतया प्रशिक्षयन्ति, प्रेरयन्ति निर्दिशन्ति च | पश्यन्तु, कियत् बृहत् परिवर्तनं सञ्जातम् | अपि चैतत् सुखदं वर्तते | यथा मया पूर्वं कथितं - देशोsयं कोटि-कोटिभिः तेजस्वि-प्रतिभाभिः अपि  संभरितः अस्ति | सुखमनुभूयते यदा कश्चन अभूत-पूर्वान् नवाचारान् प्रकल्पयति | कश्चन माम् असूचयत् यत् कुत्रचित् कश्चन सज्जनः स्वयम् अभियन्ता सन्नपि सः विशिष्ट-प्रकारिकां मृत्तिकां समाहृत्य तां संयोज्य गणेश-रचनायाः प्रशिक्षणं जनेभ्यः प्रददाति | अपि च, एकस्यां लघु-जलद्रोण्यां गणेश-मूर्ति-विसर्जनं विधीयते | तस्यामेव जल-द्रोण्यां गणेश-मूर्तिः स्थाप्यते, द्रुतमेव च, जलेन मिश्रीयते | नैतावता अलम् , तेन जल-द्रोण्यां वृन्दा-पादपः वा अन्ये पादपाः अपि रोपिताः | वर्ष-त्रय-पूर्वं यदा स्वच्छतायाः अभियानम् आरब्धम्, ओक्टोबर-मासे द्वितीये दिनाङ्के, ततः परम् ऐषमः वर्ष-त्रयं पूर्णं भविता, तथा चास्य अभियानस्य सकारात्मकानि परिणामानि आलोक्यन्ते | प्रतिशतं ऊनचत्वारिन्शततः प्रायेण प्रतिशतं सप्त-षष्टि-मितं शौचालयानां निर्माणलक्ष्यं पूर्णम् अजायत | अधुनावधि त्रिन्शत्-सहस्रोत्तर-द्विलक्षमिताधिकाः ग्रामाः अनावृत-शौचाचरणात् आत्मानं मुक्तान् घोषितवन्तः |
        विगतेषु दिनेषु गुजराते भीकरः जलोपप्लवः संमुखीकृतः | अनेके जनाः विगत-प्राणाः जाताः परञ्च जल-पूरस्य अनन्तरं यदा जल-प्रवाहः न्यूनीभूतः तदा सर्वत्र अतितराम् मालिन्यम् अस्वच्छता च समेधिते जाते | एतादृश्यां स्थितौ गुजरातस्य बनासकान्ठा-जनपदे धानेरा-स्थानस्य जमीयत-उलेमा-ए-हिन्दस्य कार्यकर्तारः पूर-प्रभावितानां द्वाविन्शतेः मन्दिराणां त्रयाणां मस्जिदानां च चरण-बद्ध-पद्धत्या स्वच्छताम् अकुर्वन् | सर्वेsपि एते स्वीय-प्रस्वेद-प्रस्रवण-पुरस्सरं सन्नद्धाः सन्तः कार्येsस्मिन् संलग्नाः सञ्जाताः | स्वच्छतायाः कृते एकतायाः अमुना उत्तमोत्तमेन उदाहरणेन प्रत्येकमपि जनः प्रेरितो भवति | जमीयत-उलेमा-ए-हिन्दस्य कार्यकर्तारः उदाहरणमेनत् प्रतिष्ठापितवन्तः | स्वच्छतायै समर्पण-भावेन विहितः प्रयासः यदि अस्मदीयः स्थायी स्वभावः भवेत् चेत् राष्ट्रस्य परमोत्तमा समुन्नतिः अवश्यंभाविनी भविता |                            
        मम प्रियाः देशवासिनः ! सर्वान् भवतः आह्वयामि यत् पुनरेकवारं ओक्टोबर-मासीयात् द्वितीय-दिनात् अर्थात् गान्धि-जयन्त्याः पञ्चदश वा विन्शति-दिनेभ्यः प्रागेव “स्वच्छता एव सेवा” इति अभियानमेकं प्रवर्तयेम ! यथा पूर्वं कथ्यते स्म “जलसेवा एव प्रभुसेवा”, “स्वच्छता एव सेवा” तद्वद् | समग्रेsपि देशे स्वच्छतायाः परिवेशं जनयेम ! यथावसरं यत्रावसरान् लभामहे, वयं समुचितावसरान् मृगयेम, परमार्थेन वयं संयुताः भवेम ! दीपावल्ल्याः सज्जैषा इति मन्येमहि उताहो नवरात्रस्य सन्नद्धता वा दुर्गापूजायाः उपकल्पनमिति | श्रमदानं कुर्याम ! अवकाश-दिने वा रविवासरे सम्भूय कार्याणि कुर्याम ! परिपार्श्व-वर्तिनीः वसतीः गच्छेम ! समीपवर्तिनः ग्रामान् गच्छेम ! परञ्च आन्दोलनत्वेन कार्याणि कुर्याम ! अहं सर्वान् अपि विद्यालयान्, महाविद्यालयान्, प्रशासनस्य अधिकारिणः, कर-समाहर्तॄन्  सरपञ्चान्, सर्वाणि प्रशासनेतर-संघटनानि, सामाजिकं सांस्कृतिकं राजनीतिकञ्च नेतृत्वं साग्रहं कथयामि यत् ओक्टोबर-मासीयात् द्वितीय-दिनात् अर्थात् गान्धि-जन्म-जयन्त्याः पञ्चदश-दिनेभ्यः प्रागेव वयं स्वच्छतायाः तादृशं परिवेशं विरचयेम, तादृशीं स्वच्छतां कुर्याम, यत् ओक्टोबर-मासीयः द्वितीय-दिवसः  यथार्थ-भावेन  गान्धि-महात्मनः ओक्टोबरमासीया द्वितीया तिथिः भवेत् |  पेयजल-स्वच्छता-मन्त्रालयः MyGov.in - इत्यत्र एकं प्रभागं निर्मितवान् यत्र शौचालय-निर्माणानन्तरं भवन्तः स्वीयं, तस्य कुटुम्बस्य च नामनी प्रवेशयितुं शक्नुवन्ति यस्मै भवन्तः साहाय्यम् अकुर्वन् | मम सामाजिक-सञ्चार-माध्यमानां मित्राणि अपि किञ्चित् रचनात्मकम् अभियानं प्रचालयितुं शक्नुवन्ति | तथा च, virtual world - इति वैद्युदाणविक-जगतः कार्यं धरातलेsपि भवेत् इत्यस्य प्रेरणां प्रसारयितुम् अर्हन्ति | पेयजल-स्वच्छता-मन्त्रालयेन प्रवर्त्यमाने स्वच्छ-संकल्पतः स्वच्छ-सिद्धि-स्पर्धा- इत्यभियाने निबन्ध-स्पर्धा, लघु-चलचित्र-निर्माण-स्पर्धा, चित्रकला-स्पर्धा चायोज्यन्ते | एतदर्थं भवन्तः विभिन्नासु भाषासु निबन्धान् लेखितुमर्हन्ति | एतदर्थं आयुषः प्रतिबन्धः नास्ति | भवन्तः लघु-चलचित्रं निर्मातुं शक्नुवन्ति | स्वीयेन जङ्गम-दूरभाषेण निर्मातुमर्हन्ति | मिनिट्-द्वयस्य मिनिट्-त्रयस्य वा चलचित्रं रचयितुं शक्नुवन्ति यद्धि स्वच्छतायै प्रेरकं भवेत् | एतत्तु कस्यामपि भाषायां निर्मातुं शक्यते, मूकमपि भवेत्, आसु स्पर्धासु ये प्रतिभागित्वं निर्वक्ष्यन्ति तेषु सर्वोत्तमं जन-त्रयं चेष्यते, जनपद-स्तरे त्रयः राज्य-स्तरे च त्रयः - एतेभ्यः पुरस्काराः प्रदास्यन्ते | अतः अहं प्रत्येकमपि जनं निमन्त्रयामि यत् आगच्छन्तु ! स्वच्छतायाः अभियानस्य एतादृशेन प्रकल्पेनापि आत्मानं संयोजयन्तु |
       भूयोsपि एकवारं कथयितुमिच्छामि यत् ऐषमः गान्धि-जयन्तीं “स्वच्छ-द्वितीय-ओक्टोबर” - रूपेण आयोजयितुं संकल्पयेम ! एतदर्थञ्च सेप्टेम्बर-मासस्य पञ्चदश-दिनादेव “स्वच्छता एव सेवा” - इति मन्त्रं प्रतिगृहं प्रापयेम ! स्वच्छतायै कमपि कमपि समुपायं विदध्म ! स्वयं परिश्रम्य अस्य सहभागिनः भवेम ! भवन्तः अवलोकयन्तु ! गान्धि-जयन्त्याः ओक्टोबर-मासीया द्वितीया तिथिः कियती प्रशस्ता भविता ? भवन्तः कल्पयितुं शक्नुवन्ति यत् पञ्चदश-दिवसीयायाः स्वच्छतायाः एतदभियानस्य अनन्तरम्, “स्वच्छता एव सेवा” - इत्यस्य अनन्तरं ओक्टोबरे द्वितीय-दिने यदा वयं गान्धि-जयन्तीम् आयोजयिष्यामः, तदा पूज्याय बापू-वर्याय श्रद्धाञ्जलि-प्रदानावसरे वयं कियन्तं पवित्रम् आनन्द-सन्दोहम् अनुभविष्यामः ! 
