Monday 28 August 2017

‘मन की बात’ “मनोगतम्” प्रसारण-तिथि:- 27.08.2017

मन की बात’ [35]
मनोगतम् [35]              (प्रसारण-तिथि:- 27.08.2017)
[“मन की बात”- मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                  
                -भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर

मम प्रियाः देश-वासिनः !  
           सादरं  नमस्कारः |
         एकतः देशः उत्सवेषु व्यापृतः अस्ति अपरतः च, हिन्दुस्थानस्य कस्मादपि कोणात् यदा हिंसा-वार्ता आयाति तदा देशस्य चिन्ता स्वाभाविकी एव | अस्मदीयः देशः अयं बुद्ध-गान्धिनोः देशः वर्तते | देशस्य एकतायै प्राण-पाणेनापि प्रयत्नशीलस्य सरदार-पटेलस्य देशः अयं | नैक-सहस्र-वर्षेभ्यः अस्मदीयाः पूर्वजाः सार्वजनिक-जीवन-मूल्यानि अहिंसां समादरञ्च स्वीकृतवन्तः | अस्मदीयेषु अन्तर्मनस्सु एतत् संभृतं वर्तते | “अहिंसा परमो धर्मः” - सूत्रमिदं वयं बाल्यकालादेव शृण्वन्तः  कथयन्तः च स्मः | रक्तदुर्गस्य प्राचीरेभ्यः अपि अहं उक्तवान् यत् आस्था-नाम्ना विधीयमाना हिंसा न मनागपि सहिष्यते | भवतु नाम सा सांप्रदायिकी आस्था वा राजनीतिक-विचारधारां प्रति आस्था वा भवतु नाम व्यक्ति-विशेषं प्रत्यास्था, उताहो स्याद् वा परम्पराः प्रत्यास्था -  आस्था-व्याजेन न कश्चन विधिं स्वयत्तीकर्तुं अधिकृतः अस्ति | डॉ.बाबा-साहेब-अम्बेडकरः अस्मभ्यं संविधानं प्रादात्, एतस्मिन् सर्वोsपि जनः न्यायं प्राप्नुयादिति सर्वप्रकारेण  व्यवस्थापितमस्ति | अहं देशवासिनः विश्वासयितुं वाञ्छामि यत् विधिं स्वायतीकर्तुं प्रयतमानः वा हिंसा-मार्ग-निरतः दमनशीलः वा, कश्चन अपि भवतु नाम व्यक्तिविशेषः वा समूहः, नायं देशः तं सहिष्यते न वा कश्चन सर्वकारः | प्रत्येकमपि जनः विधेः समक्षं नत-मस्तकः स्यात् | विधिरेव तत् उत्तरदायित्वं निश्चेष्यति | तथा च, दोषिणो नूनं   दण्डयिष्यन्ते |
मम प्रियाः देशवासिनः !
      अस्माकं देशः विविधताभिः सम्भरितः अस्ति, एताः विविधताः पानाशनयोः वासावासयोः परिधानादिषु एव सीमिताः  नैव सन्ति | जीवनस्य प्रत्येकमपि व्यवहारे वैविध्यमिदं द्रष्टुं शक्यते | एतावद् एव नैव, अस्मदीयाः उत्सवाः अपि वैविध्य-पूर्णाः सन्ति | सहस्रेभ्यः अपि वर्षेभ्यः प्राचीनम् अस्मदीयं सांस्कृतिकं रिक्थम् अतः,  पश्यन्तु नाम,  एताः सांस्कृतिक-परम्पराः वा सामाजिक-परम्पराः, अवलोकयन्तु वा ऐतिहासिक-घटनाः| आवर्षं स्याद् कश्चन एव दिवसः अवशिष्टः यो हि अस्मदीयेन उत्सवेन सम्पृक्तो नास्ति ! भवन्तः एतदपि जानन्ति एव यद् अस्मदीयाः सर्वेsपि उत्सवाः, सर्वाणि अपि पर्वाणि, प्रकृतेः समय-पत्रकम् अनुसरन्ति | प्रकृत्या साक्षात् संबद्धानि सन्ति | एतेषु अधिसंख्यन्तु साक्षात् कृषकैः श्रमिकैः मत्स्यजीविभिः च संपृक्तानि सन्ति |
      अद्याहं यदा उत्सव-विषये मनोगतं प्रकटयामि तदा सर्व-प्रथमं भवतः सर्वान् “मिच्छामि दुक्कडम” वक्तुमिच्छामि | जैन-समाजे श्वः सम्वत्सरीयं पर्व आयोजयिष्यते | जैन-समाजः भाद्र-मासे पर्युषण-पर्व आमिनोति | पर्युषण-पर्वणः अन्तिमे दिने संवत्सरीयः दिवसो भवति | एषा नाम अद्भुता स्वयम्भूः परम्परा ! संवत्सरीयं पर्व क्षमायाः अहिंसायाः मित्रतायाः च प्रतीक-रूपम् | क्षमा-वाणी-पर्वेति अपरनाम्ना अपि एतत् निगद्यते | अस्मिन् दिने जनाः परस्परं “मिच्छामि दुक्कडम” इति वदन्ति इत्येषास्ति अस्मदीया परम्परा | अस्मदीयेषु शास्त्रेषु तु उक्तमेव- “क्षमा वीरस्य भूषणम् |” क्षमाशीलः वीरो भवति | एषा चर्चा अस्माभिः पूर्वं श्रुता एव, महात्म-गान्धी तु सर्वदैव कथयति स्म- क्षमाकरणन्तु बलिनो जनस्य वैशिष्ट्यं भवति |
