Wednesday 30 May 2018

‘मनोगतम्-४४’ ‘मन की बात’ – ४४ (44वीं कड़ी)

 ‘मनोगतम्-४४’ मन की बात– ४४ (44वीं कड़ी)
प्रसारण-तिथि: 27.05.2018
  [“मन की बात”- मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                           
                                       -    बलदेवानन्द-सागरः  
         नमस्कारः ! मन की बात-प्रसारणस्य माध्यमेन पुनरेकवारं भवतः सर्वान् मेलितुम् अवसरम् अवाप्नवम् | नूनं, भवन्तः सर्वे सम्यक्तया स्मरन्ति यन्नौ-सेनायाः षण्णां महिलाधिपानां वृन्दमेकं विगतेभ्यः कतिपयेभ्यः मासेभ्यः समुद्रयात्रा-निरतम् आसीत् | ‘नाविका-सागर-परिक्रमा’ – इति, अस्य विषये किमपि वक्तुमिच्छामि | भारतस्य एताः षट् तनयाः, आसां वृन्दं प्रायेण सार्ध-द्वि-शताधिकानि दिनानि यापयित्वा समुद्रमाध्यमेन INSV- तारिणी-द्वारा अशेष-जगतः यात्राम् विधाय मासेsस्मिन् एकविंशति-तमे दिने भारतं प्रत्यागतम्, सम्पूर्णोsपि देशः आसां वीर-पुत्रिकाणां सोत्साहं स्वागतमकरोत् | एताः विभिन्नानां महासागराणां कतिपयानाञ्च समुद्राणां यात्रां कुर्वन्त्यः प्रायेण द्वाविंशति-सहस्रस्य nautical miles-इति नाविक-क्रोशकानाम् अन्तरालं प्रपूरितवत्यः | अशेष-जगति स्वप्रकारिका प्रप्रथमेयं घटना अवर्तत| विगत-बुधवासरे आसां सर्वासामपि पुत्रिकाणां मेलनस्य, आसाञ्च अनुभव-श्रवणस्य अवसरं प्राप्नवम् | आसां दुहितणां साहस-प्रदर्शनार्थं,  नौसेनायाः प्रतिष्ठा-वर्धनार्थं, भारतस्य मान-सम्मान-सम्वर्धनार्थं, विशेषेण च सम्पूर्णमपि विश्वमिदं जानीयात् यत् भारतस्य कन्यकाः न्यूनतराः नैव सन्ति – इति सन्देश-प्रापणार्थञ्च भूरि भूरिशो अभिनन्दनानि पुनरेकवारम् अर्पयामि | Sense of adventure- इति साहस-भावं को नाम नैव जानाति? यदि वयं मानव-जातेः विकासयात्रामवलोकयेम, तदानुभवामः यत् कस्यचिदपि साहसस्याङ्कादेव प्रगतिः सञ्जातास्ति | विकासस्तु पराक्रमस्य अङ्के एव जायते | किञ्चित्-करणस्य समीहा, किञ्चित्-विशिष्टानुष्ठानस्य चेष्टा, किञ्चिद् असामान्याचरणस्य साहसम्, अहमपि किमपि कर्तुं शक्नोमि एतादृक्-भावानुभविनो भवन्तु नाम न्यूनतमाः, परञ्च युग-युग-पर्यन्तं, कोटि-कोटि-जनाः प्रेरणामवाप्नुवन्ति | विगतेषु दिनेषु भवन्तः दृष्टवन्तः स्युः, Mount Everest-शिखरम् अधिरूढवतां विषये कानिचन नूतनानि तथ्यानि प्रकाशितानि, तथा च, शताब्देभ्यः Everest-शिखरं  मानवजातिं समाह्वयत् आस्ते, साहसिकाश्च तत्-समाह्वानमपि स्वीकुर्वन्तो वर्तन्ते |
    मासेsस्मिन् षोडशे दिनाङ्के महाराष्ट्रस्य चन्द्रपुरस्य आश्रम-विद्यालयस्यमनीषा-धुर्वे, प्रमेश-आले, उमाकान्त-मडवी, कविदास-कातमोड़े, विकास-सोयामचेति पञ्चानां जनजातीयच्छा- त्राणाम् – अस्माकं आदिवासि-बालकानां वृन्दमेकं जगतः उच्छ्रित-तमं शिखरम् अध्यारोहत् | आश्रम-विद्यालयस्य एते च्छात्राः विगते वर्षे ऑगस्ट्-मासे प्रशिक्षणमारभन्त | वर्धा-हैदराबाद-दार्जिलिंग-लेह-लद्दाखेत्यत्र एतेषां प्रशिक्षणं सम्पन्नम् | एते युवानः मिशन-शौर्य-इति कार्यक्रमान्तर्गतं चिताः आसन् तथा च, नामानुरूपम् Everest-शिखरम् अधिरुह्य ते कृत्स्नस्य देशस्य गौरवं वर्धितवन्तः | अहं चन्द्रपुरस्य विद्यालयीय-सदस्यान्,एतानि  च, कनिष्ठानि मित्राणि भूरि भूरि हार्दिकानि वर्धापनानि वच्मि | नातिचिरं षोडश-वर्षीया शिवाङ्गी-पाठकः, नेपाल-पक्षतः Everest-विजयित्रीषु अल्पवयस्का भारतीया महिला सिद्धा | तनया शिवाङ्गी भूरिशो वर्धाप्यते |
     अजीत-बजाजः तस्य तनया च दीया Everest-शिखरारोहिषु पुत्री-पित्रोः प्रथमः भारतीय-युगलः सम्वृत्तः| न केवलं युवानः एव, Everest-शिखरारोहणं कुर्वन्ति | ङ्गीता-बहलः मासेsस्मिन् ऊनविंशे दिने Everest-शिखरम् आरूढवती, सा च पञ्चाशद्-वर्षाधिकायुष्मती वर्तते | Everest-शिखरारोहिषु केचन तादृशाः अपि सन्ति, ये हि प्रदर्शितवन्तः यत्तेषां पार्श्वे न केवलं कौशलमस्ति, परञ्च ते सम्वेदनशीलाः अपि सन्ति | नातिचिरं स्वच्छ-गङ्गाभियानस्य अन्तर्गतं सीम-सुरक्षा-बलस्य समूहः Everest-शिखरारोहणम् अकरोत्, परञ्च सम्पूर्णोsपि समूहः Everest-शिखरात् विपुलम् अवकर-चयं चित्वा आत्मना साकमेव भूतलमानयत् | कार्यमिदं नूनं प्रशंसनीयम्, युगपदेव स्वच्छतां प्रति, पर्यावरणं प्रति च तेषां प्रतिबद्धतामपि प्रदर्शयति | Everest-शिखरारोहिणः सर्वेsपि सफलाः साहसिकाः वीराः विशेषेण च पुत्रिकाः भूरि भूरि हृदयेन वर्धाप्यन्ते |
    मम प्रियाः देशवासिनः, विशेषेण च मम युवानः सखायः! प्रत्यग्रं, मास-द्वय-पूर्वं यदा अहं fit India- इति स्वस्थ-भारताभि- यानस्य प्रस्तावम् उपस्थापितवान्, तदा नाहं चिन्तितवान् यत् एतदर्थम् एतादृक् समीचीनम् उत्तरम् अवाप्स्यते इति | इयत्यां विपुलायां संख्यायां प्रत्येकमपि क्षेत्रस्य जनाः एतत् समर्थयिष्यन्ति |  यदाहं fit India- इति स्वस्थ-भारताभियानम् अधिवच्मि तदेदं स्वीकरोमि यत् यावद् वयं क्रीडिष्यामः, तावदेव देशः क्रीडिष्यति | सामाजिक-सञ्चार-माध्यमेषु जनाः fit India- इति स्वस्थ-भारताभियान-विषयकाणि समाह्वानानि अभिलक्ष्य दृश्य-सान्द्रिकाः सम्विभाजयन्ति, तेषु मिथः अङ्कनं कृत्वा परस्परं समाह्वयन्ति | साम्प्रतं Fit Indiaअभियानेन साकं सर्वोsपि जनः आत्मानं संयोजयति | भवन्तु नाम ते चलचित्र-जगतो जनाः, क्रीडा-सम्बद्धाः वा देशस्य सामान्य-नागरिकाः, भवन्तु ते सैनिकाः, आहोस्वित् विद्यालयीयाः शिक्षकाः, परितः एकमेव निनाद-गुञ्जनं श्रूयते– ‘हम fit तो India fit- वयं स्वस्थाश्चेत् भारतं स्वस्थम् | मम कृते प्रसन्नतायाः विषयोsयं यद् भारतीय-क्रिकेट्-वृन्द-नायको विराट्-कोहली-वर्यः मामपि समाह्वयत्, तथा चाहं तस्य समाह्वानमिदं स्वीकृतवान् |  मन्ये यदेतादृशं भद्रत्वाय कल्पते, एतादृक् समाह्वानं अस्मान् अपरान् च सततं स्वस्थता-सन्धारणार्थं प्रोत्साहयिष्यति |