         मम प्रियाः देशवासिनः ! अद्याहं विशेष-रूपेण भवतां सर्वेषाम् आधमर्ण्यं स्वीकर्तुं वाञ्छामि | हृदयस्य अन्तस्तलतः भवतां सर्वेषामपि कृते कार्तज्ञ्यं प्रकटयितुं समीहे | सुदीर्घ-कालं यावत् भवन्तः “मन की बात” इत्यनेन संयुताः स्थिताः इति कृत्वा नैव अपि तु, अमुना कार्यक्रमेण सार्धमेव अशेष-देशस्य प्रत्येकमपि कोणात् लक्षशो जनाः संयुताः भवन्ति इति कृत्वा साधुवादान् वितरामि | श्रोतारस्तु कोटिशो वर्तन्ते परन्तु लक्षशो जनाः कदाचित् मां पत्राणि लिखन्ति, कदाचित् सन्दिशन्ति, कदाचित् दूरभाषेण सन्देशं प्रेषयन्ति, एतत्-सर्वं मम कृते बृहत्-निधि-रूपं वर्तते | देशवासिनां मनान्सि अवगन्तुं कार्यक्रमोsयं मम कृते महान् अवसरत्वेन उपस्थितोsस्ति | भवन्तः “मन की बात” इत्यस्य यावतीं प्रतीक्षां कुर्वन्ति, ततोsप्यधिकतया भवतां संदेशान् अहं प्रतीक्षे | लालायितो भवामि यतो हि भवतां प्रत्येकमपि प्रतिभावेन आत्मानं शिक्षयितुं प्रभवामि | यत् किमपि करोमि तस्य परीक्षायै अवसरो लभ्यते | अनेकान् विषयान् नूतन-रीत्या विचारयितुं भवतां लघु-लघु-विचाराः अपि मम कृते सहायिनो भवन्ति, अत एव भवतामस्मै योगदानाय आभारं प्रकटयामि | सदाहं प्रयते यत् भवद्भिः प्रेषितान् विचारान् सन्देशान् च स्वयमेव पश्यानि, आकर्णयानि, पठानि, अवगच्छानि च | अधुना पश्यन्तु ! अमुना दूरभाष-सन्देशेन साकं भवन्तोsपि आत्मानं संयोक्तुं प्रभविष्यन्ति | भवन्तः अपि अनुभविष्यन्ति यत् अहो ! मयापि कदाचित् एतादृशी त्रुटिः आचरिता इति | कदाचित्तु कानिचित् वस्तूनि अस्माकं चरित्रस्य तादृन्शि अभिन्नाङ्गानि भवन्ति यत् किमपि अनुचितमाचरामः इति न मनागपि अनुभवामः |                                                                                   
      “प्रधानमन्त्रि-महोदय ! अहं पुणेतः अपर्णा वदामि | अहं मम सख्याः विषये किमपि कथयितुमिच्छामि | सा सर्वदैव परेषां साहाय्यार्थं प्रयतते | परञ्च, तस्याः एकां रीतिं दृष्ट्वा अहं प्रतोदिता भवामि | एकदाहं तया साकं वस्तु-क्रयणार्थं मोल-इति विपणीं गतवती | शाटिकायाः कृते सा अञ्जसा द्विसहस्रं रूप्यकाणि व्ययीकृतवती, तथा च, पीज़ा-क्रयणार्थं सार्ध-चतुःशतं रूप्यकाणि प्रादात् | परञ्च विपणीं गन्तुं तया यत् ओटो-यानं स्वीकृतम्, केवलं पञ्च-रूप्यकाणां व्यवकलनार्थं ओटो-चालकेन साकं सा सुदीर्घं विनिमयं विवादञ्च कृतवती | प्रत्यागमने मध्येमार्गं सा शाकादीन् क्रीतवती, तथा च, प्रत्येकमपि शाकस्य मूल्योपरि पुनः चत्वारि वा पञ्च रूप्यकाणि न्यूनीकृत्य प्रादात् | अहम् अतीव दुःखम् अनुभवामि | वयं बहुषु स्थानेषु विनैव वारमपि पृष्ट्वा बृहन्मात्रिकं प्रदेयं कुर्मः, तथा च, अल्पमात्रिकाय मूल्याय श्रमशीलैः अस्मदीयैः भगिनी-भ्रातृभिः साकं कलहं कुर्मः | तेषु नैव विश्वसिमः | भवान् स्वीये “मन की बात” इत्यत्र अवश्यं विषयमेनम् उपस्थापयतु !”
    साम्प्रतम् इमां दूरभाषाकारणां श्रुत्वा भवन्तः नूनं चकिताः जाताः स्युः - इति दृढतया विश्वसिमि, सम्भवेत् इतः परमेवं  नैवं व्यवहर्तुं निश्चितवन्तः वा ? किं भवन्तः नानुभवन्ति यत् अस्मदीयानां गृहाणां पार्श्वे यदा कश्चन शाक-विक्रेता आगच्छति तदा मूल्यम् अपचाययितुं प्रयतामहे - सः भवेत् वा लघुः आपणिकः वा ओटो-यानचालकः वा परिभ्रम्य वस्तु-विक्रयण-शीलः श्रमजीवी वा कश्चित् - वयं साग्रहं रूप्यक-द्वयात्मकम् रूप्यकात्मकं वा वस्तु-मूल्यम् अपचाययितुं प्रारभामहे | अपि च, कञ्चित् स्वल्पाहार-गृहं गत्वा प्रदेय-पत्रके किं लिखितम् इति अदृष्ट्वैव झटिति धनराशिं प्रदद्मः | केनचिदपि निर्धनेन साकं सम्बन्धो भवति तदैव मूल्य-न्यूनीकरणार्थं वदामः | अमुना व्यवहारेण निर्धनस्य मनसि किं किं जायते इति कदाचिद् विचारितं वा भवद्भिः ? सः आहतो भवति ! असौ निर्धनः इति कृत्वा तस्य प्रामाणिकता संदिह्यते | रूप्यक-द्वयेन रूप्यक-पञ्चकेन वा भवतां जीवने न किञ्चित् नैयून्यं भविष्यति | अस्मदीया लघ्वी अपि एषा रीतिः कियती आघात-कारिका भवति - इति न कदाचित् परिशीलितं स्यात् | महोदये ! भवत्याः कार्तज्ञ्यम् आवहामि यत् दूरभाष-सन्देशेन मह्यं मार्मिकं हृदय-स्पर्शकरञ्च सन्देशं प्राहिणोत् | अहं दृढं विश्वसिमि यन्मम देशवासिनः अपि यदि निर्धनेन साकं एतादृक्-व्यवहारस्य अभ्यासं धारयन्ति चेत्, ते नूनं तं परित्यक्ष्यन्ति |
     मम प्रियाः नवयुवानः सखायः ! ओगस्ट-मासस्य ऊन-त्रिन्शत्तमः दिवसः खेल-दिवसत्वेन आमान्यते | दिवसोsयं महतः सुख्यातस्य होकी-क्रीडायाः कुशल-क्रीडकस्य मेज़र्-ध्यान-चन्दस्य जन्म-दिनत्वेन विराजते | होकी-क्रीडायै तेनानुष्ठितं योगदानम् अनुपमम् अतुलनीयञ्च वर्तते | तथ्यमिदम् एतस्मात् कारणादेव स्मारयामि यत् अस्मदीयस्य देशस्य नूतना संततिः क्रीडाभिः साकम् आत्मानं संयोजयेयुः | यदि वयं जगति युव-राष्ट्र-रूपेण स्मः चेत् अस्मदीया एषा तरुणता, क्रीडा-क्षेत्रेषु अपि दृष्टिपथम् आगता भवेत् | क्रीडा अर्थात् शारीरिकी औचिती, मानसिकी जागृतिः, व्यक्तित्व-संवर्धनम् चेत्यादि | अवगच्छामि यत् इतः परमपि किं स्यात् ? खेला नाम हृदय-संयोजिका औषधीः | अस्मदीयो युव-वंशः क्रीडा-जगति अग्रगामी भवेत् | अद्यतने संगणक-युगे नूनं प्रबोधयितुं वाञ्छामि यत् play-station - इत्यस्य अपेक्षया playing field - इत्येव महत्वपूर्णम् | संगणकोपरि FIFA- इति नूनं क्रीडन्तु, परञ्च कदाचित् बहिर्निर्गत्य क्रीडाङ्गणे पाद-कन्दुकेन सहापि कौतुक-पुरस्सरं  खेलन्तु ! संगणकोपरि क्रिकेट-खेलनं कुर्वन्ति नाम, परञ्च अनावृते क्रीडा-स्थले अपि, नभसः नीचैः अपि क्रिकेट-क्रीडायाः आनन्दः नूनं पृथगेव भवति | कदाचित् पूर्वं तादृशः कालः आसीत्, यदा कुटुम्बस्य बालाः बहिर्गच्छन्ति स्म तदा जननी प्रथमं पृच्छति स्म यत् त्वं कदा प्रत्यागमिष्यसि ? साम्प्रतं स्थितिः तादृशी संजातास्ति यत् बालाः गृहं प्रत्यागताः सन्तः एव एकस्मिन् कोणे स्थिताः cartoon-चलचित्र-विलोकने वा जङ्गम-दूरभाष-क्रीडासु वा व्यापृताः भवन्ति | तदा जननी सचीत्कारं कथयितुं विवशा भवति यत् - त्वं बहिः कदा गमिष्यसि ?  कालानुसारिणी कथेयम् यत् कदाचित् जननी बालान् पृच्छति स्म यत् कदा प्रत्यागमिष्यसि ? सम्प्रति तु पुत्र ! बहिः कदा गमिष्यसि ? इति कथयितुं विवशास्ति जननी |   
    नव-युवानः सखायः ! खेल-मन्त्रालयेन खेल-प्रतिभानाम् अन्वेषणार्थं परिष्करणार्थं च, क्रीडा-प्रतिभान्वेषण-पोर्टल - इति अन्तर्जालीय-द्वारं संनद्धीकृतम् यत्र अशेष-देशस्य कस्मादपि भागात् प्रतिभाशाली क्रीडकः अत्र स्वीयं विवरणं वा दृश्य-मुद्रिकां स्थापयितुमर्हति | चितेभ्यः उदीयमानेभ्यः क्रीडकेभ्यः खेल-मन्त्रालयः प्रशिक्षणं प्रदास्यति, अपि च मन्त्रालयः श्वः एव एतद् -अन्तर्जालीय-वाहिकां प्रवर्तयिष्यति | अस्माकं यूनां कृते तु इयं प्रसन्नता-प्रदायिनी वार्ता यत् भारते ओक्टोबर-मासे षड्-तः अष्टाविंशति-तमदिनं यावत् ऊन-सप्तदश-वर्ष-वयोजुषां क्रीडकानां FIFA - विश्व-चषक-स्पर्धाः आयोजयिष्यन्ते | अशेष-जगतः चतुर्विंशतिः क्रीडक-दलानि भारतम् आगमिष्यन्ति |