              “The Merchant of Venice” - नाम्नि स्वीये नाटके शेक्सपियरः लिखति - “Mercy is twice blest, it blesseth him that gives and him that takes” अर्थात् क्षमाकर्ता क्षमितः चेति द्वयमपि भगवतः आशीर्वादम् अवाप्नोति |
        मम प्रियाः देशवासिनः ! साम्प्रतं हिन्दुस्थानस्य प्रत्येकमपि कोणे गणेश-चतुर्थी-समुत्सवस्य प्रगाढोत्साहः दरीदृश्यते | यदा च, गणेश-चतुर्थी सन्दर्भ्यते तदा सार्वजनिकस्य गणेशोत्सवस्य चर्चा स्वाभाविकी | सपादैक-शत-वर्षेभ्यः पूर्वं लोकमान्यः बाल-गङ्गाधर-तिलकः एनां परम्परां प्रवर्तितवान्, अपि च, सपादैक-शत-वर्षात्मकः कालः स्वाधीनता-प्राप्तेः प्राक्  स्वाधीनतायाः आन्दोलनस्य प्रतीकरूपः सञ्जातः तथा च, स्वाधीनता-प्राप्तेः अनन्तरं समाजिकयोः शिक्षा-चेतनयोः जागृतेः प्रतीकत्वेन प्रवर्तते | दश-दिवसात्मकं गणेश-चतुर्थी-महापर्व एकतायाः समतायाः शुचितायाः च प्रतीकमिति निगद्यते | सर्वेभ्योsपि देशवासिभ्यः गणेशोत्सवस्य भूरिशः मङ्गल-कामनाः |
     सम्प्रति केरळ-राज्ये “ओणम्”-उत्सवः आमान्यते | भारतस्य बहुविधेषु वार्णिकेषु प्रमुखेषु उत्सवेषु ‘ओणम्’ हि केरळस्य अन्यतमः समुत्सवः | पर्वेदं स्वस्य सामाजिकस्य सांस्कृतिकस्य च महत्वस्य कृते सुख्यातम् | ओणम्-पर्व केरळस्य समृद्धं सांस्कृतिकं रिक्थं प्रदर्शयति | एतच्च, समाजे प्रेम-सौहार्दयोः सन्देश-प्रदानेन सह जनानां मनस्सु नवीनम् उत्साहं नूतनाम् आशां अभिनवञ्च विश्वासं जागरयति | अपि च, अद्यत्वे तु अस्मदीयाः इमे उत्सवाः पर्यटकाणाम् अपि आकर्षण-कारणानि जायन्ते | व्यक्तिशो वदामि देशवासिनः यत् यथा गुजराते नवरात्रि-समुत्सवः बङ्गाले च दुर्गोत्सवः पर्यटनस्य आकर्षण-केन्द्रीभूते स्तः तद्वद् अस्मदीयाः सर्वेsपि उत्सवाः वैदेशिकान् आकर्षयितुं सम्यग्-अवसरत्वेन भवेयुः | अस्यां दिशि वयं किं किं कर्तुं प्रभवामः इति नूनं चिन्तनीयम् |
         अस्याम् उत्सव-शृङ्खलायां कतिपय-दिनानन्तरमेव अशेष-देशे ‘ईद्-उल्-ज़ुहा’-पर्व अपि आमन्स्यते | सर्वेषामपि देशवासिनां कृते ‘ईद्-उल्-ज़ुहा’-पर्वणि भूरि भूरि वर्धापनानि, भूरिशो मङ्गल-कामनाः च | उत्सवाः नाम अस्माकं कृते आस्था-विश्वासयोः प्रतीकत्वेन तु वर्तन्ते एव, नूतने भारते अस्माभिः एते उत्सवाः स्वच्छतायाः प्रतीक-रूपाः अपि करणीयाः सन्ति | कौटुम्बिक-जीवने तु एते उत्सवाः स्वच्छता च मिथः संपृक्ताः सन्ति | उत्सवानां पूर्व-सज्जता अर्थात् स्वच्छीकरणम् | नेदम् अस्माकं कृते किमपि नवीनम्, अभूतपूर्वं वा, परञ्चैतत् अनुष्ठानं सामाजिकस्वभावत्वेन अपि नूनं करणीयमवशिष्यते | सामाजिक- दृष्ट्या स्वच्छतायाः अयम् आग्रहः न केवलं गृहे एव, अस्मदीये सम्पूर्णेsपि ग्रामे. पूर्णेsपि पुरे, कृत्स्नेsपि नगरे, अस्मदीये अखिलेsपि राज्ये, समग्रेsपि अस्मदीये देशे स्वच्छता भवेत् | स्वच्छीकरणम् अवश्यम् उत्सवानाम् अभिन्नाङ्गत्वेन स्यात् |