     मम प्रियाः देशवासिनः! मन की बात-कार्यक्रमे नैकधा क्रीडा-सम्बद्धाः, क्रीडक-सम्बद्धाः, केचन ईषद्-विषयाः च भवन्तो मम मुखात् श्रुतवन्तः एव तथा च, विगते प्रसारणे तु, राष्ट्र-मण्डलीय-क्रीडास्पर्धानां अस्मदीयाः नायकाः, निज-मनोगतानि, अस्य कार्यक्रमस्य माध्यमेन अस्मान् वर्णयन्ति स्म -
नमस्कारः, महोदय! अहं छवि-यादवः नोएडा-तः वदामि, अहं भवतः मन की बात-प्रसारणस्य नियमिता श्रोत्री, तथा चाद्य भवन्तं नैजं मनोगतं श्रावयितुमिच्छामि. अद्यत्वे ग्रीष्मावकाशः आरभत तथा च, मातृरूपेण पश्यामि यत् बालाः अधिकांशतया इन्टरनेट्-games-इति अन्तर्जालीयाः क्रीडाः क्रीडन्तः एव कालं यापयन्ति, परञ्च यदा वयं किशोराः आस्मः तदा प्रायेण traditional  games-इति पारम्परिकाः क्रीडाः क्रीडन्तः आस्मः, एताः प्रायेण गृहेभ्यः बाह्याः भवन्ति स्म | सप्तानां प्रस्तर-खण्डानां क्रीडा, खो-खो-क्रीडा-प्रभृतयः चाद्यत्वे विलुप्ताः प्रतीयन्ते | ममेदं निवेदनं यत् भवान् अद्यतनान् युव-किशोर-जनान् पारम्परिक-क्रीडा-विषये प्रबोधयतु, येन हि तेषामपि अभिरुचिः एतदर्थं प्रवर्धेत, धन्यवादः |”
छवि-यादव-महाभागे, भवत्याः दूरभाषाकारणायाः कृते   भूरिशो धन्यवादाः | सत्यमिदं यत् याः क्रीडाः कदाचित् प्रतिवीथी, प्रत्येकमपि बालस्य जीवनस्य अङ्गत्वेन अवर्तन्त, ताः सम्प्रति न्यूनीभवन्ति | एताः क्रीडाः विशेषेण ग्रीष्मावकाशस्य अङ्गत्वेन भवन्ति स्म |  कदाचित् मध्याह्ने, कदाचिच्च रात्रौ भोजनानन्तरं निश्चिन्तं बालाः सुदीर्घ-कालं यावत् क्रीडन्ति स्म, तथा च, काश्चन क्रीडास्तु तादृश्यः आसन् यदशेष-कुटुम्बं युगपदेव क्रीडति स्म कश्मीरतः कन्याकुमारीं यावत्, कच्छतः कामरूपं यावत् एताः अपरिमिताः क्रीडाः प्रत्येकमपि जनस्य शैशवस्य अङ्गत्वेन भवन्ति स्म | अस्तु, सम्भाव्यते, यदेताः क्रीडाः विविधेधु स्थलेषु पृथक्-पृथक्-नाम्ना अभिज्ञायन्ते स्म, यथा ‘पिट्ठू’ इति खेला विविधैः नामभिः परिज्ञायते | कश्चन एनां ‘लागोरी, अपरः सातोलिया, इतरः सात-पत्थर, अन्यः  डिकोरी, परश्च ‘सतोदिया न जाने, कति कति नामानि सन्ति एकस्याः एव खेलायाः | अस्माकं देशस्य विविधतायाः पृष्ठ-भूमौ निहिता एकता एतासु क्रीडासु अपि अवलोकयितुं शक्यते | का एव क्रीडा भिन्न-भिन्नेषु स्थानेषु, नाना-नामभिः अभिज्ञायते | अहं गुर्जरीयः, जानामि यत् गुजराते एका खेलास्ति,  या हि ‘चोमल-इस्तो’ इति निगद्यते | खेलेयं प्रायेण प्रत्येकमपि राज्ये क्रीड्यते स्म | कर्नाटके एषा ‘चौकाबारा, मध्यप्रदेशे ‘अत्तू’, केरळे ‘पकीड़ाकाली’, महाराष्ट्रे चम्पल, तमिलनाडौ ‘दायाम’ वा ‘थायाम, राजस्थाने च ‘चंगापो’ इति न जाने, कियन्ति नामानि आसन् परञ्च खेलनानान्तरम् अवगम्यते यत् प्रत्येकमपि राज्यवासी, विनैव भाषाज्ञानं कथयितुमर्हति स्म हो बाढम् ! वयमपि खेलामेनां क्रीडन्तः स्मः | अस्मासु को नाम तादृशो भविता येन शैशवे ‘गिल्ली-दण्डा’-इति खेला न खेलिता | गिल्ली-दण्डा’-इति क्रीडा लघु-ग्रामेभ्यः आरभ्य महानगरेषु अपि क्रीड्यमाना खेलास्ति | देशस्य नानाभागेषु एषा विविधैः नामभिः अभिज्ञायते | न्ध्रप्रदेशे ‘गोटिबिल्ला’ अथवा ‘कर्राबिल्ला’, उड़ीसा-राज्ये ‘गुलिबाड़ी’, महाराष्ट्रे ‘वित्तिडालू’ चेत्यादिभिः विविधैः नामभिः क्रीडैषा निगद्यते | यदा वयं खेलामः, अस्मासु ये अनुपमाः गुणाः सन्ति, तान् वयम् उन्मुक्ततया प्रकटयितुं शक्नुमः | स्यात् भवन्तः दृष्टवन्तः यत् केचन बालाः ये लज्जालवः सन्ति, परञ्च क्रीडावसरे ते अतिञ्चलाः भवन्ति, स्वं प्रकटयन्ति, ज्येष्ठाः ये गम्भीराः प्रतीयन्ते, खेलावसरे तेषु प्रच्छन्नः बालः बहिरागच्छति | पारम्परिकाः खेलाः किञ्चित् एतादृश्यो वर्तन्ते यत् शारीरिक-क्षमतया साकमेव ताः अस्मदीयां तार्किक-विचारणां, एकाग्रताम्, अवधानतां, स्फूर्तिञ्चापि सम्वर्धयन्ति | तथा च, क्रीडाः न केवलं क्रीडाः एव भवन्ति, ताः अस्मान् जीवन-मूल्यानि शिक्षयन्ति | केन प्रकारेण क्ष्यं निर्धारणीयम्, दृढ़ता केन प्रकारेण अवाप्तव्या, Team spirit- इति समूहभावः केन प्रकारेण समुत्पादनीयः, परस्परं सहयोगः कया रीत्या च सम्वर्धनीयः?  विगतेषु दिनेषु अहं पश्यन्नासं यत् व्यवसाय-प्रबन्धनेन सम्बद्धेषु प्रशिक्षण-कार्यक्रमेषु अपि समग्र-व्यक्तित्व-विकासस्य अन्तःसम्बन्ध-कौशलस्य च  सम्वर्धनार्थमपि अस्मदीयाः पारम्परिक्यः क्रीडाः अद्यत्वे उपयुञ्ज्यन्ते, तथा चातिसरलतया समग्र-विकासार्थं अस्माकं पारम्परिक्यः क्रीडाः समुपयोगिन्यो भवन्ति | बालाः भवन्तु वा पितामहो वा पितामही, आहोस्वित्, मातामहो वा मातामही, यदा सर्वे मिलित्वा खेलन्ति तदा युगान्तरालं सहसा विलुप्यते | युगपदेव, वयं स्वीयां संस्कृतिं परम्पराश्चापि सम्यक्तया अवगच्छामः | काश्चन क्रीडास्तु अस्मान् समाज-पर्यावरणादि-विषये जागरूकान् विदधति | कदाचिच्च चिन्ता भवति यत् अस्मदीयाः एताः क्रीडाः कर्हिचित् विलुप्ताः नैव स्युः, एवं जाते सति, न केवलं क्रीडाः, अपि तु, शैशवमपि विलुप्तं भविता, तथा च, पुनः वयं ताः कविताः शृण्वन्तो भविष्यामः -
यह दौलत भी ले लो
यह शौहरत भी ले लो
भले छीन लो मुझसे मेरी जवानी
मगर मुझको लौटा दो बचपन का सावन
वो कागज की कश्ती, वो बारिश का पानी ...