   आगच्छन्तु ! जगतः विभिन्न-भागेभ्यः आगम्यमानानां अस्मदीयानां युवातिथीनां खेलोत्सवेनैव सार्धं स्वागतं व्याहरेम, क्रीडानन्दम् अनुभवेम, राष्ट्रे च परिवेशं विरचयेम !  यदा अहं खेल-चर्चां करोमि, स्मरामि च यत् विगते सप्ताहे मार्मिकी एका घटना घटिता | तस्याः विषये देशवासिनः सूचयितुं वाञ्छामि | अत्यल्पायुष्मतीनां बालानां गणेन सह मेलनस्य अवसरो मया लब्धः | तासु काश्चन तु हिमालये जाताः सन्ति | समुद्र-विषयकः न कश्चनापि अनुभवः तासाम् |  अस्मद्देशस्य एतादृश्यः षट् पुत्रिकाः याः हि नौ-सेनायां नियुक्ताः सन्ति, तासाम् उत्साहः, तासां भावः च अस्मान् सर्वान् बलात् प्रेरयतः | एताः षट् पुत्रिकाः INS - तारिणीं नीत्वा समुद्रम् लंघयितुं निर्गमिष्यन्ति | अस्याभियानस्य नामास्ति- “नाविका-सागर-परिक्रमा” अपि चैताः अशेष-विश्व-भ्रमणं कृत्वा अनेक-मासानन्तरं भारतं प्रत्यागमिष्यन्ति | कदाचित् अनारतं चत्वारिंशद्दिनानि जलेषु एव यापयिष्यन्ति, कदाचिच्च अनारतं त्रिंशद्दिनानि वा सलिलेषु एव निर्यापयिष्यन्ति | सामुद्रिकेषु तरङ्गेषु ससाहसं रममाणाः अस्मदीयाः भारतीयाः षट् पुत्रिकाः ! विश्वस्य प्रप्रथमेयं घटना भविता | को नाम न भवेत् हिन्दुस्थानी यो हि आसां भारतीय-पुत्रिकाणां कृते गौरवं नानुभवेत् | अहमासां पुत्रिकाणां साहसम् अदम्योत्साहञ्च अभिनन्दामि | अहं ताः अकथयम् यत् ताः स्वीयानुभवान् अशेष-देशवासिभिः साकं वितरेयुः | अहमपि NarendraModiApp- इत्यत्र तासाम् अनुभवानां कृते पृथक्तया व्यवस्थापयिष्यामि येन भवन्तः तान् नूनं पठितुं शक्ष्यन्ति | यतो हि एषास्ति साहस-कथा, स्वानुभव-कथा, अपि चाहं प्रसन्नताम् अनुभविष्यामि यदि आसां पुत्रिकाणाम् अनुभवान् भवतः यावत् प्रापयिष्यामि | मामकीनाभ्यः आभ्यः पुत्रिकाभ्यः भूरिशो मङ्गल-कामनाः, हार्दिकीञ्च आशिराशिं वितरामि |
    मम प्रियाः देशवासिनः ! सेप्टेम्बर-मासे पञ्चमे दिने वयं शिक्षक-दिवसम् आयोजयामः | अस्माकं देशस्य प्राक्तन-राष्ट्रपतेः डॉ.राधाकृष्णन्-महोदयस्य जन्मदिवसः अयं | असौ राष्ट्रपतिः आसीत् परञ्च आजीवनं असौ आत्मानं शिक्षक-रूपेण एव उपास्थापयत् | सः शिक्षां प्रति समर्पितः आसीत् | सः अध्येता, राजनयिकः भारतस्य च राष्ट्रपतिः परञ्च प्रतिक्षणं जीवन्नेव शिक्षकः | तस्मै सादरम् नमामि | महान् वैज्ञानिकः  अल्बर्ट आइंस्टीनः अकथयत यत् - It is the supreme art of the teacher to awaken joy in creative expression and knowledge.”  स्वीयेषु विद्यार्थिषु सृजनात्मक-भावस्य ज्ञानस्य चानन्दस्य जागरणम्  एव शिक्षकस्य महत्वपूर्णं कार्यं | ऐषमः यदा वयं शिक्षक-दिवसं आयोजयिष्यामः तदा किं वयं सर्वे मिलित्वा संकल्पयितुं शक्नुमः ?  सोत्साहं अभियानमेकं प्रवर्तयितुं शक्नुमः ? अमुना संकल्पेन साकं विषयमेनम् अग्रेसारयितुं अर्हिष्यामः | प्रत्येकमपि जनं पञ्च-वर्षार्थं संकल्पेन बध्नामः, तं संकल्पं साधयितुं मार्गदर्शनं कुर्मः, पञ्च-वर्षाणि यावत् असौ नूनं तत् प्राप्नुयादिति प्रयतेम ! जीवने सलतायाः आनन्दं प्राप्नुमः | एतादृशं परिवेशं अस्मदी- याः विद्यालयाः, अस्माकीनाः महाविद्यालयाः, अस्मदीयाः शिक्षकाः अस्माकीनानि च शिक्षा-संस्थानानि कर्तुं प्रभवन्ति | अस्मदीये देशे यदा वयं रूपान्तरणस्य विषयं उपस्थापयमः, तदा यथा कुटुम्बे मातुः स्मरणं भवति तद्वद् समाजे शिक्षकस्य स्मरणं भवति | यदि वयं सम्भूय प्रयतामहे चेत् तदा, राष्ट्रस्य रूपान्तरणे महत्वाधायिनीं भूमिकां निर्वक्ष्यामः | आगच्छन्तु !  मन्त्रमेनं स्वीकृत्य अग्रेसरामः |    
       “प्रणमामि प्रधानमन्त्रि-महोदय !  मम नामास्ति डॉ.अनन्या अवस्थी, अहं मुम्बई-निवासिनी अस्मि | अपि च, Howard -विश्वविद्यालये India Research Centre-इत्यत्र कार्यं करोमि | अनुसन्धानार्थिरूपेण मम रुचिः वित्तीय-समावेशे वर्तते | एतत्-सम्बद्धानां सामाजिक-परियोजनानां विषये भवन्तं प्रष्टुं इच्छामि यत् वर्ष-त्रय-पूर्वं जन-धन-योजना प्रवर्तिता आसीत् |  किं भवान् इदं कथयितुं शक्नोति यत् वर्ष-त्रयानन्तरं भारतं समधिकं क्षमम्, समधिकं संरक्षितं च वर्तते ? किं एतद्विषयकाणि सौविध्यानि अस्मदीयाभ्यः महिलाभ्यः कृषकेभ्यः श्रमिकेभ्यः च प्राप्तानि वा ?,  धन्यवादः |                                                              
         मम प्रियाः देश-वासिनः ! प्रधान-मन्त्रि-जन-धन-योजना वित्तीय-समावेशः चेत्यादि-विषयाः न केवलं भारते कृत्स्ने अपि जगति आर्थिक-जगतः पण्डितानां चर्चा-पदवीं भजन्ते | वर्ष-त्रय-पूर्वं ओगस्ट-मासे अष्टाविंशतितमे दिने स्वप्नमेकं आधृत्य अभियानमिदं प्रवर्तितमासीत् | श्वः प्रधान-मन्त्रि-जन-धन-योजनायाः वर्ष-त्रयं पूर्णतां उपैति | त्रिंशत्-कोटिमितानि नूतनानि कुटुम्बानि अमुना साकं संयोजितानि | बैङ्क-लेखाः च समुद्घाटि- ताः | अद्याहं समादधामि यत् वर्ष-त्रयाभ्यन्तरमेव समाजस्य अन्तिम- पङ्क्तिस्थः जनः, मम निर्धनः भ्राता, देशस्य अर्थव्यवस्थायाः मूलधारायाः अङ्गत्वेन प्रतिष्ठितो जातः | शनैः शनै सः अपि अनुभवति यत् धनं सञ्चितं चेत्, संततेः कार्यार्थम् उपयोक्तुं शक्ष्यते | साम्प्रतं संयमस्य परिवेशः विरचितः अस्ति | यः निर्धनः स्वीये कोशे RuPay Card - इति धन-पत्रकम् धारयति, तदा सः धनिकैः सह आत्मानं तूलयितुमर्हति | प्रधान-मन्त्रि-जन-धन-योजनायां निर्धन-द्वारा प्रायेण पञ्च-षष्टि-सहस्र-कोटिमितानि रूप्यकाणि बैङ्केषु सञ्चितानि | प्रधानमन्त्रि-जीवन- ज्योतिः-आगोप-योजना, ‘प्रधानमन्त्रि-सुरक्षागोप-योजना’ - चेत्यत्र एक-रूप्यकं त्रिंशत्-रूप्यकाणि चेति लघुराशिः अद्यत्वे निर्धनानां जीवने नवीनं विश्वासं उत्पादयति | अनेकेषु कुटुम्बेषु एकरूप्यकस्य आगोप-करणात आगते सति संकटे कतिपय-दिनेषु  एव तस्मै कुटुम्बाय द्वि-लक्ष-रूप्यकाणि प्रापितानि |
    प्रधानमन्त्रि-मुद्रा-योजना, ‘Start Up योजना’, ‘Stand Up योजना’ - चेत्यादिषु कश्चन दलितः भवेत् वा आदिवासी, काचन  महिला वा साक्षरः युवा उताहो आत्मनिर्भतायै प्रयतमानो युवकः, कोटि-कोटि-नवयुवकाः ‘प्रधानमन्त्रि-मुद्रा-योजनया बैंकभ्यः विनैव प्रत्याभूतिं धनं प्राप्तवन्तः | ते स्वयमपि आत्मनिर्भरत्वं प्राप्तवन्तः | प्रत्येकमपि एकस्मै वा द्वाभ्यां वा वृत्ति-प्रदानार्थं प्रायतत | एतादृशानि शताधिकानि उदाहरणानि सन्ति | भवत्-पर्यन्तं प्रापयितुमहं सर्वात्मना प्रयतिष्ये, अपि च सञ्चार-माध्यमानि अपि एतेषां जनानां साक्षात्कारादिकं विधाय नूतनान्  युव-जनान् प्रेरयितुं शक्नुवन्ति |
      मम प्रियाः देशवासिनः ! पुनरेकवारं भवतां कृते मिच्छामि दुक्कडम्....     भूरि भूरि साधुवादाः .....   !!!