           मम प्रियाः देशवासिनः ! आधुनिकीभवनस्य परिभाषाः सततं परिवर्तन्ते | एतेषु दिनेषु एकं नवीनं परिमाणं, नूतनं प्रमाणं च प्रवर्तते यत् भवान् कियान् संस्कारी ? कियान् आधुनिकः ? भवतः विचार-प्रक्रिया कियती आधुनिकी अस्ति ? एतत् सर्वम् अवगन्तुम् एकः निकषः अपि व्यवह्रियते अपि च सः वर्तते यत् भवान् पर्यावरणं प्रति कियान् जागरूकः इति ? भवतः स्वकीयेषु क्रियाकलापेषु echo-frendly वा environment-friendly इति परिवेशानुकूलः वा पर्यावरणानुकूलः व्यवहारः अस्ति वा तत्-प्रतिकूलः ? समाजे साम्प्रतं एतत्-प्रतिकूल-व्यवहारः अनुचितः परिगण्यते | अस्य परिणामं साम्प्रतं पश्यामि यत् एतद्दिनेषु गणेशोत्सवे अपि परिवेशानुकूलः गणपतिः विरच्यते, मन्ये यत् बृहदेकम् अभियानं प्रवर्त्यते | यदि भवान् YouTub - इत्यत्र गत्वा अवलोकयिष्यन्ति चेत्, प्रत्येकमपि गृहे बालाः गणेशं विरचयन्ति, मृत्तिकामादाय गजाननं निर्मान्ति | ताः आकृतीः वर्णैः रञ्जयन्ति | कश्चन वानस्पतिकैः रङ्गैः ताः लेपयति, कश्चन तासु कर्गद-शकलानि श्लेषयति | विविधाः प्रयोगाः प्रतिगृहं भवन्ति | प्रकारान्तरेण, गणेशोत्सवेsस्मिन् पर्यावरण-चेतनतायाः बृहद् व्यापकञ्च प्रशिक्षणम् अवलोकयितुं शक्यते, पूर्वं कदाचिदेव तत् दृष्टं स्यात् ? सञ्चार-माध्यमानि अपि, परिवेशानुकूलाः गणेश-प्रतिमाः विरचयितुं जनान् व्यापकतया प्रशिक्षयन्ति, प्रेरयन्ति निर्दिशन्ति च | पश्यन्तु, कियत् बृहत् परिवर्तनं सञ्जातम् | अपि चैतत् सुखदं वर्तते | यथा मया पूर्वं कथितं - देशोsयं कोटि-कोटिभिः तेजस्वि-प्रतिभाभिः अपि  संभरितः अस्ति | सुखमनुभूयते यदा कश्चन अभूत-पूर्वान् नवाचारान् प्रकल्पयति | कश्चन माम् असूचयत् यत् कुत्रचित् कश्चन सज्जनः स्वयम् अभियन्ता सन्नपि सः विशिष्ट-प्रकारिकां मृत्तिकां समाहृत्य तां संयोज्य गणेश-रचनायाः प्रशिक्षणं जनेभ्यः प्रददाति | अपि च, एकस्यां लघु-जलद्रोण्यां गणेश-मूर्ति-विसर्जनं विधीयते | तस्यामेव जल-द्रोण्यां गणेश-मूर्तिः स्थाप्यते, द्रुतमेव च, जलेन मिश्रीयते | नैतावता अलम् , तेन जल-द्रोण्यां वृन्दा-पादपः वा अन्ये पादपाः अपि रोपिताः | वर्ष-त्रय-पूर्वं यदा स्वच्छतायाः अभियानम् आरब्धम्, ओक्टोबर-मासे द्वितीये दिनाङ्के, ततः परम् ऐषमः वर्ष-त्रयं पूर्णं भविता, तथा चास्य अभियानस्य सकारात्मकानि परिणामानि आलोक्यन्ते | प्रतिशतं ऊनचत्वारिन्शततः प्रायेण प्रतिशतं सप्त-षष्टि-मितं शौचालयानां निर्माणलक्ष्यं पूर्णम् अजायत | अधुनावधि त्रिन्शत्-सहस्रोत्तर-द्विलक्षमिताधिकाः ग्रामाः अनावृत-शौचाचरणात् आत्मानं मुक्तान् घोषितवन्तः |
        विगतेषु दिनेषु गुजराते भीकरः जलोपप्लवः संमुखीकृतः | अनेके जनाः विगत-प्राणाः जाताः परञ्च जल-पूरस्य अनन्तरं यदा जल-प्रवाहः न्यूनीभूतः तदा सर्वत्र अतितराम् मालिन्यम् अस्वच्छता च समेधिते जाते | एतादृश्यां स्थितौ गुजरातस्य बनासकान्ठा-जनपदे धानेरा-स्थानस्य जमीयत-उलेमा-ए-हिन्दस्य कार्यकर्तारः पूर-प्रभावितानां द्वाविन्शतेः मन्दिराणां त्रयाणां मस्जिदानां च चरण-बद्ध-पद्धत्या स्वच्छताम् अकुर्वन् | सर्वेsपि एते स्वीय-प्रस्वेद-प्रस्रवण-पुरस्सरं सन्नद्धाः सन्तः कार्येsस्मिन् संलग्नाः सञ्जाताः | स्वच्छतायाः कृते एकतायाः अमुना उत्तमोत्तमेन उदाहरणेन प्रत्येकमपि जनः प्रेरितो भवति | जमीयत-उलेमा-ए-हिन्दस्य कार्यकर्तारः उदाहरणमेनत् प्रतिष्ठापितवन्तः | स्वच्छतायै समर्पण-भावेन विहितः प्रयासः यदि अस्मदीयः स्थायी स्वभावः भवेत् चेत् राष्ट्रस्य परमोत्तमा समुन्नतिः अवश्यंभाविनी भविता |                            