 गीतमिदमेव वयं शृण्वन्तो भविष्यामः, अत एव, एताः पारम्परिकाः खेलाः न कथमपि विलोपनीयाः सन्ति, अद्यत्वे नूनमिदम् आवश्यकं यत् विद्यालयाः, वीथ्यः वसतयश्च युवमण्डलानि च पुरोभूत्वा एताः क्रीडाः विवर्धयेयुः|आसां क्रीडानां दृश्याङ्कनं विधाय सान्द्र-मुद्रिकाः विरचयितुं शक्यन्ते, यासु क्रीडानां नियमाः, खेला-पद्धतयश्च प्रदर्शनीयाः स्युः | Animation- इति रेखा-वार्णिक-चलचित्राणि विनिर्मातुं शक्यन्ते येन अस्मदीयाः नूतनाः सन्ततयः, एताः वीथी-वसति-क्रीडाः द्रक्ष्यन्ति, खेलिष्यन्ति, विकसिष्यन्ति च |
       मम प्रियाः देशवासिनः! आगम्यमाने जून-मासीये पञ्चमे दिने अस्माकं देशः भारतम् अधिकृतरूपेण विश्व-पर्यावरण-दिवसस्य आतिथेयत्वं विधास्यति |  एषा हि भविष्यति भारतस्य कृते अतितरां महत्वपूर्णा उपलब्धिः, तथा च, जलवायु-परिवर्तनस्य न्यूनीकरण-दिशायां जगति भारतस्य वर्धमानाय नेतृत्वाय अपि स्वीकृति-प्राप्तेः परिचायिका अस्ति | ऐषमः क्रमे  विषय-वस्तु वर्तते ‘Beat Plastic Pollution’- अभिघट्य-प्रदूषणस्य पराभवः | ममेदं विनिवेदनं यत् भवन्तः सर्वे अस्य विषय-वस्तोः, भावं, महत्वञ्च अवगम्य वयं सर्वे सुनिश्चितं करवाम यत् वयं polythene, low grade plastic-इति अभिघट्य-वस्तूनि नैव उपयुञ्ज्युः, तथा चास्माकं प्रकृतौ वन्य-जीवने स्वास्थ्योपरि च जायमानम् अभिघट्य-प्रदूषणस्य नकारात्मकं प्रभावं न्यूनीकर्तुं, प्रयतेम | भवन्तः World Environment Day-इत्यस्य website wed-india2018-इत्यत्र गत्वा तत्र रोचक-रीत्या प्रदत्तान् अनेक-विधान् परमर्शान् पश्यन्तु, अवगच्छन्तु, तान् च निज-दैनन्दिने जीवने क्रियया अन्वेतुं  प्रयतेरन् | यदा भीषणः निदाघो भवति, जलाप्लावनं जायते | अनारतं वर्षा भवति | असह्यं शैत्यमापतति तदा सर्वेsपि विशेषज्ञाः भूत्वा global warming, climate change चेति जागतोष्णता-ऋतुपरिवर्तन-विषयान् सततं कथयन्ति परञ्च केवलं कथन-मात्रेण एव किं कार्यं सेत्स्यति?  प्रकृतिं प्रति  संवेदनशीलत्वं, प्रकृतेः संरक्षणञ्च अस्मदीयः सहजः स्वभावः स्यात्, अस्माकञ्च संस्कारेषु भवेत् | weather pattern- इति ऋतु-पद्धतिषु परिवर्तन-कारणात् विगतेषु केषुचिद्दिनेषु देशे तीव्र-प्रभञ्जन-वात्या-चक्राणि दुरापन्नानि, महती च जन-धन-क्षतिः जाता, अस्मदीया संस्कृतिः, अस्माकं परम्पराश्च नास्मान् प्रकृत्या संघर्षणम् अशिक्षन्त | प्रकृत्या साकं सद्भावेन स्थेयम्, प्रकृत्या सह आत्मानं संयोज्य वर्तितव्यमिति वयं भारतीयाः शिक्षिताः स्मः | महात्मगान्धी तु आजीवनं पदे पदे साग्रहं तथ्यमिदम् उपास्थापयत् | साम्प्रतं भारतं climate justice-इति विषयम् उपस्थापयति | Cop21-Paris-सन्धिषु भारतेन प्रमुखा भूमिका निर्व्यूढास्ति | यदा वयम् international solar alliance-इति आन्ताराष्ट्रिय-सौर-संयुति-माध्यमेन अशेष-विश्वं संयुक्तम् अकुर्म तर्हि एतेषां सर्वेषां मूले आसीत् – महात्मगान्धिनः तस्य स्वप्नस्य प्रपूरणस्य भावः | अस्मिन् पर्यावरण-दिवसे वयं सर्वे विषयमेनं विचारयेम यत् स्वीयं पृथ्वी-ग्रहं स्वच्छं हरितञ्च सन्धारयितुं वयं किं किं कर्तुं शक्नुमः? केन प्रकारेण वयमस्यां दिशि अग्रेर्तुं शक्नुमः? किं किञ्च नवाचारं कर्तुं पारयामः? वर्षर्तुः आसन्न-प्रायः, अस्मिन् क्रमे वयं वृक्षारोपणस्य आभिलेख्यं क्ष्यं सुनिश्चेतुं शक्नुमः, तथा च, न केवलं वृक्षारोपणमेव, परञ्च तेषां सम्वर्धन-पर्यन्तं तेषां सन्धारण-व्यवस्थापि करणीयास्ति |
   मम प्रियाः देशवासिनः, विशेषेण च, मम नव-युवानः सखायः! भवन्तः जून-मासस्य एकविशं दिनं सुस्मरन्ति, न केवलं भवन्तः, न च केवलं वयम्, अशेष-विश्वं जून-मासस्य एकविशं दिनं सुस्मरति | अशेष-जगति जून-मासस्य एकविशं दिनम् आन्ताराष्ट्रिय-योग-दिवस-रूपेण आयोज्यते, तथा चेदं सर्व-स्वीकृतं जातं जनाश्च नैक-मासेभ्यः प्रागेव पूर्व-सज्जाः आरभन्ते | एतेषु दिवसेषु वृत्तानि अधिगम्यन्ते यत् कृत्स्नेsपि जगति जून-मासस्य एकविशे दिने आन्ताराष्ट्रिय-योग-दिवसमायोजयितुं बहव्यः सज्जाः क्रियन्ते | yoga for unity- इत्यस्य harmonious society-इत्यस्य च अयं सन्देशोsस्ति यो हि जगति विगतेभ्यः कतिपयेभ्यः वर्षेभ्यः पौनःपुनिकम् अनुभूतः | संस्कृत-वाङ्मयस्य महाकविः भर्तृहरिः शताब्देभ्यः पूर्वं नैजे शतकत्रये अलिखत्
धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी,
सत्यं सूनुरयं दया च भगिनी भ्राता मनः संयमः।
शय्या भूमितलं दिशोSपि वसनं ज्ञानामृतं भोजनम्,
एते यस्य कुटुम्बिनः वद ! सखे कस्माद् भयं योगिनः।।
          - शताब्देभ्यः पूर्वम् उक्तस्य कथनस्य सरलार्थोsयमेव यत् नियमित-योगाभ्यास-करणेन केचन समीचीनाः लाभप्रदाः गुणाः ज्ञाति—सम्बन्धिभिः मित्रैश्च तुल्याः भवन्ति | योभ्यासेन साहसं समुत्पद्यते यद्धि सदा पितृ-तुल्यं सत् अस्मान् संरक्षति | क्षमाभावः उत्पद्यते यथा मातुः निज-बालान् प्रति भवति तथा च, मानसिकशान्तिः अस्मदीयं स्थायि-मित्रं सम्पद्यते | भर्तृहरिः थयति यत् नियमित-योगाचरणेन सत्यमस्माकं सन्ततिः,  दया अस्मदीया भगिनी, आत्मसंयमः अस्माकं भ्राता, स्वयं धरणी चास्माकं शय्या, ज्ञानञ्च अस्मदीयं क्षुधा-तृप्तिकरं भोजनं भवति | यदा एते सर्वे गुणाः कस्यचन सखायो भवेयुश्चेत् योगी सर्व-वधं यं विजयते |पुनरेकवारं र्वान् अपि देशवासिनो विनिवेदयामि यत्ते योगस्य स्वीयं रिक्थम् अग्रेसारयेयुः तथा च, स्वस्थस्य, प्रसन्नस्य, सद्भावपूर्णस्य च  राष्ट्रस्य निर्माणं कुर्युः |