+++         +++++      +++++    +++++++                    

डॉ.बलदेवानन्द-सागरः                              

Wednesday 9 August 2017

‘मन की बात’ “मनोगतम्” प्रसारण-तिथि:- 30.07.2017

मन की बात’  मनोगतम् प्रसारण-तिथि:- 30.07.2017

[“मनोगतम्” - इतिमन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                     -    भाषान्तर-कर्ता -  बलदेवानन्द सागर

मम प्रियाः देश-वासिनः !

            नमस्कारः | मानवस्य मनः एव तादृशं यदस्मै वर्षाकालः रोचते | कालोsयम् अतितरां रमणीयः | पशु-पक्षि-पादप-वृक्ष-प्रकृति-इति प्रत्येकमपि वर्षायाः आगमनेन प्रफुल्लताम् अनुभवति | परञ्च कदाचित् यदा प्रकृतिः विकरालं रूपं धत्ते तदा अनुभवामः यत् जलस्य विनाश-शक्तिः कियती बलवत्तरा भवति ? प्रकृतिः अस्मभ्यं जीवनं ददाति, पालयति च, परञ्च कदाचित् जलपूर-भूकम्प-सदृशीभिः प्राकृतिकापद्भिः सह अस्याः भीषणं स्वरूपं बहु विनाशकारि भवति | परिवर्तमाने ऋतु-चक्रे पर्यावरणे च यत् किमपि परिवर्तते, तस्य बृहत्तरः नकारात्मकः प्रभावः अपि सञ्जायते | विगतेभ्यः कतिपय-दिनेभ्यः भारतस्य केषुचित् भागेषु, विशेषेण असमोत्तरपूर्व-गुजरात-राजस्थान-बङ्गालेषु अतिवृष्टि-कारणात् प्राकृतिकापदः सम्मुखीक्रियन्ते | जलपूर-प्रभावितानां क्षेत्राणां पूर्णम् अवेक्षणं विधीयते | व्यापक-स्तरेण साहाय्य-कार्याणि अनुष्ठीयन्ते | यत्र शक्यमस्ति तत्र मन्त्रि-परिषदः मम सहकर्मिणः अपि यान्ति | राज्य-प्रशासनानि अपि स्व-स्व-पद्धत्या पूर-प्रपीडितानां साहाय्यार्थं समग्रतया प्रयतन्ते | सामाजिक-संघटनानि अपि, सांस्कृतिक-संघटनानि अपि, सेवाभावेन कार्य-निरताः नागरिकाः अपि, एतादृशीषु स्थितिषु जनेभ्यः साहाय्यं प्रापयितुं

सर्वात्मना प्रयतन्ते | भारत-प्रशासन-पक्षतः स्थल-सेनानां सैनिकाः स्युः वा वायु-सेनानां सदस्याः, NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य वा अर्ध-सैन्य-बालानां च जनाः भवेयुः, सर्वेsपि एतादृशे काले आपत्-पीडितानां साहाय्यार्थं सर्वात्मना संलग्नाः भवन्ति | जल-पूरैः जन-जीवनम् अतितरां व्यग्रं व्याकुलं व्यस्तञ्च भवति | शस्यानि, पशुधनम्, आधारभूतानि साधनानि, मार्गाः, विद्युदापूर्तिः, सञ्चार-संपर्काः चेति सर्वमपि दुष्प्रभवति | विशेषेण, अस्मदीयाः कृषक-भ्रातरः, तेषां च कृषि-क्षेत्राणि शस्यानि च दुष्प्रभवन्ति | अतः एतेषु दिनेषु आगोप-समवायाः, विशेषेण च शस्यागोप-समवायाः पूर्वतः एव सक्रियतया व्यवहरेयुः इति कृत्वा योजना विरचितास्ति येन कृषकाः शीघ्रमेव स्वीय-प्रत्यर्थित्वं समाधातुं शक्नुयुः | अपि च, जलपूर-स्थितिं प्रतीकर्तुम् अहर्निशं नियन्त्रण-कक्षस्य सहायिनी दूरभाष-संख्या १०७८ इति अनारतं कार्यनिरतास्ति | जनाः अपि स्व-स्व-काठिन्यानि सूचयन्ति | वर्षर्तोः आगमनात् प्राक्, अधिकतमेषु स्थानेषु पूर्वाभ्यासं कृत्वा अशेषमपि प्रशासकीयं तन्त्रं सन्नद्धीकृतम् आसीत् | NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य गणाः नियोजिताः | नाना-स्थानेषु आपदा-मित्राणां निर्माणम्, तेषाञ्च कर्तव्याकर्तव्य-प्रशिक्षणम्, स्वयंसेविनां निर्धारणं चेति जन-संघटनं निर्मीय एतादृश्यां स्थितौ कार्याणि आचरणीयानि भवन्ति | एतेषु दिनेषु ऋतोः पूर्वानुमानमपि लभ्यते | साम्प्रतं प्रविधिः प्रोन्नतः जातः | अन्तरीक्ष-विज्ञानस्यापि अत्र महती भूमिका वर्तते | अस्य साहाय्येन पूर्वानुमानं प्रायेण समीचीनमेव जायते | शनैः शनैः वयमपि तादृशं स्वभावं स्वीकुर्मः येन ऋतोः पूर्वानुमानस्य अनुसारेण स्वीय-कार्य-कलापान् विरचयामः, एवं कृते सति वयं सम्भावितां हानिं परिहर्तुं शक्ष्यामः |