        मम प्रियाः देशवासिनः ! सर्वान् भवतः आह्वयामि यत् पुनरेकवारं ओक्टोबर-मासीयात् द्वितीय-दिनात् अर्थात् गान्धि-जयन्त्याः पञ्चदश वा विन्शति-दिनेभ्यः प्रागेव “स्वच्छता एव सेवा” इति अभियानमेकं प्रवर्तयेम ! यथा पूर्वं कथ्यते स्म “जलसेवा एव प्रभुसेवा”, “स्वच्छता एव सेवा” तद्वद् | समग्रेsपि देशे स्वच्छतायाः परिवेशं जनयेम ! यथावसरं यत्रावसरान् लभामहे, वयं समुचितावसरान् मृगयेम, परमार्थेन वयं संयुताः भवेम ! दीपावल्ल्याः सज्जैषा इति मन्येमहि उताहो नवरात्रस्य सन्नद्धता वा दुर्गापूजायाः उपकल्पनमिति | श्रमदानं कुर्याम ! अवकाश-दिने वा रविवासरे सम्भूय कार्याणि कुर्याम ! परिपार्श्व-वर्तिनीः वसतीः गच्छेम ! समीपवर्तिनः ग्रामान् गच्छेम ! परञ्च आन्दोलनत्वेन कार्याणि कुर्याम ! अहं सर्वान् अपि विद्यालयान्, महाविद्यालयान्, प्रशासनस्य अधिकारिणः, कर-समाहर्तॄन्  सरपञ्चान्, सर्वाणि प्रशासनेतर-संघटनानि, सामाजिकं सांस्कृतिकं राजनीतिकञ्च नेतृत्वं साग्रहं कथयामि यत् ओक्टोबर-मासीयात् द्वितीय-दिनात् अर्थात् गान्धि-जन्म-जयन्त्याः पञ्चदश-दिनेभ्यः प्रागेव वयं स्वच्छतायाः तादृशं परिवेशं विरचयेम, तादृशीं स्वच्छतां कुर्याम, यत् ओक्टोबर-मासीयः द्वितीय-दिवसः  यथार्थ-भावेन  गान्धि-महात्मनः ओक्टोबरमासीया द्वितीया तिथिः भवेत् |  पेयजल-स्वच्छता-मन्त्रालयः MyGov.in - इत्यत्र एकं प्रभागं निर्मितवान् यत्र शौचालय-निर्माणानन्तरं भवन्तः स्वीयं, तस्य कुटुम्बस्य च नामनी प्रवेशयितुं शक्नुवन्ति यस्मै भवन्तः साहाय्यम् अकुर्वन् | मम सामाजिक-सञ्चार-माध्यमानां मित्राणि अपि किञ्चित् रचनात्मकम् अभियानं प्रचालयितुं शक्नुवन्ति | तथा च, virtual world - इति वैद्युदाणविक-जगतः कार्यं धरातलेsपि भवेत् इत्यस्य प्रेरणां प्रसारयितुम् अर्हन्ति | पेयजल-स्वच्छता-मन्त्रालयेन प्रवर्त्यमाने स्वच्छ-संकल्पतः स्वच्छ-सिद्धि-स्पर्धा- इत्यभियाने निबन्ध-स्पर्धा, लघु-चलचित्र-निर्माण-स्पर्धा, चित्रकला-स्पर्धा चायोज्यन्ते | एतदर्थं भवन्तः विभिन्नासु भाषासु निबन्धान् लेखितुमर्हन्ति | एतदर्थं आयुषः प्रतिबन्धः नास्ति | भवन्तः लघु-चलचित्रं निर्मातुं शक्नुवन्ति | स्वीयेन जङ्गम-दूरभाषेण निर्मातुमर्हन्ति | मिनिट्-द्वयस्य मिनिट्-त्रयस्य वा चलचित्रं रचयितुं शक्नुवन्ति यद्धि स्वच्छतायै प्रेरकं भवेत् | एतत्तु कस्यामपि भाषायां निर्मातुं शक्यते, मूकमपि भवेत्, आसु स्पर्धासु ये प्रतिभागित्वं निर्वक्ष्यन्ति तेषु सर्वोत्तमं जन-त्रयं चेष्यते, जनपद-स्तरे त्रयः राज्य-स्तरे च त्रयः - एतेभ्यः पुरस्काराः प्रदास्यन्ते | अतः अहं प्रत्येकमपि जनं निमन्त्रयामि यत् आगच्छन्तु ! स्वच्छतायाः अभियानस्य एतादृशेन प्रकल्पेनापि आत्मानं संयोजयन्तु |
       भूयोsपि एकवारं कथयितुमिच्छामि यत् ऐषमः गान्धि-जयन्तीं “स्वच्छ-द्वितीय-ओक्टोबर” - रूपेण आयोजयितुं संकल्पयेम ! एतदर्थञ्च सेप्टेम्बर-मासस्य पञ्चदश-दिनादेव “स्वच्छता एव सेवा” - इति मन्त्रं प्रतिगृहं प्रापयेम ! स्वच्छतायै कमपि कमपि समुपायं विदध्म ! स्वयं परिश्रम्य अस्य सहभागिनः भवेम ! भवन्तः अवलोकयन्तु ! गान्धि-जयन्त्याः ओक्टोबर-मासीया द्वितीया तिथिः कियती प्रशस्ता भविता ? भवन्तः कल्पयितुं शक्नुवन्ति यत् पञ्चदश-दिवसीयायाः स्वच्छतायाः एतदभियानस्य अनन्तरम्, “स्वच्छता एव सेवा” - इत्यस्य अनन्तरं ओक्टोबरे द्वितीय-दिने यदा वयं गान्धि-जयन्तीम् आयोजयिष्यामः, तदा पूज्याय बापू-वर्याय श्रद्धाञ्जलि-प्रदानावसरे वयं कियन्तं पवित्रम् आनन्द-सन्दोहम् अनुभविष्यामः ! 