     मम प्रियाः देशवासिनः! अद्य मई-मासस्य सप्तविंशो दिवसोsस्ति | अद्य भारतस्य प्रथम-प्रधानमन्त्रिणः पण्डि-जवाहरलाल-नेहरु-वर्यस्य पुण्यतिथिरस्ति | अहं पण्डित-वर्यं प्रणमामि | अस्य मई-मासस्य स्मृतिः अपरेण एकेन वृत्तेनापि संयुक्तास्ति, तदस्ति वीर-सावरकरस्य स्मरणम् | अष्टादश-शताब्दे सप्त-पञ्चाशत्तमे वर्षे अयमेव मई-मासः आसीत्, यदा भारतवासिनः आङ्ग्लान् विरुध्य स्वीयां शक्तिं प्रदर्शितवन्तः | देशस्य अनेकेषु भागेषु अस्मदीयाः युवानः कृषकाश्च निज-शौर्यं प्रदर्शयन्तः अन्यायं विरुध्य उत्तिष्ठितवन्तः | अयं  वीर-सावरकरः एवासीत्, यो हि निर्भयम् अलिखत् यत्  अष्टादश-शताब्दे सप्त-पञ्चाशत्तमे वर्षे यत्किमपि घटितं सः कथमपि विद्रोहो नासीत् अपि तु, स्वतन्त्रतायाः प्रप्रथमं युद्धमासीत् | सावरकर-वर्येण साकं लण्डस्थितस्य India House-इत्यस्य वीराः अस्य संग्रामस्य पञ्चाशत्तमां वर्ष-पूर्तिं सोल्लासं सोत्साहञ्च आयोजितवन्तः |  अयमपि अद्भुत-संयोगः एव, यदस्मिन् मासे स्वाधीनतायाः प्रथमः स्वतन्त्रः संग्रामः आरभ, तस्मिन्नेव मासे वीर-सावरकर-वर्यस्य जन्म अभवत् | सावरकर-वर्यस्य व्यक्तित्वं हि  विशेषता-सम्भरितमासीत्;  असौ शस्त्रस्य शास्त्रस्य च उपासकः आसीत् | सामान्यतया वयं वीर-सावरकर-वर्यं तस्य साहसार्थं आङ्ग्ल-शासन-विरोधि-संघर्षार्थञ्च जानीमः परञ्च एतदतिरिच्य सः अनन्यः ओजस्वी कविः समाज-परिष्कारकोsपि आसीत्, यो हि सदा सद्भावनाम् एकताञ्च प्रतिष्ठापयितुं प्रायतत | सावरकर-वर्यस्य विषये एकम् अद्भुत-वर्णनम् अस्माकम् आदरणीयेन अटल-बिहारि-वाजपेयिना कृतमस्ति | अटल-महोदयः अकथयत् सावरकरोsर्थात् तेजः, सावरकरोsर्थात् त्यागः, सावरकरोsर्थात् पः, सावरकरोsर्थात् तत्वम्, सावरकरोsर्थात् तर्कः, सावरकरोsर्थात् तारुण्यम्, सावरकरोsर्थात् शरः, सावरकरोsर्थात् खड्गः |  कियत् समुचितमिदं चित्रणमकरोत् अटल-बिहारि-वाजपेयि-महोदयः | सावरकर-वर्यः कवितां क्रान्तिञ्च सहैव स्वीकृतवान् | सम्वेदनशील-विः सन् युगपदेव असौ साहसिकः क्रान्तिकारी अप्यासीत् |       
  मम प्रियाः भ्रातरो भगिन्यश्च! अहं दृश्य-वाहिन्याम् एकां कथाम् अवलोकयन्नासम् | राजस्थाने सीकरस्य लघु-वसतीनां निर्धन-पुत्रिकाणाम् एषा कथासीत् | अस्मदीयाः एताः दुहितरः, याः कदाचित् अवकर-चयनार्थं प्रतिगृहं भिक्षाटनार्थञ्च विवशाः आसन् साम्प्रतमेताः सीवनम् अभ्यस्य निर्धनानां देहावरणार्थं वस्त्राणि सीव्यन्ति | अत्रत्याः एताः पुत्रिकाः, साम्प्रतं नैजानि निज-कौटुम्बिकानि च वस्त्राणि अतिरिच्य, सामान्यानि विशिष्टानि च वस्त्राणि अपि सीव्यन्ति | एताः अमुना कार्येण सहैव कौशल-विकासस्य प्रशिक्षणमपि अवाप्नुवन्ति | अस्मदीयाः इमाः दुहितरः अद्य आत्मनिर्भराः सम्वृत्ताः, सम्मानं निज-जीवनं यापयन्ति, अपि च, स्व-स्व-कुटुम्बार्थं शक्तिरूपेण प्रतिष्ठिताः सन्ति | आशा-विश्वासभ्यां सम्भरितानाम् एतासाम् अस्मदीय-पुत्रिकाणाम् उज्ज्वल-भविष्यत्कृते शुभकामनाः व्याहरामि |  एताः सुसिद्धं कृत्वा प्रदर्शितवत्यः यत् किञ्चित्करणार्थं यदि समुत्साहः दृढ-सङ्कल्पः भावश्चास्ति चेत् सत्स्वपि विविधेषु विघ्नेषु सफलता-प्राप्तिः नूनं शक्यास्ति, तथा च, नैषा केवलं सीकरस्य कथास्ति, हिन्दुस्थास्य प्रत्येकमपि कोणे भवन्तः एतत्सर्वम् अवलोकयितुमर्हन्ति | भवतः परितः, पार्श्ववर्तिषु च स्थलेषु यदि पश्यन्ति चेत् जनाः केन प्रकारेण काठिन्यानि पराभावयन्ति इति दृष्टि-गोचरं भविष्यति |      
      भवन्तः अनुभूतवन्तः स्युः यत् चाय-पानार्थं कदाचित् वयं चायापणं गच्छामः, तत्र चाय-पानानन्देन साकमेव कैश्चित् जनैः सह चर्चा-विचार-विमर्शादिकमपि भवति | एतत्सर्वं कदाचित् राजनीतिकमपि, सामाजिकं वा, चलचित्र-विषयकञ्च, क्रीडा-क्रीडक-सम्बद्धम् आहोस्वित्, देशस्य विविध-समस्या-विषयकमपि भवति परञ्चैतत्सर्वं चर्चामात्रमेव भवति, तथापि केचन जनाः तादृशाः सन्ति, ये निज-कार्यैः, निज-श्रमोत्साहाभ्यां च परिवर्तन-दिशि अग्रेसरन्ति, विचारितं परिचर्चितं च सर्वं क्रियया अन्वेतुं परिनिष्ठित-भावेन प्रयतन्ते | अन्येषां स्वप्नान् आत्मसात्-कृत्वा तान् पूर्णयितुं च निजोत्सर्गं क्रियमाणानां केषाञ्चन तादृशी एव कथा उड़ीसा-राज्ये कटक-नगरे कुटीर-वसतौ निवसतः डी.प्रकाश-रावस्य अस्ति | गतदिने एवाहं डी.प्रकाश-रावेण मेलन-सौभाग्यम् अलभम् | श्रीमान् डी.प्रकाश-रावः विगतेभ्यः पञ्चभ्यः दशकेभ्यः नगरे चाय-विक्रयं करोति | भवन्तः इदं विज्ञाय आश्चर्यम् अनुभविष्यन्ति यत् सामान्यः कश्चन चाय-विक्रेता, सप्तत्यधिक-बालानां जीवनानि शिक्षया प्रकाशयति | असौ मलिन-वसति-वास्तव्यानां बालानां कृते आशा-आश्वासन- नाम्ना विद्यालयमेकम् उदघाटयत् | एतदर्थं चाय-विक्रेतायं निज-धनागमस्य प्रतिशतं पन्चाशन्मितं भागं व्ययीकरोति | असौ विद्यालयम् आगम्यमानस्य प्रत्येकमपि बालकस्य कृते शिक्षा-स्वास्थ्य-भोजनानां पूर्णां व्यवस्थांरोति | डी.प्रकाश-रावस्य कठोर-श्रमस्य, समर्पित-निष्ठायाश्च कृते निर्धन-बालानाञ्च जीवन-समुन्नयनाय भूरि भूरि वर्धापनानि वदामि | ‘तमसो मा ज्योतिर्गमय- इति वेद-वाक्यं हि को नाम न जानाति परञ्च डी.प्रकाश-रावः वेद-वाक्यमिदं जीवित्वा एतेषां निर्धन-बालानां तमोमयं जीवनं ज्योतिर्मयम् अकरोत् | एतस्य जीवनमस्मभ्यः सर्वेभ्यः, समाजस्य समग्र-देशस्य च कृते प्रेरणाप्रदं वर्तते | भवतां परिपार्श्व-वर्तिषु स्थलेष्वपि, एतादृश्यः प्रेरक-घटना-शृङ्खलाः सम्भवेयुः | गणिताः घटनाश्च स्युः | गच्छन्तु ! वयं सकारात्मिकताम् अग्रेसारयेम |