             यदा हि “मन की बात” इत्येतदर्थं सन्नद्धतां करोमि, अनुभवामि यत् देशस्य नागरिकाः मत्तोsपि अधिकतरं समुपकल्पयन्ति | अस्मिन् क्रमे तु GST- इति वस्तु-सेवा-कराधान-विषयकाणि अनेकानि पत्राणि अधिगतानि, नैकाः दूरभाष-समाकारणाः

अवाप्ताः, साम्प्रतमपि जनाः GST- इति वस्तु-सेवा-कराधान-विषये प्रसन्नतां प्रकटयन्ति, जिज्ञासामपि कुर्वन्ति | एकं दूरभाष-सम्भाषणम् अहं भवतः अपि श्रावयामि |      “नमस्करोमि ! प्रधानमन्त्रि-महोदय ! गुरुग्रामतः अहं नीतू-गर्गः वदामि | अहं Chartered Accountant day- इति लेखाकाराणां सम्मेलने भवता व्याहृतम् अभिभाषणं श्रुतवती, अतितरां च प्रभाविता जाता | एवमेव, अस्मदीये देशे विगते मासे अस्मिन्नेव दिने GST- इति वस्तु-सेवा-कराधानम् आरभत | किमेतत् वक्तुं भवान् शक्नोति यत् प्रशासनेन यथा अपेक्षितमासीत्, मासानन्तरमपि तादृशः एव परिणामः लभ्यते वा ? एतद्-विषये अत्रभवतः विचारान् श्रोतुमिच्छामि, धन्यवादः |”

          GST- इति वस्तु-सेवा-कराधानस्य प्रवर्तनं प्रायेण मासावधिकं जातम्, अपि चास्य लाभाः दृग्गोचरीभूयन्ते | अतितरां सन्तोषम् अनुभवामि प्रसीदामि च यदा कश्चन निर्धनः पत्रं लिखित्वा मां वदति यत् GST-कारणात् मम निर्धनस्य कृते आवश्यक-वस्तूनां मूल्यानि केन प्रकारेण न्यूनीभूतानि, केन प्रकारेण च वस्तूनि अल्प-मूल्यात्मकानि संवृत्तानि | यदि दूरे सुदूरे उत्तर-पूर्वीये दिग्विभागे पर्वतेषु काननेषु च निवसन् कश्चन जनः पत्रं लिखति कथयति च यद् GST-इति किमस्तीति आरम्भे अतितरां भीतिः अनुभूयते स्म | परञ्च यदाहम् एतद्-विषये अवगन्तुं शिक्षितुञ्च आरभम्, अनुभवामि यन्मम कार्यं पूर्वतः अपेक्षया सरलतरम् अजायत | व्यापारः अपि पूर्वापेक्षया अधिकः सरलः संवृत्तः | सर्वाधिकं महत्त्वपूर्णन्तु इदमेव यत् व्यापारिषु ग्राहकाणां विश्वासः सततं विवर्धते | नातिचिरम् अवलोकयन् आसम् यत् परिवहन-सम्भार-तन्त्र-क्षेत्रे GST- इत्यस्य कियान् प्रभावः जातः ? अधुना भारवाहि-यानानां गमनागमनं कियत् एधितम् ? दूरत्वं पूरयितुं केन प्रकारेण न्यूनतरः कालः लगति ? राजमार्गाः साम्प्रतं यानैः सम्मर्द-मुक्ताः सञ्जाताः | भारवाहि-यानानां गति-वर्धन-कारणात् प्रदूषणम् अपि अपचितम् | भार-सामग्री अपि सत्वरं गन्तव्य-स्थानानि प्राप्यते | एतत् सौविध्यं तु अस्त्येव, परञ्च युगपदेव आर्थिक-गतिरपि अनेन बलवत्तरा भवति | प्राक्, पृथक्-पृथक् करविधान-कारणात् परिवहन-सम्भार-तन्त्र-प्रभागस्य समधिकानि संसाधनानि आलेखन-पत्राणां संधारणे एव व्यापृतानि भवन्ति स्म, अपि च तेन प्रत्येकमपि राज्ये स्वीयाः नवीनाः पण्य-भूमयः निर्मेयाः भवन्ति स्म | GST- इत्येनम् अहं GOOD & SIMPLE TAX - इति समीचीन-सरल-कराधानमिति वदामि, सत्यमेव अमुना अस्मदीयायाम् अर्थ-व्यवस्थायाम् उपरि अति-न्यूनावधौ भूरिशः सकारत्मकः प्रभावः विहितः | यया जवीयस्या गत्या सुकरं परिवहनम् अभवत्, यया द्रुत-गत्या स्थानान्तर-गमनं जातम्, नूतनानि पञ्जीकरणानि सञ्जातानि | एभिः अशेष-देशे अभिनवः विश्वासः समुत्पादितः | अपि च, कदाचित् अर्थ-व्यवस्थायाः विशेषज्ञाः, प्रबन्धन-पण्डिताः, प्रविधि-प्रवीणाः च, भारतस्य GST-प्रयोगस्य अनुसन्धानं कृत्वा जगतः सम्मुखं आदर्श-पद्धति-रूपेण अवश्यमेव स्थापयिष्यन्ति | कराधानमेतत् विश्वस्य विश्वविद्यालयानां कृते विशिष्ट-प्रकरणाध्ययनत्वेन भविता | यतो हि एतावता बृहत्-स्तरेण एतावत् बृहत्तमं परिवर्तनम्, तथा च, तावति विशाले राष्ट्रे कोटि-कोटि-जनानां संपृक्ति-पुरस्सरं GST-प्रवर्तनं करणीयम्, तच्च, सलता-पूर्वकम् अग्रेसारणीयम्, एतदस्ति - स्वयम्भूः बृहत्तमं साल्य-सोपानम् | कदाचित् जगदिदं नूनम् एतद्-विषये अध्येष्यति | GST-प्रवर्तने सर्वेषामपि राज्यानां सहभागित्वं वर्तते, निखिलानां राज्यानां चात्र दायित्वमपि वर्तते | सर्वेsपि निर्णयाः राज्यैः केन्द्रेण च सम्भूय सर्व-सम्मत्या विहिताः सन्ति | अत एव परिणामत्वेन प्रत्येकमपि सर्वकारस्य एका एव प्राथमिकता अवर्तत यत् GST-कारणात् निर्धनोपरि न किञ्चिदपि आपीडः भवेत् | तथा च, GST-App - इत्यत्र भवन्तः सुगमतया ज्ञातुं शक्नुवन्ति यत् अस्य प्रवर्तनात् प्राक्, वस्तूनां मूल्यानि कियन्ति आसन्, नूतनायां च परिस्थितौ कियन्ति मूल्यानि भवितारः - एतत् सर्वमपि विवरणं भवतां जङ्गम-दूरभाषेण उपलब्धुं शक्यते | एकं राष्ट्रम्, एकं कराधानम् !! कियत् बृहत्तमं स्वप्नं पूर्णम् अभवत् | GST-विषये मया अनुभूतं यत् उप-जनपदतः आरभ्य भारतीय-प्रशासनस्य अधिकारिभिः समर्पण-भावेन यावान्

परिश्रमः विहितः, अपि च, अमुना व्याजेन सर्वकारस्य व्यापारिणां च मध्ये, सर्वकारस्य ग्राहकाणां च मध्ये यः सौहार्द-परिवेशः समजनि, तेन पारस्परिक-विश्वासं विवर्धयितुं महती खलु भूमिका निर्व्यूढा | कार्येsस्मिन् संलग्नेभ्यः सर्वेभ्यः मन्त्रालयेभ्यः, सर्वेभ्यः विभागेभ्यः, केन्द्रस्य राज्य-प्रशासनानां च, सर्वेभ्यः कर्मकरेभ्यः हृदयेन भूरिशः वर्धापनानि वितरामि | GST-कराधानं हि भारतस्य सामूहिक-शक्तेः सफलतायाः अन्यतमम् उत्तमम् उदाहरणं वर्तते | एषा नाम ऐतिहासिकी उपलब्धिः | न च एषा केवलं कर-परिष्कार-पद्धतिः | एषा अस्ति- प्रामाणिकता-पूर्णायाः संस्कृतेः बलप्रदात्री काचित् नूतना अर्थव्यवस्था | प्रकारान्तरेण सामाजिक-परिष्कारस्य अभियानमपि इदमस्ति | पुनरेकवारम् अहम् - सलता-पुरस्सरम् एतावन्तं बृहत्तमं प्रयासं सफलीकर्तुं कोटि-कोटिभ्यः राष्ट्रवासिभ्यः कोटि-कोटि-वन्दनानि अर्पयामि |

         मम प्रियाः देशवासिनः ! अगस्त-मासः क्रान्तेः मासत्वेन ख्यातः | अस्य कारणं सहजतया वयं बाल्यकालात् शृण्वन्तः आस्मः यत् विगत-शताब्दे विंशतितमे वर्षे अगस्तमासे प्रथम-दिने “असहयोगान्दोलनम्” आरभत | विगत-शताब्दे द्विचत्वारिन्शत्तमे वर्षे अगस्तमासे नवम-दिने “भारतं त्यजेति आन्दोलनम्” प्रारभत, यद्धि “अगस्त-क्रान्ति-रूपेण अभिज्ञायते | अपि च, विगत-शताब्दे सप्त-चत्वारिन्शत्तमे वर्षे अगस्तमासे पञ्चदशे दिनाङ्के देशोsयं स्वतन्त्रः अभवत् | प्रकारान्तरेण अगस्तमासे घटिताः अनेकाः घटनाः स्वतन्त्रतायाः इतिहासेन साकं विशेषतया सम्पृक्ताः सन्ति | ऐषमः वयं ‘Quit India Movement’ - भारतं त्यजेति आन्दोलनस्य पञ्च-सप्तति-तमां वर्षपूर्तिम् आयोजयिष्यामः | परञ्च, न्यूनाः एव जनाः तथ्यमिदं जानन्ति यत् ‘भारतं त्यजे’ति आघोषः डॉ.यूसुफ़ -महर-अली-वर्येण प्रदत्तः आसीत् | अस्मदीया नवीना वंशावली नूनम् अवगता स्यात् यत्   विगते शताब्दे द्विचत्वारिन्शत्तमे वर्षे अगस्तमासे नवम-दिने किम् अभवत् ? अष्टादश-

शताब्दे सप्त-पञ्चाशत्तम-वर्षतः विगत-शताब्दे द्विचत्वारिन्शततम-वर्षं यावत् येन स्वातन्त्र्य-संकल्पेन सह देशवासिनः समवेताः अभूवन्, संघर्षरताः संवृत्ताः, कष्टानि सोढवन्तः चेति इतिहासस्य पृष्ठानि नूनं भव्य-भारत-निर्माणार्थं अस्मदीय-प्रेरणा-स्रोतान्सि सन्ति | अस्मदीयाः स्वतन्त्रता-वीराः त्याग-तपस्या-बलिदानानि अर्पितवन्तः, एतेभ्योsधिकतरा प्रेरणा का नाम अन्या स्यात् ? भारतं त्यजेति आन्दोलनं हि भारतीय-स्वतन्त्रतान्दोलनस्य महत्त्वाधायी संघर्षः आसीत् | अमुना आन्दोलनेन हि ब्रिटेन्-देशीय-शासनात् मुक्तिम् अधिगन्तुं अशेषमपि राष्ट्रं संकल्पितं विहितम् | अयं हि सः कालः आसीत्, यदा आङ्ग्ल-शासनस्य विरुद्धं देशस्य प्रत्येकमपि कोणे भारतीय-जन-मानसम् एकीभूतम् | भवतु नाम सः ग्रामः वा पुरम्, भवन्तु नाम ते निरक्षराः वा साक्षराः, सन्तु नाम ते निर्धनाः वा धनिनः, प्रत्येकमपि जनः सम्भूय भारतं त्यजेति आन्दोलनस्य सहभागी जातः | जनाक्रोशः चरम-सीमानम् अतिक्रान्तः | महात्मनः गान्धिनः आह्वानम् अभिलक्ष्य लक्षशो भारतवासिनः “कार्यं साधयेयं देहं वा पातयेयम्”- इति समर्पण-मन्त्रेण सह स्व-जीवनानि स्वाधीनता-संघर्षार्थम् अर्पयन्तः आसन् | देशस्य लक्ष-लक्षाधिकाः युवानः निजाध्ययन-क्रमं त्यक्त्वा, पुस्तकानि विहाय च स्वतन्त्रतायाः दुन्दुभि-स्वरेण प्रेरिताः सन्तः प्रयाण-निरताः सञ्जाताः | अगस्त-मासे नवमे दिने भारतं त्यजेति आन्दोलनस्य कृते महात्मना गान्धिना आहूतम्, परञ्च, सर्वेsपि वरिष्ठाः नेतारः आङ्ग्ल-सर्वकारेण धृत्वा कारासु निगडिताः | इदं तत् कालखण्डमासीत् यदा डॉ.लोहिया-जयप्रकाश-नारायण-सदृशैः द्वितीय-वन्शीयैः महापुरुषैः अग्रिमा भूमिका निर्व्यूढा | विगत-शताब्दे विन्शतितमे वर्षे “असहयोगान्दोलनम्” विगते शताब्दे दविचत्वारिन्शत्तमे वर्षे च, “भारतं त्यजेति आन्दोलनम्,” अत्र महात्म-गान्धिनः पृथक्-पृथक् रूप-द्वयं दृग्गोचरीभवति | “असहयोगान्दोलनस्य” रूप-रङ्गौ पृथक् आस्ताम्, अपि च, दविचत्वारिन्शत्तमे वर्षे स्थितिः  तावती तीव्रतरा अभवत् यन् महात्मगान्धि-सदृशैः महापुरुषैः “कार्यं साधयतु वा प्राणान् त्यजतु”- इति मन्त्रः प्रदत्तः | जन-समर्थनम्, जन-सामर्थ्यम्, जन-संकल्पः, जन-संघर्षः चासन् अस्याः समग्रायाः सलतायाः पृष्ठभूमौ |  कृत्स्नोsपि देशः एकीभूय संघर्ष-निरतः अवर्तत | कदाचिदहं चिन्तयामि यत् इतिहासस्य पृष्ठानि किञ्चित् समेत्य यदि अवलोकयामः चेत्, इदं सुनिश्चितं यत् भारतस्य प्रप्रथमः स्वतन्त्रता-संग्रामः अष्टादशे शताब्दे सप्त-पन्चाशत्तमे वर्षे सञ्जातः | अस्मात् संवत्सरात् आरब्धः स्वतन्त्रता-संग्रामः विगते शताब्दे दविचत्वारिन्शत्तम-वर्ष-पर्यन्तं प्रत्येकमपि क्षणे देशस्य यस्मिन् कस्मिन्नपि कोणे सुतरां प्रावर्तत | अमुना दीर्घ-काल-खण्डेन देशवासिनां हृदयेषु स्वाधीनतायाः तीव्रतरा लालसा जनिता | प्रत्येकमपि किञ्चिदपि कर्तुं तत्परः प्रतिबद्धः चासीत् | कालक्रमेण वन्शाः  व्यतीताः परम्, संकल्पेsस्मिन् किमपि नैयून्यं नैव जातम् | जनाः समवेताः भवन्ति स्म, संयुक्ताः अभूवन्, प्रयाताः सन्तः अवर्तन्त, नूतनाः जनाः आगताः, नवीनाः समवेताः,  तथा च, आङ्ग्ल-प्रशासनम् उन्मूलयितुं देशः प्रतिपलं प्रयतते स्म | अष्टादशे शताब्दे सप्त-पन्चाशत्तम-वर्षतः विगत-शताब्दे दविचत्वारिन्शत्तम-वर्ष-पर्यन्तं सञ्जात-संघर्षेण आन्दोलनाय तादृशी स्थितिः निर्मिता यत् दविचत्वारिन्शत्तम-वर्षम्, अत्र चरम-सीमत्वेन सिद्धम्, तथा च, “भारतं त्यजेति” - तादृश-दुन्दुभि-रवेण पञ्च-वर्षाभ्यन्तरे एव अर्थात् विगत-शताब्दे सप्त-चत्वारिन्शत्तम-वर्षे आङ्ग्लाः भारतं त्यक्तुं विवशीभूताः | विगते शताव्दे दविचत्वारिन्शत्तम-वर्षतः सप्त-चत्वारिन्शत्तम-वर्षं यावत् पञ्च-वर्षावधौ तादृशं जन-मानसं सज्जीभूतम् यत् संकल्पतः सिद्धि-पर्यन्तं पञ्च-निर्णायक-संवत्सरत्वेन अवधिरयं सलता-पुरस्सरं देशस्य स्वातन्त्र्य-प्रदायि-कारणरूपेण परिणतः | एतानि पञ्च निर्णायक-वर्षाणि अवर्तन्त |  

     साम्प्रतमहं अमुना गणितेन साकं भवतः संयोजयितुं समीहे | विगते शताब्दे सप्त-चत्वारिन्शत्तमे वर्षे वयं स्वतन्त्राः अभवाम | अधुना विन्शशताब्दस्य सप्त-दशं वर्षं प्रवर्तते | प्रायेण सप्ततिः वर्षाणि व्यतीतानि | नाना प्रशासनानि आगतानि गतानि च | व्यवस्थाः प्रकल्पिताः, परिवर्तिताः, प्रवर्धिताः, अग्रेसृताः च | देशं समस्या-मुक्तं विधातुं प्रत्येकमपि स्व-स्व-रीत्या प्रायतत | देशे वृत्तितां वर्धयितुं, निर्धनतां दूरीकर्तुं, विकासम् वितानयितुं च प्रयत्नाः अभूवन् | स्व-स्व-रीत्या परिश्रमः विहितः | सलता अवाप्ता, अपेक्षा च जागरिता| यथा विगते शताव्दे दविचत्वारिन्शत्तम-वर्षतः सप्त-चत्वारिन्शत्तम-वर्षं यावत् संकल्पतः सिद्धेः निर्णायकत्वेन पञ्चवर्षाणि आसन्, तथैव अहं परिशीलयामि यत् सप्तदशतः आगामि-द्वाविंशतितम-वर्षं हि संकल्पतः सिद्धेः यावत् अपरः पञ्च-वर्षात्मकः काल-खण्डः अस्माकं सम्मुखं समुपस्थितोsस्ति | ऐषमः अगस्तमासीयं पञ्चदश-दिवसं वयं संकल्प-पर्व-त्वेन आयोजयामः, तथा च, आगामि-द्वाविंशतितम-वर्षे यदा स्वतन्त्रता-प्राप्तेः पञ्च-सप्तति-वर्षाणि भवितारः, तदा वयं नूनं तं संकल्पं सिद्धित्वेन एव परिवर्तितारः |  सपाद-शत-कोटि-मिताः देशवासिनः अगस्त-मासीयं नवमं क्रान्ति-दिनं स्मृत्वा ऐषमः अगस्तमासीये पञ्चदश-दिने संकल्पयन्ति यत् व्यक्तिशः वा नागरिकरूपेण, अहं देश-हितार्थम्, एतावत्तु नूनं करिष्यामि, कुटुम्बरूपेण वा समाजरूपेण इदम् आचरिष्यामि, ग्राम-रूपेण वा नगर-रूपेण एतत् विधास्यामि, शासकीय-विभाग-रूपेण एतत् करिष्यामि, प्रशासन-रूपेण इदं वा अनुष्ठास्यामि... !  कोटि-कोटि-मिताः संकल्पाः भवेयुः | एतेषां संकल्पानां परिपूर्णतायै प्रयत्नाः स्युः |  एवं जाते सति, विगते शताव्दे दविचत्वारिन्शत्तम-वर्षतः सप्त-चत्वारिन्शत्तम-वर्षं यावत् देशस्य स्वाधीनतायै संकल्पतः सिद्धेः निर्णायकत्वेन पञ्चवर्षाणि आसन्, तथैव एतत्-सप्तदशतः द्वाविंशति-तम-वर्ष-पर्यन्तं पञ्चवर्षाणि भारतस्य भविष्यत्कृतेsपि निर्णायकत्वेन भवितुं शक्नुवन्ति तथा चैतद् अस्माभिः नूनं करणीयम् | पञ्च-वर्षाणाम् अनन्तरं यदा वयं देशस्य स्वतन्त्रतायाः पञ्च-सप्तति-वर्ष-पूर्तिम् आयोजयिष्यामः | अतः अस्माभिः सर्वैः दृढतया अद्य संकल्पनीयम्, एतत्-सप्तदश-मितं वर्षं अस्माकं संकल्प-वर्षत्वेन करणीयम् | “अस्वच्छते ! भारतं त्यज, निर्धनते ! भारतं त्यज, भ्रष्टाचार ! भारतं त्यज, आतंकवाद ! भारतं त्यज, जातिवाद ! भारतं त्यज,

संप्रदायवाद ! भारतं त्यज, |” एनं संकल्पं नूनं साधयिष्यामः | अद्य आवश्यकमस्ति यत् नूतन-भारतस्य संकल्पेन सह संयोजनं स्यात् | सलता-प्राप्तये सम्भूय सर्वात्मना पुरुषार्थाचरणं भवेत् | आगच्छन्तु ! ऐषमः अगस्त-मासीये नवम-दिनांके संकल्पतः सिद्धि-पर्यन्तम् एकं महाभियानं प्रवर्तयेम ! प्रत्येकमपि भारतवासी, सामाजिक-संस्थाः, स्थानीयाः निकायाः, तेषाम् एकान्शाः, विद्यालयाः, महाविद्यालयाः, विभिन्नानि संघटनानि च, अभिनव-भारतस्य कृते, प्रत्येकमपि किञ्चिद्-किञ्चिद् संकल्पं विदध्युः | तादृशः संकल्पः यं वयम् आगामिषु पञ्च-वर्षेषु पूर्णतां नेष्यामः, सिद्धञ्च करिष्यामः | युव-संघटनानि, छात्र-संघटनानि, स्वयंसेविसंघटनानि चेत्यादयः सामूहिक-चर्चाम् आयोजयितुं शक्नुवन्ति | नव-नवीनान् विचारान् प्रस्तोतुम् अर्हन्ति | एक-राष्ट्रत्वेन अस्माभिः किं प्राप्तव्यम् ? व्यक्ति-रूपेण तदर्थं मया किन्नाम योगदानं कर्तुं शक्यते ? आगच्छन्तु ! अस्मिन् संकल्प-पर्वणि, वयं समवेताः भवेम !  अधुनातने काले वयं शारीरिक-रूपेण कुत्रचित् भवेम वा न वा, Online World - इति सद्यस्क-सम्बन्धेन नूनं तत्र भवितुं शक्नुमः | विशेषेण, मम युव-सहयोगिनः, मम युवमित्राणि चामन्त्रयामि यत् ते नूतन-भारतस्य निर्माणार्थं नव-नवोन्मेष-रीत्या सहयोक्तुं योगदानञ्च कर्तुम् अग्रे आयान्तु ! प्रविधि-प्रयोग-पुरस्सरं ते video-blog-चेति दृश्याङ्कनान्तर्जालीयालेखन-द्वारा नवनवीनान् विचारान् उपस्थापयेयुः| अभियानमेतत् जनान्दोलनत्वेन प्रवर्तितं स्यात् | NarendraModiApp - इत्यत्र अपि युवमित्राणां कृते Tweet India - प्रश्न-स्पर्धा प्रारप्स्यते | प्रश्न-स्पर्धा एषा युवजनान् देशस्य गौरव-पूर्णेन इतिहासेन साकं संयोजयितुम्, स्वतन्त्रता-संग्रामस्य नायकानां विषये च तान् अवगतान्  विधातुं प्रयास-रूपा अस्ति | आमिनोमि यत् भवन्तः अवश्यमेव एतद्-विषये व्यापकं प्रचारं प्रसारञ्च कुर्युः |
 
    
     मम प्रियाः देशवासिनः ! अगस्त-मासीये पञ्चदश-दिनाङ्के राष्ट्रस्य प्रमुख-सेवकत्वेन अहं रक्तदुर्गस्य प्राचीरेभ्यः अशेष-देशेन संभाषितुम् अवसरं प्राप्नोमि | अहन्तु निमित्त-मात्रमेवास्मि | तत्र सः एकः कश्चन जनः नैव अभिभाषते | ततः सपाद-शत-कोटि-देश-वासिनाम् निनादानुगुञ्जनं भवति | तेषां स्वप्नानि शब्द-बद्धानि कर्तुं प्रयत्यते | नूनमहं प्रसीदामि यत् विगत-वर्ष-त्रयात् अनारतं अगस्तमासीय-पञ्चदश-दिनस्य व्याजेन देशस्य विविध-कोणेभ्यः परामर्शान् अधिगच्छामि यत् एतस्मिन् दिने किं किं वक्तव्यमिति ? के के विषयाः उत्त्थापनीयाः ?  संप्रत्यपि परामर्श-प्रदानार्थम् अहं भवतः आमन्त्रयामि | MyGov - उत वा, NarendraModiApp - चेत्यत्र भवन्तः निज-विचारान् माम् अवश्यं प्रेषयन्तु | स्वयमहं तान् विचारान् पठामि, अपि च पञ्चदश-दिने यावान् कालः मम पार्श्वे अस्ति, तस्मिन्नवधौ तान् प्रकटयितुं प्रयतितास्मि | विगतस्य अभिभाषण-त्रयस्य विषये परिदेवनम् एतत् सततम् अवाप्तं यत् ममाभिभाषणं किञ्चित् दीर्घं भवतीति | एतस्मिन् क्रमे, मया विचारितं यत् लघु एव अभिभाषिष्ये ! चत्वारिन्शत्तः पञ्चाशत्-मिनिट्-पर्यन्तं पूर्णतां नयानि ! न जाने कर्तुं पारयिष्यामि वा न वा, परं प्रयत्नं नूनं करिष्यामि |

          मम देशवासिनः ! एकम् अपरं विषयमपि प्रस्तोतुं वाञ्छामि | भारतीयार्थ-व्यवस्थायां सामाजिकम् अर्थशास्त्रं सन्निहितं वर्तते | नैतच्च मनागपि अवहेलनीयम् | अस्मदीयाः उत्सवाः न केवलम् आमोद-प्रमोदार्थं परिगणनीयाः | अस्माकं पर्वाणि अस्मदीयाः उत्सवाः च सामाजिक-परिष्कारस्य अभियान-रूपाः सन्ति | तथा च, युगपदेव, अस्म्दीयाः एते उत्सवाः निर्धनतमस्य आर्थिक-जीवनेन साक्षात् संपृक्ताः सन्ति | कतिपय-दिनानाम् अनन्तरं रक्षाबन्धनम्, जन्माष्टमी, ततः परं गणेशोत्सवः ततः परं चौथ-चन्द्रः, अनन्त-चतुर्दशी, दुर्गापूजा, दीपावलीति एकस्माद् अनुपदम् अपरः उत्सवः समापत्स्यते | अयमेवावसरः यदा निर्धनः आर्थिकोपार्जनं कर्तुमवसरं लभते | तथा च, एतैः उत्सवैः साकं, सहजः आनन्दः अपि संयुज्यते | उत्सवाः, सम्बन्धेषु माधुर्यम्, कुटुम्बे स्नेहम्, समाजे च बन्धुत्वं हि विवर्धयन्ति | एते समाजेन साकं व्यक्तिं संयोजयन्ति | व्यक्तितः समष्टि-पर्यन्तम् एका स्वाभाविकी यात्रा प्रचलति | अहम्-तः वयम्-इत्येवं प्रति गमनस्य महानीयावसरः लभ्यते | अर्थव्यवस्था-विषये तु एतद्-विचारयितुं शक्यते यत् रक्षाबन्धन-पर्वणः आगमनात् प्राक्, नैक-मासेभ्यः शतशः कुटुम्बानि लघु-लघु-गृहोद्योगेषु रक्षा-सूत्राणि विनिर्मातुम् आरभन्ते | खादी-कौशेय-सूत्रैः न जाने कतिविधानि रक्षासूत्राणि विनिर्मीयन्ते ? अपि चाद्यत्वे तु जनेभ्यः home-made- इति गृह-निर्मितानि रक्षासूत्राणि भूरिशो रोचन्ते | रक्षासूत्राणां निर्मातारः विक्रेतारः च, मिष्टान्न-विक्रेतारः प्रभृतीनां लक्षशो जनानां व्यवसायः उत्सवैः संयुक्तो भवति | अस्माकं निर्धनानां भ्रातृ-भगिनीनां कुटुम्बानि एवं रीत्या जीविकां प्रचालयन्ति | दीपावल्याः अवसरे वयं दीपान् प्रज्वालयामः | तदेव प्रकाश-पर्व इति नैव, अस्य पर्वणः साक्षात् सम्बन्धः लघु-लघूनां मृत्तिका-दीपानां निर्मातृभिः निर्धन-कुटुम्बैः साकमपि वर्तते | एवं उत्सव-सन्दर्भे अहं पर्यावरण-विषयेsपि किमपि वक्तुमीहे |
     
कदाचिदहं चिन्तयामि यत् ममापेक्षया देशवासिनः समधिकाः जागरुकाः सन्ति | विगत-मासात् अनारतं पर्यावरण-जागरुकैः नागरिकैः मां प्रति अनेकानि पत्राणि प्रेषितानि | साग्रहं ते सूचितवन्तः यत् गणेश-चतुर्थी-पर्वणि echo-frendly- पर्यावरणानुकूलानां गणेश-प्रतिमानां विषये पूर्वमेव जनाः प्रबोधनीयाः | सर्व-प्रथमं एतेषां जागरुक-नागरिकाणां कृते कार्तज्ञ्यमावहामि | साम्प्रतिके काले गणेशोत्सवस्य विशिष्टं महत्वं वर्तते | लोकमान्य-तिलक-वर्येण महती एषा परम्परा प्रवर्तिता | संवत्सरोsयं सार्वजनिकस्य गणेशोत्सवस्य सपाद-शत-वर्षं वर्तते | सपाद-शतं वर्षाणि सपाद-शत-कोटिमिताः देशवासिनः !  लोकमान्य-तिलक-वर्येण यां मूल-भावनाम् आधृत्य समाजस्य एकतायै जागरुकतायै च, सामूहिकतायाः संस्कारार्थं च, सार्वजनिकस्य गणेशोत्सवस्य शुभारम्भः विहितः आसीत्, तदाधृत्य वयं पुनरेकवारं गणेशोत्सवीये वर्षेsस्मिन् निबन्ध-स्पर्धाः आयोजयेम, चर्चा-सभाः करावाम,

लोकमान्य-तिलक-वर्यस्य योगदानञ्च स्मराम ! तां भावनां पुनः प्रबलां विधाय वयं पर्यावरणानुकूलानां मृत्तिका-निर्मितानां गणेश-प्रतिमानां स्वीकरणं करवाम ! विश्वसिमि यत्  भवन्तः सर्वेsपि मया सार्धं संयोजिताः भविष्यन्ति | अस्मदीयाः ये निर्धनाः शिल्पिनः, मूर्ति-निर्मातारः सन्ति ते आजीविकां प्राप्स्यन्ति | आगच्छन्तु ! वयं सर्वे अस्मदीयान् समुत्सवान् निर्धनैः साकं संयोजयेम ! निर्धनस्य अर्थव्यवस्थया संयोजयेम ! अस्मदीय-समुत्सवस्य आनन्दः निर्धनस्य गृहस्य आर्थिकोत्सवः भवेत्, आर्थिकानन्दः भवेत् ! अयमेव अस्माकीनः सार्वजनीनः प्रयासः स्यात् ! भाविनां नाना-समुत्सवानां कृते अहं सर्वेभ्यः देशवासिभ्यः भूरि भूरि मङ्गलकामनाः वितरामि |

      मम प्रियाः देशवासिनः ! वयं सततम् अनुभवामः यत् भवतु नाम शिक्षाक्षेत्रं वा आर्थिक-क्षेत्रम्, स्याद् वा सामाजिकं वा क्रीडा-क्षेत्रम्, अस्मदीयाः बालिकाः राष्ट्रस्य यशोवर्धनं कुर्वन्त्यः अभिनवाः उपलब्धीः अधिगच्छन्ति | वयं सर्वे देशवासिनः अस्मदीयानां आसां बालिकानां कृते अतितरां गौरवम् अनुभवामः | नातिचिरं अस्माकमेताः बालिकाः महिला-क्रिकेट्-विश्व-चषक-स्पर्धायाम् उत्कृष्टं प्रदर्शनं विहितवत्यः | अस्मिन्नेव सप्ताहे एताभिः क्रीडिकाभिः सार्धं सम्मेलनस्य अवसरं लब्धवान् | ताभिः साकं सम्भाषणं कृत्वा सौख्यम् अनुभूतवान् | अहं चिन्तयन् आसम् यत् विश्व-चषक-स्पर्धा नैव विजिता इति कृत्वा ताः आपीडम् अनुभवन्ति इति प्रतीयते स्म | मया उक्तं यत् एतद्-विषये मम पृथक् मूल्याङ्कनं वर्तते | अद्यत्वे संचार-माध्यमानि बलवत्तराणि सन्ति | एतैः अपेक्षाः विवर्ध्यन्ते, ताः पूर्णाः नैव भवन्ति चेत् आक्रोशः एधते एव | भारतीयाः क्रीडकाः यदि विफलाः भवन्ति चेत् देशस्य क्रोधः तेषु एव प्रकटीक्रियते | परञ्च प्रथमवारमेव एतत् सञ्जातं यत् अस्मदीयाः एताः बालिकाः विश्व-च-स्पर्धायाम् असलाः जाताः, तदापि  सपाद-कोटि-देशवासिनः तं पराजयम् आत्मनि स्वीकृतवन्तः | किञ्चिदपि पराजय-पीडां ताः

नानुभवेयुः इति विशेषेण सर्वैः अवधत्तम् | एतावदेव नैव, एताभिः यत्किमपि कृतम्, तत्सर्वं सुबहु प्रशंसितम् | इदं हि सुखदं परिवर्तनमिति परिभावयामि | मया ताः उक्ताः यदेतादृशं सौभाग्यं केवलं युष्माभिरेव अवाप्तम् | सत्यमेव अस्मदीया एषा युव-संततिः अस्स्मदीयाः एताः बालिकाः देशस्य यशोवर्धनार्थं सुबहु प्रयतन्ते |  पुनरेकवारं अहं देशस्य युव-जनेभ्यः विशेषेण च, अस्मदीयाभ्यः बालिकाभ्यः च हृदयेन भूरि-भूरि वर्धापनानि व्याहरामि | मङ्गल-कामनाः च वितरामि |

   मम प्रियाः देशवासिनः ! पुनरेकवारं स्मारयामि अगस्त-क्रान्तिम् | पुनरेकवारं स्मारयामि अगस्तमासीयं नवम-दिनाङ्कं पुनरेकवारं स्मारयामि अगस्त-मासीयं पञ्चदश-दिनं पुनरेकवारं च स्मारयामि आगामि-द्वाविशंतितमं वर्षं स्वतन्त्रता-प्राप्तेः पञ्च-सप्तति-वर्षाणि | प्रत्येकमपि देशवासी संकल्पयेत्, प्रत्येकमपि देशवासी संकल्पं सिद्धीकर्तुं पञ्चवर्षात्मिकां योजनां विरचयेत् | वयं सर्वेsपि सम्भूय देशं नूतनोपलब्धि-समन्वितं    करवाम, सततञ्च अग्रेसरेम ! राष्ट्रम् उच्छ्रिततमे शिखरे संनयेम ! आगच्छन्तु ! वयं संगच्छेम ! किञ्चित् किञ्चिदपि कार्यान्वयनं अनुतिष्ठेम ! देशस्य भाग्यं भविष्यच्च उत्तमोत्तमं नूनं भविष्यति | अमुना विश्वासेन साकमेव अग्रेसरेम ! भूरिशो मङ्गल-कामनाः | धन्यवादः !!!  

                             +++    ++++   ++++   ++++    ++++