         मम प्रियाः देशवासिनः ! अद्याहं विशेष-रूपेण भवतां सर्वेषाम् आधमर्ण्यं स्वीकर्तुं वाञ्छामि | हृदयस्य अन्तस्तलतः भवतां सर्वेषामपि कृते कार्तज्ञ्यं प्रकटयितुं समीहे | सुदीर्घ-कालं यावत् भवन्तः “मन की बात” इत्यनेन संयुताः स्थिताः इति कृत्वा नैव अपि तु, अमुना कार्यक्रमेण सार्धमेव अशेष-देशस्य प्रत्येकमपि कोणात् लक्षशो जनाः संयुताः भवन्ति इति कृत्वा साधुवादान् वितरामि | श्रोतारस्तु कोटिशो वर्तन्ते परन्तु लक्षशो जनाः कदाचित् मां पत्राणि लिखन्ति, कदाचित् सन्दिशन्ति, कदाचित् दूरभाषेण सन्देशं प्रेषयन्ति, एतत्-सर्वं मम कृते बृहत्-निधि-रूपं वर्तते | देशवासिनां मनान्सि अवगन्तुं कार्यक्रमोsयं मम कृते महान् अवसरत्वेन उपस्थितोsस्ति | भवन्तः “मन की बात” इत्यस्य यावतीं प्रतीक्षां कुर्वन्ति, ततोsप्यधिकतया भवतां संदेशान् अहं प्रतीक्षे | लालायितो भवामि यतो हि भवतां प्रत्येकमपि प्रतिभावेन आत्मानं शिक्षयितुं प्रभवामि | यत् किमपि करोमि तस्य परीक्षायै अवसरो लभ्यते | अनेकान् विषयान् नूतन-रीत्या विचारयितुं भवतां लघु-लघु-विचाराः अपि मम कृते सहायिनो भवन्ति, अत एव भवतामस्मै योगदानाय आभारं प्रकटयामि | सदाहं प्रयते यत् भवद्भिः प्रेषितान् विचारान् सन्देशान् च स्वयमेव पश्यानि, आकर्णयानि, पठानि, अवगच्छानि च | अधुना पश्यन्तु ! अमुना दूरभाष-सन्देशेन साकं भवन्तोsपि आत्मानं संयोक्तुं प्रभविष्यन्ति | भवन्तः अपि अनुभविष्यन्ति यत् अहो ! मयापि कदाचित् एतादृशी त्रुटिः आचरिता इति | कदाचित्तु कानिचित् वस्तूनि अस्माकं चरित्रस्य तादृन्शि अभिन्नाङ्गानि भवन्ति यत् किमपि अनुचितमाचरामः इति न मनागपि अनुभवामः |                                                                                   
      “प्रधानमन्त्रि-महोदय ! अहं पुणेतः अपर्णा वदामि | अहं मम सख्याः विषये किमपि कथयितुमिच्छामि | सा सर्वदैव परेषां साहाय्यार्थं प्रयतते | परञ्च, तस्याः एकां रीतिं दृष्ट्वा अहं प्रतोदिता भवामि | एकदाहं तया साकं वस्तु-क्रयणार्थं मोल-इति विपणीं गतवती | शाटिकायाः कृते सा अञ्जसा द्विसहस्रं रूप्यकाणि व्ययीकृतवती, तथा च, पीज़ा-क्रयणार्थं सार्ध-चतुःशतं रूप्यकाणि प्रादात् | परञ्च विपणीं गन्तुं तया यत् ओटो-यानं स्वीकृतम्, केवलं पञ्च-रूप्यकाणां व्यवकलनार्थं ओटो-चालकेन साकं सा सुदीर्घं विनिमयं विवादञ्च कृतवती | प्रत्यागमने मध्येमार्गं सा शाकादीन् क्रीतवती, तथा च, प्रत्येकमपि शाकस्य मूल्योपरि पुनः चत्वारि वा पञ्च रूप्यकाणि न्यूनीकृत्य प्रादात् | अहम् अतीव दुःखम् अनुभवामि | वयं बहुषु स्थानेषु विनैव वारमपि पृष्ट्वा बृहन्मात्रिकं प्रदेयं कुर्मः, तथा च, अल्पमात्रिकाय मूल्याय श्रमशीलैः अस्मदीयैः भगिनी-भ्रातृभिः साकं कलहं कुर्मः | तेषु नैव विश्वसिमः | भवान् स्वीये “मन की बात” इत्यत्र अवश्यं विषयमेनम् उपस्थापयतु !”