   जून-मासे निदाघः तावान् उग्रो भवति यज्जनाः वर्षाम् आतुरतया प्रतीक्षन्ते, तथा च, आशान्विताः सन्तः नभसि मेघान् निर्निमेष-दृशा अवलोकयन्ति | इतः परं कतिपय-दिनानन्तरं जनाः चन्द्रमसमपि प्रतीक्षिष्यन्ते | चन्द्रमसो दर्शनमर्थात्द्-पर्वणः आयोजनं शक्यं भविता | रमज़ान-मासावधौ मासात्मकस्य उपवासस्य अनन्तरम् द्-पर्व समुत्सवारम्भस्य प्रतीकत्वेन वर्तते | दृढं विश्वसिमि यत् र्वेsपि द्-पर्व सोत्साहमायोजयिष्यन्ति | अवसरेsस्मिन् बालाः विशेषेण ईदीति विशिष्टोपहारमपि लभन्ते | आशासे यत् द्-समुत्सवः अस्माकं समाजे सद्भाव-न्धनं दृढतरं विधास्यति | सर्वेभ्यो भूरिशो मङ्गल-कामनाः विलसन्तुतराम्  |
मम प्रियाः देशवासिनः! भवतां सर्वेषां कृते कोटिशो धन्यवादाः | पुनरेकवारम् आगामिनि मासे मन की बात-प्रसारणावसरे मेलिष्यामः |
नमस्कारः !



Hindi translation:
मन की बात’ (44वीं कड़ी)
प्रसारण तिथि: 27.05.2018


नमस्कार ! मन की बातके माध्यम से फिर एक बार आप सबसे   रूबरू होने का अवसर मिला है | आप लोगों को भलीभांति याद होगा   नौ-सेना की 6 महिला कमांडरों, ये एक दल पिछले कई महीनों से समुद्र की यात्रा पर था | ‘नाविका सागर परिक्रमा’ - जी मैं उनके विषय में कुछ बात करना चाहता हूँ | भारत की इन 6 बेटियों ने, उनकी इस team ने two hundred and fifty four days - 250 से भी ज़्यादा दिन समुद्र के माध्यम से INSV तारिणी में पूरी दुनिया की सैर कर 21 मई को भारत वापस लौटी हैं और पूरे देश ने उनका काफी गर्मजोशी से स्वागत किया | उन्होंने विभिन्न महासागरों और कई समुद्रों में यात्रा करते हुए लगभग बाईस हज़ार nautical miles की दूरी तय की | यह विश्व में अपने आप में एक पहली घटना थी | गत बुधवार को मुझे इन सभी बेटियों से मिलने का, उनके अनुभव सुनने का अवसर मिला | मैं एक बार फिर इन बेटियों को उनके adventure को, Navy की प्रतिष्ठा को बढ़ाने के लिए, भारत का मान-सम्मान बढ़ाने के लिये और विशेषकर दुनिया को भी लगे कि भारत की बेटियाँ कम नहीं हैं - ये सन्देश पहुँचाने के लिए बहुत-बहुत बधाई देता हूँ | Sense of adventure कौन नहीं जानता है | अगर हम मानव जाति की विकास यात्रा देखें तो किसी-न-किसी adventure की कोख में ही प्रगति पैदा हुई है | विकास adventure की गोद में ही तो जन्म लेता है | कुछ कर गुजरने का इरादा, कुछ लीक  से हटकर के करने का मायना, कुछ extra ordinary करने की बात, मैं भी कुछ कर सकता हूँ - ये भाव, करने वाले भले कम हों, लेकिन युगों तक, कोटि-कोटि लोगों को प्रेरणा मिलती रहती है |  पिछले दिनों आपने देखा होगा Mount Everest पर चढ़ने वालों के विषय में कई नयी-नयी बातें ध्यान में आयी हैं और सदियों से Everest मानव जाति को ललकारता रहा और बहादुर लोग उस चुनौती को स्वीकारते भी रहे हैं |
16 मई को महाराष्ट्र के चंद्रपुर के एक आश्रम-स्कूल के         5 आदिवासी बच्चों ने tribal students – मनीषा धुर्वे, प्रमेश आले, उमाकान्त मडवी, कविदास कातमोड़े, विकास सोयाम इन हमारे आदिवासी बच्चों के एक दल ने दुनिया की सबसे ऊँची चोटी पर चढ़ाई की | आश्रम-स्कूल के इन छात्रों ने अगस्त 2017 में training शुरू की थी | वर्धा, हैदराबाद, दार्जिलिंग, लेह, लद्दाख - इनकी training हुई | इन युवाओं को मिशन शौर्यके तहत चुना गया था और नाम के ही अनुरूप Everest फतह कर उन्होंने पूरे देश को गौरवान्वित किया है | मैं चंद्रपुर के स्कूल के लोगों को, इन मेरे नन्हे-मुन्हे साथियों को, ह्रदय से बहुत-बहुत बधाई देता हूँ | हाल ही में 16 वर्षीय शिवांगी पाठक, नेपाल की ओर से Everest फ़तह करने वाली सबसे कम उम्र की भारतीय महिला बनी | बेटी शिवांगी को बहुत-बहुत बधाई |
अजीत बजाज और उनकी बेटी दीया Everest की चढ़ाई करने वाली पहली भारतीय पिता-पुत्री की जोड़ी बन गयी | ऐसा ही नहीं कि केवल युवा ही Everest की चढ़ाई कर रहे हैं | संगीता बहल ने 19 मई को Everest की चढ़ाई की और संगीता बहल की आयु 50 से भी अधिक है | Everest पर चढ़ाई करने वाले कुछ ऐसे भी हैं, जिन्होंने दिखाया कि उनके पास न केवल skill है बल्कि वे sensitive भी हैं | अभी पिछले दिनों स्वच्छ गंगा अभियान के तहत BSF के एक group ने Everest की चढ़ाई की, पर पूरी team Everest से ढ़ेर सारा कूड़ा अपने साथ नीचे उतार कर लायी | यह कार्य प्रशंसनीय तो है ही, साथ-ही-साथ यह स्वच्छता के प्रति, पर्यावरण के प्रति उनकी प्रतिबद्धता को भी दर्शाता है | वर्षों से लोग Everest की चढ़ाई करते रहे हैं और ऐसे कई लोग हैं, जिन्होंने सफलतापूर्वक इसे पूरा किया है | मैं इन सभी साहसी वीरों को,  ख़ासकर के बेटियों को ह्रदय से बहुत-बहुत बधाई देता हूँ |
                                
मेरे प्यारे देशवासियो और ख़ासकर के मेरे नौजवान दोस्तो ! अभी दो महीने पहले जब मैंने fit India की बात की थी तो मैंने नहीं सोचा था कि इस पर इतना अच्छा response आएगा | इतनी भारी संख्या में हर क्षेत्र से लोग इसके support में आगे आएँगे | जब में fit India की बात करता हूँ तो मैं मानता हूँ कि जितना हम खेलेंगे, उतना ही देश खेलेगा | social media पर लोग fitness challenge की videos share कर रहे हैं, उसमें एक-दूसरे को tag कर उन्हें challenge कर रहे हैं | Fit India के इस अभियान से आज हर कोई जुड़ रहा है | चाहे फिल्म से जुड़े लोग हों, sports से जुड़े लोग हों या देश के आम-जन, सेना के जवान हों, स्कूल की टीचर हों, चारों तरफ़ से एक ही गूँज सुनाई दे रही है – ‘हम fit तो India fit| मेरे लिए खुशी की बात है कि मुझे भी भारतीय क्रिकेट टीम के कप्तान विराट कोहली जी ने challenge किया है और मैंने भी उनके challenge को स्वीकार किया है | मैं मानता हूँ कि ये बहुत अच्छी चीज है और इस तरह का challenge हमें fit रखने और दूसरों को भी fit रहने के लिए प्रोत्साहित करेगा |
मेरे प्यारे देशवासियो ! मन की बातमें कई बार खेल के संबंध में, खिलाडियों के संबंध में, कुछ-न-कुछ बातें आपने मेरे से सुनी ही हैं और पिछली बार तो Commonwealth Games के हमारे नायक, अपनी मन की बातें, इस कार्यक्रम के माध्यम से हमें बता रहे थे -
नमस्कार सर ! मैं छवि यादव नोएडा से बोल रही हूँ, मैं आपकी मन की बातकी regular listener हूँ और आज आपसे अपनी मन की बात करना चाहती हूँ. आजकल गर्मी की छुट्टियाँ शुरू हो गयी हैं और एक माँ होने के नाते मैं देख रही हूँ कि बच्चे ज़्यादातर समय इंटरनेट games खेलते हुए बिताते हैं, जब कि जब हम छोटे थे तो हम traditional  games  जो कि ज़्यादातर outdoor games होते थे, वो खेलते थे, जैसा कि एक game था जिसमें 7 पत्थर के टुकड़े एक के ऊपर एक रखके उसे ball से मारते थे और ऊँच-नीच होता था, खो-खो, ये सब game जो आजकल खो से गए हैं | मेरा ये निवेदन है कि आप आजकल की generation को कुछ traditional  games  के बारे में बताएं, जिससे उनकी भी रूचि इस तरफ़ बढ़े, धन्यवाद |”
छवि यादव जी, आपके phone call के लिए आपका बहुत धन्यवाद | ये बात सही है कि जो खेल कभी गली-गली, हर बच्चे के जीवन का हिस्सा होते थे, वे आज कम होते जा रहे हैं | ये खेल ख़ासकर गर्मी की छुट्टियों का विशेष हिस्सा होते थे | कभी भरी दोपहरी में, तो कभी रात में खाने के बाद बिना किसी चिंता के, बिल्कुल बेफिक्र होकर के बच्चे घंटो-घंटो तक खेला करते थे और कुछ खेल तो ऐसे भी हैं, जो पूरा परिवार साथ में खेला करता था पिट्ठू हो या कंचे हो, खो-खो हो, लट्टू हो या गिल्ली-डंडा हो, न जाने.....अनगिनत खेल कश्मीर से कन्याकुमारी, कच्छ से कामरूप तक हर किसी के बचपन का हिस्सा हुआ करते थे | हाँ, यह हो सकता है कि अलग-अलग जगह वो अलग-अलग नामों से जाने जाते थे, जैसे अब पिट्ठू ही यह खेल कई नामों से जाना जाता है | कोई उसे लागोरी, सातोलिया, सात पत्थर, डिकोरी, सतोदिया न जाने कितने नाम हैं एक ही खेल के | परंपरागत खेलों में दोनों तरह के खेल हैं | out door भी हैं, indoor भी हैं | हमारे देश की विविधता के पीछे छिपी एकता इन खेलों में भी देखी जा सकती है | एक ही खेल अलग-अलग जगह, अलग-अलग नामों से जाना जाता है | मैं गुजरात से हूँ मुझे पता है गुजरात में एक खेल है, जिसे चोमल-इस्तो कहते हैं | ये कोड़ियों या इमली के बीज या dice के साथ और 8x8 के square board के साथ खेला जाता है | यह खेल लगभग हर राज्य में खेला जाता था | कर्नाटक में इसे चौकाबारा कहते थे, मध्यप्रदेश में अत्तू | केरल में पकीड़ाकाली तो महाराष्ट्र में चम्पल, तो तमिलनाडु में दायाम और थायाम, तो कहीं राजस्थान में चंगापो न जाने कितने नाम थे लेकिन खेलने के बाद पता चलता है, हर राज्य वाले को भाषा भले न जानता हो अरे वाह! ये खेल तो हम भी करते थे | हम में से कौन होगा, जिसने बचपन में गिल्ली-डंडा न खेला हो | गिल्ली-डंडा तो गाँव से लेकर शहरों तक में खेले जाने वाला खेल है | देश के अलग-अलग भागों में इसे अलग-अलग नामों से जाना जाता है | आंध्रप्रदेश में इसे गोटिबिल्ला या कर्राबिल्ला के नाम से जानते हैं | उड़ीसा में उसे गुलिबाड़ी कहते हैं तो महाराष्ट्र में इसे वित्तिडालू कहते हैं | कुछ खेलों का अपना एक season होता है | जैसे पतंग उड़ाने का भी एक season होता है | जब हर कोई पतंग उड़ाता है जब हम खेलते हैं, हम में जो unique qualities होती हैं, हम उन्हें freely express कर पाते हैं | आपने देखा होगा कई बच्चे, जो शर्मीले स्वभाव के होते हैं लेकिन खेलते समय बहुत ही चंचल हो जाते हैं | ख़ुद को express करते हैं, बड़े जो गंभीर से दिखते हैं, खेलते समय उनमें जो एक बच्चा छिपा होता है, वो बाहर आता है | पारंपरिक खेल कुछ इस तरह से बने हैं कि शारीरिक क्षमता के साथ-साथ वो हमारी logical thinking, एकाग्रता, सजगता, स्फूर्ति को भी बढ़ावा देते हैं | और खेल सिर्फ खेल नहीं होते हैं, वह जीवन के मूल्यों को सिखाते हैं | लक्ष्य तय करना, दृढ़ता कैसे हासिल करना!, team spirit कैसे पैदा होना, परस्पर सहयोग कैसे करना | पिछले दिनों मैं देख रहा था कि business management से जुड़े हुए training programmes में भी overall personality development और interpersonal skills के improvement के लिए भी हमारे जो परंपरागत खेल थे, उसका आजकल उपयोग हो रहा है और बड़ी आसानी से overall development में हमारे खेल काम आ रहे हैं और फिर इन खेलों को खेलने की कोई उम्र तो है ही नहीं | बच्चों से ले करके दादा-दादी, नाना-नानी जब सब खेलते हैं तो यह जो कहते हैं न generation gap, अरे वो भी छू-मंतर हो जाता है | साथ-ही-साथ हम अपनी संस्कृति और परम्पराओं को भी जानते हैं | कई खेल हमें समाज, पर्यावरण आदि के बारे में भी जागरूक करते हैं | कभी-कभी चिंता होती है कि कहीं हमारे यह खेल खो न जाएँ और वह सिर्फ खेल ही नहीं खो जाएगा, कहीं बचपन ही खो जाएगा और फिर उस कविताओं को हम सुनते रहेंगे -
यह दौलत भी ले लो
यह शौहरत भी ले लो
भले छीन लो मुझसे मेरी जवानी
मगर मुझको लौटा दो बचपन का सावन
वो कागज की कश्ती, वो बारिश का पानी