    साम्प्रतम् इमां दूरभाषाकारणां श्रुत्वा भवन्तः नूनं चकिताः जाताः स्युः - इति दृढतया विश्वसिमि, सम्भवेत् इतः परमेवं  नैवं व्यवहर्तुं निश्चितवन्तः वा ? किं भवन्तः नानुभवन्ति यत् अस्मदीयानां गृहाणां पार्श्वे यदा कश्चन शाक-विक्रेता आगच्छति तदा मूल्यम् अपचाययितुं प्रयतामहे - सः भवेत् वा लघुः आपणिकः वा ओटो-यानचालकः वा परिभ्रम्य वस्तु-विक्रयण-शीलः श्रमजीवी वा कश्चित् - वयं साग्रहं रूप्यक-द्वयात्मकम् रूप्यकात्मकं वा वस्तु-मूल्यम् अपचाययितुं प्रारभामहे | अपि च, कञ्चित् स्वल्पाहार-गृहं गत्वा प्रदेय-पत्रके किं लिखितम् इति अदृष्ट्वैव झटिति धनराशिं प्रदद्मः | केनचिदपि निर्धनेन साकं सम्बन्धो भवति तदैव मूल्य-न्यूनीकरणार्थं वदामः | अमुना व्यवहारेण निर्धनस्य मनसि किं किं जायते इति कदाचिद् विचारितं वा भवद्भिः ? सः आहतो भवति ! असौ निर्धनः इति कृत्वा तस्य प्रामाणिकता संदिह्यते | रूप्यक-द्वयेन रूप्यक-पञ्चकेन वा भवतां जीवने न किञ्चित् नैयून्यं भविष्यति | अस्मदीया लघ्वी अपि एषा रीतिः कियती आघात-कारिका भवति - इति न कदाचित् परिशीलितं स्यात् | महोदये ! भवत्याः कार्तज्ञ्यम् आवहामि यत् दूरभाष-सन्देशेन मह्यं मार्मिकं हृदय-स्पर्शकरञ्च सन्देशं प्राहिणोत् | अहं दृढं विश्वसिमि यन्मम देशवासिनः अपि यदि निर्धनेन साकं एतादृक्-व्यवहारस्य अभ्यासं धारयन्ति चेत्, ते नूनं तं परित्यक्ष्यन्ति |
     मम प्रियाः नवयुवानः सखायः ! ओगस्ट-मासस्य ऊन-त्रिन्शत्तमः दिवसः खेल-दिवसत्वेन आमान्यते | दिवसोsयं महतः सुख्यातस्य होकी-क्रीडायाः कुशल-क्रीडकस्य मेज़र्-ध्यान-चन्दस्य जन्म-दिनत्वेन विराजते | होकी-क्रीडायै तेनानुष्ठितं योगदानम् अनुपमम् अतुलनीयञ्च वर्तते | तथ्यमिदम् एतस्मात् कारणादेव स्मारयामि यत् अस्मदीयस्य देशस्य नूतना संततिः क्रीडाभिः साकम् आत्मानं संयोजयेयुः | यदि वयं जगति युव-राष्ट्र-रूपेण स्मः चेत् अस्मदीया एषा तरुणता, क्रीडा-क्षेत्रेषु अपि दृष्टिपथम् आगता भवेत् | क्रीडा अर्थात् शारीरिकी औचिती, मानसिकी जागृतिः, व्यक्तित्व-संवर्धनम् चेत्यादि | अवगच्छामि यत् इतः परमपि किं स्यात् ? खेला नाम हृदय-संयोजिका औषधीः | अस्मदीयो युव-वंशः क्रीडा-जगति अग्रगामी भवेत् | अद्यतने संगणक-युगे नूनं प्रबोधयितुं वाञ्छामि यत् play-station - इत्यस्य अपेक्षया playing field - इत्येव महत्वपूर्णम् | संगणकोपरि FIFA- इति नूनं क्रीडन्तु, परञ्च कदाचित् बहिर्निर्गत्य क्रीडाङ्गणे पाद-कन्दुकेन सहापि कौतुक-पुरस्सरं  खेलन्तु ! संगणकोपरि क्रिकेट-खेलनं कुर्वन्ति नाम, परञ्च अनावृते क्रीडा-स्थले अपि, नभसः नीचैः अपि क्रिकेट-क्रीडायाः आनन्दः नूनं पृथगेव भवति | कदाचित् पूर्वं तादृशः कालः आसीत्, यदा कुटुम्बस्य बालाः बहिर्गच्छन्ति स्म तदा जननी प्रथमं पृच्छति स्म यत् त्वं कदा प्रत्यागमिष्यसि ? साम्प्रतं स्थितिः तादृशी संजातास्ति यत् बालाः गृहं प्रत्यागताः सन्तः एव एकस्मिन् कोणे स्थिताः cartoon-चलचित्र-विलोकने वा जङ्गम-दूरभाष-क्रीडासु वा व्यापृताः भवन्ति | तदा जननी सचीत्कारं कथयितुं विवशा भवति यत् - त्वं बहिः कदा गमिष्यसि ?  कालानुसारिणी कथेयम् यत् कदाचित् जननी बालान् पृच्छति स्म यत् कदा प्रत्यागमिष्यसि ? सम्प्रति तु पुत्र ! बहिः कदा गमिष्यसि ? इति कथयितुं विवशास्ति जननी |   
    नव-युवानः सखायः ! खेल-मन्त्रालयेन खेल-प्रतिभानाम् अन्वेषणार्थं परिष्करणार्थं च, क्रीडा-प्रतिभान्वेषण-पोर्टल - इति अन्तर्जालीय-द्वारं संनद्धीकृतम् यत्र अशेष-देशस्य कस्मादपि भागात् प्रतिभाशाली क्रीडकः अत्र स्वीयं विवरणं वा दृश्य-मुद्रिकां स्थापयितुमर्हति | चितेभ्यः उदीयमानेभ्यः क्रीडकेभ्यः खेल-मन्त्रालयः प्रशिक्षणं प्रदास्यति, अपि च मन्त्रालयः श्वः एव एतद् -अन्तर्जालीय-वाहिकां प्रवर्तयिष्यति | अस्माकं यूनां कृते तु इयं प्रसन्नता-प्रदायिनी वार्ता यत् भारते ओक्टोबर-मासे षड्-तः अष्टाविंशति-तमदिनं यावत् ऊन-सप्तदश-वर्ष-वयोजुषां क्रीडकानां FIFA - विश्व-चषक-स्पर्धाः आयोजयिष्यन्ते | अशेष-जगतः चतुर्विंशतिः क्रीडक-दलानि भारतम् आगमिष्यन्ति |
   आगच्छन्तु ! जगतः विभिन्न-भागेभ्यः आगम्यमानानां अस्मदीयानां युवातिथीनां खेलोत्सवेनैव सार्धं स्वागतं व्याहरेम, क्रीडानन्दम् अनुभवेम, राष्ट्रे च परिवेशं विरचयेम !  यदा अहं खेल-चर्चां करोमि, स्मरामि च यत् विगते सप्ताहे मार्मिकी एका घटना घटिता | तस्याः विषये देशवासिनः सूचयितुं वाञ्छामि | अत्यल्पायुष्मतीनां बालानां गणेन सह मेलनस्य अवसरो मया लब्धः | तासु काश्चन तु हिमालये जाताः सन्ति | समुद्र-विषयकः न कश्चनापि अनुभवः तासाम् |  अस्मद्देशस्य एतादृश्यः षट् पुत्रिकाः याः हि नौ-सेनायां नियुक्ताः सन्ति, तासाम् उत्साहः, तासां भावः च अस्मान् सर्वान् बलात् प्रेरयतः | एताः षट् पुत्रिकाः INS - तारिणीं नीत्वा समुद्रम् लंघयितुं निर्गमिष्यन्ति | अस्याभियानस्य नामास्ति- “नाविका-सागर-परिक्रमा” अपि चैताः अशेष-विश्व-भ्रमणं कृत्वा अनेक-मासानन्तरं भारतं प्रत्यागमिष्यन्ति | कदाचित् अनारतं चत्वारिंशद्दिनानि जलेषु एव यापयिष्यन्ति, कदाचिच्च अनारतं त्रिंशद्दिनानि वा सलिलेषु एव निर्यापयिष्यन्ति | सामुद्रिकेषु तरङ्गेषु ससाहसं रममाणाः अस्मदीयाः भारतीयाः षट् पुत्रिकाः ! विश्वस्य प्रप्रथमेयं घटना भविता | को नाम न भवेत् हिन्दुस्थानी यो हि आसां भारतीय-पुत्रिकाणां कृते गौरवं नानुभवेत् | अहमासां पुत्रिकाणां साहसम् अदम्योत्साहञ्च अभिनन्दामि | अहं ताः अकथयम् यत् ताः स्वीयानुभवान् अशेष-देशवासिभिः साकं वितरेयुः | अहमपि NarendraModiApp- इत्यत्र तासाम् अनुभवानां कृते पृथक्तया व्यवस्थापयिष्यामि येन भवन्तः तान् नूनं पठितुं शक्ष्यन्ति | यतो हि एषास्ति साहस-कथा, स्वानुभव-कथा, अपि चाहं प्रसन्नताम् अनुभविष्यामि यदि आसां पुत्रिकाणाम् अनुभवान् भवतः यावत् प्रापयिष्यामि | मामकीनाभ्यः आभ्यः पुत्रिकाभ्यः भूरिशो मङ्गल-कामनाः, हार्दिकीञ्च आशिराशिं वितरामि |
    मम प्रियाः देशवासिनः ! सेप्टेम्बर-मासे पञ्चमे दिने वयं शिक्षक-दिवसम् आयोजयामः | अस्माकं देशस्य प्राक्तन-राष्ट्रपतेः डॉ.राधाकृष्णन्-महोदयस्य जन्मदिवसः अयं | असौ राष्ट्रपतिः आसीत् परञ्च आजीवनं असौ आत्मानं शिक्षक-रूपेण एव उपास्थापयत् | सः शिक्षां प्रति समर्पितः आसीत् | सः अध्येता, राजनयिकः भारतस्य च राष्ट्रपतिः परञ्च प्रतिक्षणं जीवन्नेव शिक्षकः | तस्मै सादरम् नमामि | महान् वैज्ञानिकः  अल्बर्ट आइंस्टीनः अकथयत यत् - It is the supreme art of the teacher to awaken joy in creative expression and knowledge.”  स्वीयेषु विद्यार्थिषु सृजनात्मक-भावस्य ज्ञानस्य चानन्दस्य जागरणम्  एव शिक्षकस्य महत्वपूर्णं कार्यं | ऐषमः यदा वयं शिक्षक-दिवसं आयोजयिष्यामः तदा किं वयं सर्वे मिलित्वा संकल्पयितुं शक्नुमः ?  सोत्साहं अभियानमेकं प्रवर्तयितुं शक्नुमः ? अमुना संकल्पेन साकं विषयमेनम् अग्रेसारयितुं अर्हिष्यामः | प्रत्येकमपि जनं पञ्च-वर्षार्थं संकल्पेन बध्नामः, तं संकल्पं साधयितुं मार्गदर्शनं कुर्मः, पञ्च-वर्षाणि यावत् असौ नूनं तत् प्राप्नुयादिति प्रयतेम ! जीवने सलतायाः आनन्दं प्राप्नुमः | एतादृशं परिवेशं अस्मदी- याः विद्यालयाः, अस्माकीनाः महाविद्यालयाः, अस्मदीयाः शिक्षकाः अस्माकीनानि च शिक्षा-संस्थानानि कर्तुं प्रभवन्ति | अस्मदीये देशे यदा वयं रूपान्तरणस्य विषयं उपस्थापयमः, तदा यथा कुटुम्बे मातुः स्मरणं भवति तद्वद् समाजे शिक्षकस्य स्मरणं भवति | यदि वयं सम्भूय प्रयतामहे चेत् तदा, राष्ट्रस्य रूपान्तरणे महत्वाधायिनीं भूमिकां निर्वक्ष्यामः | आगच्छन्तु !  मन्त्रमेनं स्वीकृत्य अग्रेसरामः |    
       “प्रणमामि प्रधानमन्त्रि-महोदय !  मम नामास्ति डॉ.अनन्या अवस्थी, अहं मुम्बई-निवासिनी अस्मि | अपि च, Howard -विश्वविद्यालये India Research Centre-इत्यत्र कार्यं करोमि | अनुसन्धानार्थिरूपेण मम रुचिः वित्तीय-समावेशे वर्तते | एतत्-सम्बद्धानां सामाजिक-परियोजनानां विषये भवन्तं प्रष्टुं इच्छामि यत् वर्ष-त्रय-पूर्वं जन-धन-योजना प्रवर्तिता आसीत् |  किं भवान् इदं कथयितुं शक्नोति यत् वर्ष-त्रयानन्तरं भारतं समधिकं क्षमम्, समधिकं संरक्षितं च वर्तते ? किं एतद्विषयकाणि सौविध्यानि अस्मदीयाभ्यः महिलाभ्यः कृषकेभ्यः श्रमिकेभ्यः च प्राप्तानि वा ?,  धन्यवादः |                                                              
         मम प्रियाः देश-वासिनः ! प्रधान-मन्त्रि-जन-धन-योजना वित्तीय-समावेशः चेत्यादि-विषयाः न केवलं भारते कृत्स्ने अपि जगति आर्थिक-जगतः पण्डितानां चर्चा-पदवीं भजन्ते | वर्ष-त्रय-पूर्वं ओगस्ट-मासे अष्टाविंशतितमे दिने स्वप्नमेकं आधृत्य अभियानमिदं प्रवर्तितमासीत् | श्वः प्रधान-मन्त्रि-जन-धन-योजनायाः वर्ष-त्रयं पूर्णतां उपैति | त्रिंशत्-कोटिमितानि नूतनानि कुटुम्बानि अमुना साकं संयोजितानि | बैङ्क-लेखाः च समुद्घाटि- ताः | अद्याहं समादधामि यत् वर्ष-त्रयाभ्यन्तरमेव समाजस्य अन्तिम- पङ्क्तिस्थः जनः, मम निर्धनः भ्राता, देशस्य अर्थव्यवस्थायाः मूलधारायाः अङ्गत्वेन प्रतिष्ठितो जातः | शनैः शनै सः अपि अनुभवति यत् धनं सञ्चितं चेत्, संततेः कार्यार्थम् उपयोक्तुं शक्ष्यते | साम्प्रतं संयमस्य परिवेशः विरचितः अस्ति | यः निर्धनः स्वीये कोशे RuPay Card - इति धन-पत्रकम् धारयति, तदा सः धनिकैः सह आत्मानं तूलयितुमर्हति | प्रधान-मन्त्रि-जन-धन-योजनायां निर्धन-द्वारा प्रायेण पञ्च-षष्टि-सहस्र-कोटिमितानि रूप्यकाणि बैङ्केषु सञ्चितानि | प्रधानमन्त्रि-जीवन- ज्योतिः-आगोप-योजना, ‘प्रधानमन्त्रि-सुरक्षागोप-योजना’ - चेत्यत्र एक-रूप्यकं त्रिंशत्-रूप्यकाणि चेति लघुराशिः अद्यत्वे निर्धनानां जीवने नवीनं विश्वासं उत्पादयति | अनेकेषु कुटुम्बेषु एकरूप्यकस्य आगोप-करणात आगते सति संकटे कतिपय-दिनेषु  एव तस्मै कुटुम्बाय द्वि-लक्ष-रूप्यकाणि प्रापितानि |
    प्रधानमन्त्रि-मुद्रा-योजना, ‘Start Up योजना’, ‘Stand Up योजना’ - चेत्यादिषु कश्चन दलितः भवेत् वा आदिवासी, काचन  महिला वा साक्षरः युवा उताहो आत्मनिर्भतायै प्रयतमानो युवकः, कोटि-कोटि-नवयुवकाः ‘प्रधानमन्त्रि-मुद्रा-योजनया बैंकभ्यः विनैव प्रत्याभूतिं धनं प्राप्तवन्तः | ते स्वयमपि आत्मनिर्भरत्वं प्राप्तवन्तः | प्रत्येकमपि एकस्मै वा द्वाभ्यां वा वृत्ति-प्रदानार्थं प्रायतत | एतादृशानि शताधिकानि उदाहरणानि सन्ति | भवत्-पर्यन्तं प्रापयितुमहं सर्वात्मना प्रयतिष्ये, अपि च सञ्चार-माध्यमानि अपि एतेषां जनानां साक्षात्कारादिकं विधाय नूतनान्  युव-जनान् प्रेरयितुं शक्नुवन्ति |
      मम प्रियाः देशवासिनः ! पुनरेकवारं भवतां कृते मिच्छामि दुक्कडम्....     भूरि भूरि साधुवादाः .....   !!!

+++         +++++      +++++    +++++++                    

डॉ.बलदेवानन्द-सागरः                              

1 comment:

bhattanarasimha said...

अहो बहु सम्यक्!!! धन्यवादाः बलदेवानन्दमहाशय!