यही गीत हम सुनते रह जाएँगे और इसीलिए यह पारंपरिक खेल, इसको खोना नहीं है आज आवश्यकता है कि स्कूल, मौहल्ले, युवा-मंडल आगे आकर इन खेलों को बढ़ावा दें | crowd sourcing के द्वारा हम अपने पारंपरिक खेलों का एक बहुत बड़ा archive बना सकते हैं | इन खेलों के videos बनाए जा सकते हैं, जिनमें खेलों के नियम, खेलने के तरीके के बारे में दिखाया जा सकता है | Animation फ़िल्में भी बनाई जा सकती हैं ताकि हमारी जो नई पीढ़ी है, जिनके लिए यह गलियों में खेले जाने वाले खेल कभी-कभी अज़ूबा होता है - वह देखेंगे, खेलेंगे, खिलेंगे |
    मेरे प्यारे देशवासियो ! आने वाले 5 जून को हमारा देश भारत आधिकारिक तौर पर World Environment Day Celebration विश्व पर्यावरण दिवस को भारत host करेगा | यह भारत के लिए एक बहुत महत्वपूर्ण उपलब्धि है और यह जलवायु परिवर्तन को कम करने की दिशा में विश्व में भारत के बढ़ते नेतृत्व को भी स्वीकृति मिल रही है - इसका परिचायक है | इस बार की theme है ‘Beat Plastic Pollution’ | मेरी आप सभी से अपील है, इस theme के भाव को, इसके महत्व को समझते हुए हम सब यह सुनिश्चित करें कि हम polythene, low grade plastic का उपयोग न करें और Plastic Pollution का जो एक negative impact हमारी प्रकृति पर, wild life पर और हमारे स्वास्थ्य पर पड़ रहा है, उसे कम करने का प्रयास करें | World Environment Day की website wed-india2018 पर जाएँ और वहाँ ढ़ेर सारे सुझाव बड़े ही रोचक ढ़ंग से दिए गए हैं - देखें, जानें और उन्हें अपने रोजमर्रा के जीवन में उतारने का प्रयास करें | जब भयंकर गर्मी होती है, बाढ़ होती है | बारिश थमती नहीं है | असहनीय ठंड पड़ जाती है तो हर कोई expert बन करके global warming, climate change इसकी बातें करता है लेकिन क्या बातें करने से बात बनती है क्या? प्रकृति के प्रति संवेदनशील होना, प्रकृति की रक्षा करना, यह हमारा सहज स्वभाव होना चाहिए, हमारे संस्कारों में होना चाहिए | पिछले कुछ हफ़्तों में हम सभी ने देखा कि देश के अलग-अलग क्षेत्रों में धूल-आँधी चली, तेज़ हवाओं के साथ-साथ भारी वर्षा भी हुई, जो कि unseasonal है | जान-हानि भी हुई, माल-हानि भी हुई | यह सारी चीज़ें मूलतः weather pattern में जो बदलाव है, उसी का परिणाम है हमारी संस्कृति, हमारी परंपरा ने हमें प्रकृति के साथ संघर्ष करना नहीं सिखाया है | हमें प्रकृति के साथ सदभाव से रहना है, प्रकृति के साथ जुड़ करके रहना है | महात्मा गाँधी ने तो जीवन भर हर कदम इस बात की वकालत की थी | जब आज भारत climate justice की बात करता है | जब भारत ने Cop21 और Paris समझौते में प्रमुख भूमिका निभाई | जब हमनें international solar alliance के माध्यम से पूरी दुनिया को एकजुट किया तो इन सबके मूल में महात्मा गाँधी के उस सपने को पूरा करने का एक भाव था | इस पर्यावरण दिवस पर हम सब इस बारे में सोचें कि हम अपने planet को स्वच्छ और हरित बनाने के लिए क्या कर सकते हैं? किस तरह इस दिशा में आगे बढ़ सकते हैं? क्या innovative कर सकते हैं? बारिश का मौसम आने वाला है, हम इस बार record वृक्षारोपण का लक्ष्य ले सकते हैं और केवल वृक्ष लगाना ही नहीं बल्कि उसके बड़े होने तक उसके रख-रखाव की व्यवस्था करना |

मेरे प्यारे देशवासियो और विशेषकर के मेरे नौजवान साथियो ! आप 21 जून को बराबर अब याद रखते हैं, आप ही नहीं, हम ही नहीं सारी दुनिया 21 जून को याद रखती है | पूरे विश्व के लिए 21 जून अंतर्राष्ट्रीय योग दिवस के रूप में मनाया जाता है और ये सर्व-स्वीकृत हो चुका है और लोग महीनों पहले तैयारियाँ शुरू कर देते हैं | इन दिनों ख़बर मिल रही है, सारी दुनिया में 21 जून को अंतर्राष्ट्रीय योग दिवस मनाने की भरसक तैयारियाँ चल रही हैं | yoga for unity और harmonious society का ये वो सन्देश है, जो विश्व ने पिछले कुछ वर्षों से बार-बार अनुभव किया है | संस्कृत के महान कवि भर्तृहरि ने सदियों पहले अपने शतकत्रयम् में लिखा था
धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी
सत्यं सूनुरयं दया च भगिनी भ्राता मनः संयमः।
शय्या भूमितलं दिशोSपि वसनं ज्ञानामृतं भोजनं
एते यस्य कुटिम्बिनः वद सखे कस्माद् भयं योगिनः।।

सदियों पहले ये कही गई बात का सीधा-सीधा मतलब है कि नियमित योगा अभ्यास करने पर कुछ अच्छे गुण सगे-सम्बन्धियों और मित्रों की तरह हो जाते हैं | योग करने से साहस पैदा होता है जो सदा ही पिता की तरह हमारी रक्षा करता है | क्षमा का भाव उत्पन्न होता है जैसा माँ का अपने बच्चों के लिए होता है और मानसिक शांति हमारी स्थायी मित्र बन जाती है | भर्तृहरि ने कहा है कि नियमित योग करने से सत्य हमारी संतान, दया हमारी बहन, आत्मसंयम हमारा भाई, स्वयं धरती हमारा बिस्तर और ज्ञान हमारी भूख मिटाने वाला बन जाता है | जब इतने सारे गुण किसी के साथी बन जाएँ तो योगी सभी प्रकार के भय पर विजय प्राप्त कर लेता है | एक बार फिर मैं सभी देशवासियों से अपील करता हूँ कि वे योग की अपनी विरासत को आगे बढ़ायें और एक स्वस्थ, खुशहाल और सद्भावपूर्ण राष्ट्र का निर्माण करें |
    मेरे प्यारे देशवासियो ! आज 27 मई है | भारत के प्रथम प्रधानमंत्री पंडित जवाहरलाल नेहरु जी की पुण्यतिथि है | मैं पंडित जी को प्रणाम करता हूँ | इस मई महीने की याद एक और बात से भी जुड़ी है और वो है वीर सावरकर | 1857 में ये मई का ही महीना था, जब भारतवासियों ने अंग्रेजों को अपनी ताकत दिखाई थी | देश के कई हिस्सों में हमारे जवान और किसान अपनी बहादुरी दिखाते हुए अन्याय के विरोध में उठ खड़े हुए थे | दुःख की बात है कि हम बहुत लम्बे समय तक 1857 की घटनाओं को केवल विद्रोह या सिपाही विद्रोह कहते रहे | वास्तव में उस घटना को न केवल कम करके आँका गया बल्कि यह हमारे स्वाभिमान को धक्का पहुँचाने का भी एक प्रयास था | यह वीर सावरकर ही थे, जिन्होंने निर्भीक हो के लिखा कि 1857 में जो कुछ भी हुआ वो कोई विद्रोह नहीं था बल्कि आजादी की पहली लड़ाई थी | सावरकर सहित लंदन के India House के वीरों ने इसकी 50वीं वर्षगांठ धूमधाम से मनाई | यह भी एक अद्भुत संयोग है कि जिस महीने में स्वतंत्रता का पहला स्वतंत्र संग्राम आरंभ हुआ, उसी महीने में वीर सावरकर जी का जन्म हुआ | सावरकर जी का व्यक्तित्व विशेषताओं से भरा था; शस्त्र और शास्त्र दोनों के उपासक थे | आमतौर पर वीर सावरकर को उनकी बहादुरी और ब्रिटिश राज के खिलाफ़ उनके संघर्ष के लिए जानते हैं लेकिन इन सबके अलावा वे एक ओज़स्वी कवि और समाज सुधारक भी थे, जिन्होंने हमेशा सद्भावना और एकता पर बल दिया | सावरकर जी के बारे में एक अद्भुत वर्णन हमारे प्रिय आदरणीय अटल बिहारी वाजपेयी जी ने किया है | अटल जी ने कहा था सावरकर माने तेज़, सावरकर माने त्याग, सावरकर माने तप, सावरकर माने तत्व, सावरकर माने तर्क, सावरकर माने तारुण्य, सावरकर माने तीर, सावरकर माने तलवार | कितना सटीक चित्रण किया था अटल जी ने | सावरकर कविता और क्रांति दोनों को साथ लेकर चले | संवेदनशील कवि होने के साथ-साथ वे साहसिक क्रांतिकारी भी थे |       

मेरे प्यारे भाइयो-बहनो ! मैं टी.वी. पर एक कहानी देख रहा था | राजस्थान के सीकर की कच्ची बस्तियों की हमारी ग़रीब बेटियों की | हमारी ये बेटियाँ, जो कभी कचरा बीनने से लेकर घर-घर माँगने को मजबूर थीं - आज वें सिलाई का काम सीख कर ग़रीबों का तन ढ़कने के लिए कपड़े सिल रही हैं | यहाँ की बेटियाँ, आज अपने और अपने परिवार के कपड़ों के अलावा सामान्य से लेकर अच्छे कपड़े तक सिल रही हैं | वे इसके साथ-साथ कौशल विकास का course भी कर रही हैं | हमारी ये बेटियाँ आज आत्मनिर्भर बनी हैं | सम्मान के साथ अपना जीवन जी रही है और अपने-अपने परिवार के लिए एक ताक़त बन गई है | मैं आशा और विश्वास से भरी हमारी इन बेटियों को उनके उज्ज्वल भविष्य की शुभकामनाएँ देता हूँ | इन्होंने दिखाया है कि अगर कुछ कर दिखाने का जज़्बा हो और उसके लिए आप कृतसंकल्पित हों तो तमाम मुश्किलों के बीच भी सफलता हासिल की जा सकती है और ये सिर्फ सीकर की बात नहीं है हिन्दुस्तान के हर कोने में आपको ये सब देखने को मिलेगा | आपके पास, अड़ोस-पड़ोस में नज़र करोगे तो ध्यान में आएगा कि लोग किस प्रकार से परेशानियों को परास्त करते हैं | आपने महसूस किया होगा कि जब भी हम किसी चाय की दुकान पर जाते हैं, वहाँ की चाय का आनंद लेते हैं तो साथ के कुछ लोगों से चर्चा और विचार-विमर्श भी होता ही है | ये चर्चा राजनीतिक भी होती है, सामाजिक भी होती है, चलचित्र की भी होती है, खेल और खिलाड़ियों की भी होती है, देश की समस्याओं पर भी होती है - कि ऐसी समस्या है - इसका समाधान ऐसे होगा - ये करना चाहिए लेकिन अक्सर ये चीज़ें सिर्फ चर्चा तक सीमित रह जाती हैं लेकिन कुछ लोग ऐसे होते हैं, जो अपने कार्यों से, अपनी मेहनत और लगन से बदलाव लाने की दिशा में आगे बढ़ते हैं, उसे हकीकत का रूप देते हैं | दूसरों के सपनों को अपना बना लेने वाले और उन्हें पूरा करने के लिए खुद को खपा देने की कुछ ऐसी ही कहानी उड़ीसा के कटक शहर के झुग्गी-झोपड़ी में रहने वाले डी. प्रकाश राव की | कल ही मुझे  डी. प्रकाश राव से मिलने का सोभाग्य मिला | श्रीमान् डी. प्रकाश राव पिछले पाँच दशक से शहर में चाय बेच  रहे हैं | एक मामूली सी चाय बेचने वाला, आज आप जानकर हैरान हो जायेंगे 70 से अधिक बच्चों के जीवन में शिक्षा का उजियारा भर रहा है | उन्होंने बस्ती और झुग्गियों में रहने वाले बच्चों के लिए आशा आश्वासन नाम का एक स्कूल खोला | जिस पर ये ग़रीब चाय वाला अपनी आय का 50% धन उसी में खर्च कर देता है | वे स्कूल में आने वाले सभी बच्चों को शिक्षा, स्वास्थ्य और भोजन की पूरी व्यवस्था करते हैं | में डी. प्रकाश राव की कड़ी मेहनत, उनकी लगन और उन ग़रीब बच्चों के जीवन को नयी दिशा देने के लिए बहुत-बहुत बधाई देता हूँ |    उन्होंने उनकी ज़िन्दगी के अँधेरे को समाप्त कर दिया है | ‘तमसो मा ज्योतिर्गमयये वेद-वाक्य कौन नहीं जानता है लेकिन उसको जी करके दिखाया है डी. प्रकाश राव ने | उनकी जीवन हम सभी के लिए, समाज और पूरे देश के लिए एक प्रेरणा है | आप के भी अगल-बगल में ऐसी प्रेरक घटनाओं की श्रृंखला होगी | अनगिनत घटनाएँ होंगी | आइये हम सकारात्मकता को आगे बढाएं |
जून के महीने में इतनी अधिक गर्मी होती है कि लोग बारिश का इंतज़ार करते हैं और इस उम्मीद में आसमान में बादलों की ओर टकटकी लगाये देखते हैं | अब से कुछ दिनों बाद लोग चाँद की भी प्रतीक्षा करेंगे | चाँद दिखाई देने का अर्थ यह है कि ईद मनाई जा सकती है | रमज़ान के दौरान एक महीने के उपवास के बाद ईद का पर्व जश्न की शुरुआत का प्रतीक है | मुझे विश्वास है कि सभी लोग ईद को पूरे उत्साह से मनायेंगे | इस अवसर पर बच्चों को विशेष तौर पर अच्छी ईदी भी मिलेगी | आशा करता हूँ कि ईद का त्योहार हमारे समाज में सद्भाव के बंधन को और मज़बूती प्रदान करेगा | सबको बहुत-बहुत शुभकामनाएँ |
मेरे प्यारे देशवासियो ! आप सबका बहुत-बहुत धन्यवाद | फिर एक बार अगले महीने मन की बातमें मिलेंगे |
नमस्कार !
*****





No comments: