‘मनोगतम्’
– ५३’
‘मन की बात’ (५३-वीं कड़ी) प्रसारणतिथि: - २४-०२-२०१९
- संस्कृत-भाषान्तर-कर्ता - डॉ.बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः, नमस्कारः |
‘मन की बात’-इति प्रसारणम् आरभमाणोsहम् अद्य
मनसि भावाकुलतामनुभवामि |
दश-दिनेभ्यः प्राक्, भारत-माता स्वीयान् वीर-सुपुत्रान् वियुक्तान् अन्वभवत् | एते पराक्रमशीलाः वीराः, अस्माकं सपाद-शतकोटि-भारतीयानां रक्षायै हुतात्मनः सञ्जाताः | देशवासिनः सुखेन शयीरन्, अत एव, एते अस्मदीयाः वीर-सुपुत्राः, अहर्निशम् अनारतञ्च सेवन्ते | पुलवामा-क्षेत्रे आतङ्काक्रमणे, वीर-सैनिकानाम् आत्म-बलिदानानन्तरं
अशेष-देशे जनेषु, जनमानसेषु च, आघातः आक्रोशश्च प्रवर्तेते | हुतात्मनः तेषाञ्च कुटुम्बानि प्रति, परितः सम्वेदनाः
समुद्भवन्ति | अस्याः आतङ्कहिंसायाः विरोधार्थम्, यः आवेगो भवतां मदीये च मानसे वर्तते, सः एव भावः, प्रत्येकमपि देशवासिनाम् अन्तर्मनस्सु वर्तते तथा च, मानवतायां विश्वासकर्तुः विश्वस्य अपि मानवतावादिषु समुदायेषु अस्ति | भारत-मातुः रक्षायै, निज-प्राणार्पकान्, देशस्य सर्वान् वीर-सुपुत्रान्, नमामि | इदं बलिदानम्, आतङ्कं
समूलं
प्रणाशयितुम् अस्मान् निरन्तरं प्रेरयिष्यति, अस्मदीयं सङ्कल्पम् इतःपरमपि
दृढतरं विधास्यति |
देशस्य
सम्मुखं समापतितस्य अस्य समाह्वानस्य प्रतीकारः, अस्माभिः सर्वैः जातिवादं, सम्प्रदायवादं, क्षेत्रवादं सर्वान् अपि मतभेदान् च विस्मृत्य करणीयः येन आतङ्कं विरुद्ध्य अस्मदीयः पदक्षेपः
पूर्वकालापेक्षया अधिकं दृढतरः स्यात्, अधिकतरः शक्तः
निर्णायकश्च भवेत् | अस्मदीयं सशस्त्र-बलं
सर्वदैव अद्वितीय-साहसस्य पराक्रमस्य च प्रदर्शनं कुर्वदस्ति | शान्तेः स्थापनायै अमुना यत्र अद्भुता क्षमता प्रदर्शिता, तत्रैव च आक्रमण-कर्तॄन् अपि तेषामेव भाषया
प्रत्युत्तरितुमाचरितम् |
भवन्तो दृष्टवन्तः स्युः यत् आक्रमणस्य शत-होरावधावेव केन प्रकारेण समुपायाः
अनुष्ठिताः | सेनाः आतङ्कवादिनः तेषाञ्च सहायकान् समूलं नाशयितुं सङ्कल्पं धृतवत्यः | वीर-सैनिकानां
बलिदानानन्तरम्,
सञ्चारमाध्यमानां माध्यमेन तेषां
कुटुम्ब-जनानां यानि प्रेरणादायीनि तथ्यानि
प्रकाशितानि, तानि अशेष-देशस्य साहसम्
इतःपरमपि बलवत्तरं व्यदधात् | बिहारस्य भागलपुरस्य हुतात्मनः रतनठाकुरस्य पिता रामनिरंजन-महोदयः, दुःखस्य अस्मिन् क्षणेsपि यं दृढभावं प्रादर्शयत्, सः अस्मान् सर्वान् सततं प्रेरयति | तेनोक्तं यदसौ नैजम् अपरं पुत्रमपि शत्रून्
प्रतीकर्तुं प्रेषयिष्यति, तथा चावश्यकतायां सत्यां स्वयमपि योद्धुं यास्यति | ओड़िशा-राज्यस्य जगतसिंहपुरस्य हुतात्मनः प्रसन्नासाहू-वर्यस्य पत्न्याः मीना-महोदयायाः अदम्य-साहसम् अशेष-देशः
अभिनन्दति | सा स्वीयम्
एकमात्रमपि पुत्रं CRPF- इति
केन्द्रियारक्षितारक्षि-बले प्रवेशयितुं निरणैषीत् | यदा त्रिवार्णिक-ध्वजेन आवृतो हुतात्मनो विजय-शोरेन-वर्यस्य शवः झारखण्डस्य गुमला-स्थलम् आगच्छत्, तदा निर्दोषः तदात्मजः इदमेव अब्रवीत् यत्
अहमपि सेनासु प्रवेक्ष्यामि |
अस्य निर्दोष-बालस्य भावः साम्प्रतं भारतवर्षस्य प्रत्येकमपि बालस्य भावनाम् अभिव्यञ्जयति | एतादृश्यः एव भावनाः, अस्माकं वीराणां, पराक्रमिणाञ्च हुतात्मनां प्रतिगृहम् अवालोक्यन्ते | अस्मदीयः अन्यतमोsपि वीरो हुतात्मा अत्र अपवादरूपो नास्ति, तेषाञ्च कुटुम्बं अपवादत्वेन नैवास्ति | भवतु तत् देवरिया-क्षेत्रस्य हुतात्मनो विजय-मौर्यस्य कुटुम्बम्, आहोस्वित् भवतात् कांगड़ा-क्षेत्रस्य
हुतात्मनः तिलकराजस्य पितरौ
उताहो भवेत् कोटा-क्षेत्रस्य
हुतात्मनः हेमराजस्य
षड्वर्षीयः सुतः –
हुतात्मनां प्रत्येकमपि कुटुम्बस्य कथा, प्रेरणा-सम्भरितास्ति |
युवजनान् अहम् अनुरुन्धे यत्ते, एतैः कुटुम्बैः प्रदर्शितां भावनाम् अवगच्छेयुः, अनुभवितुञ्च प्रयतेरन् | किन्नाम भवति देशभक्तिः, त्याग-तपस्याचरणञ्च किं
भवति– एतदर्थम् इतिहासस्य प्राचीनाः घटनाः प्रति गमनस्यावश्यकता नैव भविता | अस्माकं समक्षमेव, एतानि जीवन्ति उदाहरणानि सन्ति
तथा चैतान्येव उज्ज्वल-भारतस्य भविष्यत्कृते प्रेरणा-कारणानि
सन्ति |
मम प्रियाः देशवासिनः, स्वातन्त्र्यावाप्तेः
एतावद्दीर्घ-कालपर्यन्तम्,
वयं सर्वे, यं युद्ध-स्मारकं
प्रतीक्षामहे स्म, सा
प्रतीक्षा साम्प्रतं समाप्त-प्रायास्ति | एतद्विषयिणी देशवासिनां जिज्ञासा, उत्सुकता च स्वाभाविके स्तः | NarendraModiApp-इत्यत्र कर्नाटकस्य उडुपीतः, श्री-ओंकारशेट्टी
राष्ट्रिय-युद्ध-स्मारकस्य सन्नद्धतामभिलक्ष्य स्वीयां प्रसन्नतां प्राकटयत् | अहम् आश्चर्यमपि अनुभवन्नासम्, तथा च, पीडामपि यत् भारते किमपि राष्ट्रिय-युद्ध-स्मारकं नास्तीति | एकमेतादृशं स्मारकं, यत्र राष्ट्र-रक्षायै निज-प्राणार्पकाणां वीर-सैनिकानां शौर्य-गाथाः संरक्षिताः स्युः | अहं निर्णीतवान् यत् देशे, एकमेतादृशं
स्मारकमवश्यं स्यात् |
वयं राष्ट्रिय-युद्ध-स्मारकस्य निर्माणार्थं निर्णीतवन्तः, तथा चाहं
प्रसीदामि यत् स्मारकमिदं
एतावति अल्प-काले निर्मितं जातम् |
श्वोsर्थात्,
मासेsस्मिन् पञ्चविंशे दिने, वयं
कोटिशो देशवासिनो
राष्ट्रिय-युद्ध-स्मारकं,
अस्मदीय-सेनाभ्यः
अर्पयिष्यामः | देशः स्वीयमृणं प्रतिशोधयितुं
लघु-प्रयासमेकं विधास्यति |
दिल्ल्याः
हृदयम् अर्थात् तत्स्थानं, यत्र इण्डिया-गेट्-अमरजवानज्योतिश्चेति
वर्तेते, एवम्, तत्पार्श्वे एव, इदं नूतनं स्मारकं
विनिर्मितमस्ति | विश्वसिमि यत् देशवासिनां कृते
राष्ट्रिय-युद्ध-स्मारकं प्रति गमनं हि तीर्थस्थल-गमन-सदृशं भविता |
राष्ट्रिय-युद्ध-स्मारकमिदं स्वतन्त्रताप्राप्तेः
अनन्तरं सर्वोच्च-बलिदान-कर्तॄणाम् अस्माकं सैनिकानां पुण्य-स्मृतौ राष्ट्रस्य
कृतज्ञता-प्रतीकरूपमेवास्ति
|
स्मारकस्य
प्रारूपम्, अस्मदीयानां अमरसैनिकानाम् अदम्यसाहसं
प्रदर्शयति
|
राष्ट्रिय-युद्ध-स्मारकस्य सङ्कल्पना, चक्र-चतुष्टय-केन्द्रितास्ति,
यत्र एकस्मिन्
चक्रे
सैनिकस्य जन्मतः आरभ्य सर्वोच्च-बलिदान-पर्यन्तं
विहित-यात्रायाः
चित्रणमस्ति
|
अमरचक्रस्य
दीपशिखा, हुतात्म-सैनिकस्य अमरता-प्रतीकत्वेन
वर्तते | द्वितीयं हि वीरताचक्रमस्ति
यद्धि सैनिकानां
साहसं
पराक्रमं च प्रदर्शयति | एषा
एका तादृशी कला-वीथिकास्ति यत्र भित्तिषु सैनिकानां शौर्यपूर्ण-कार्याणि
उत्कीर्णानि सन्ति | ततः परं, त्यागचक्रं
वर्तते, चक्रमिदं सैनिकानां बलिदानं प्रदर्शयति |
अस्मिन् देशस्य कृते सर्वोच्च-बलिदान-कर्तॄणाम् अस्माकं सैनिकानां नामानि स्वर्णाक्षरैः
लिखितानि
सन्ति | ततः परं रक्षकचक्रम्, सुरक्षां प्रदर्शयति |
अस्मिन् चक्रे सघन-वृक्ष-पङ्क्तिः अस्ति | एते
वृक्षाः सैनिकप्रतीक-रूपाः सन्ति, तथा च देशस्य
नागरिकान्
विश्वासयन्तः
सन्देशममुं
प्रददति यत् प्रतिपलं सैनिकाः सीम्नि नियुक्ताः सन्ति, तथा च देशवासिनः
सुरक्षिताः
सन्ति | आहत्य परिशीलयेम चेत् तदा
राष्ट्रिय-युद्ध-स्मारकस्य अभिज्ञानं तादृश-स्थानरूपेण भविता यत्र जनाः देशस्य महतां
हुतात्मनां विषयेsवगन्तुं, स्वीय-कृतज्ञतां प्रकटयितुं,
तान् चानुसन्दधातुम् आगमिष्यन्ति | अत्र तेषां बलिदानिनां
कथाः वर्तन्ते ये हि देशरक्षार्थं निज-प्राणान्
समर्पितवन्तः येन वयं जीवितुं शक्नुयाम, येन च देशः सुरक्षितो
भवेत् विकसितुञ्च
पारयेत् | देशस्य विकासार्थम् अस्माकं सशस्त्रबलानाम्,
रक्षिणाम् अर्द्धसैनिक-बलानाञ्च महद्-योगदानं
हि शब्दैः अभिव्यञ्जयितुं नैव शक्यते | विगते वर्षे ओक्टोबरमासे
राष्ट्रियारक्षि-स्मारकमपि देशाय समर्पयितुमहं सौभाग्यमलभे
|
तदपि अस्माकं तस्य विचारस्य प्रतिबिम्बमासीत् यदन्तर्गतं वयं मन्यामहे
यत् देशः
तान् पुरुषान्
महिलाः
आरक्षि-कर्मिणश्च प्रति कृतज्ञः स्यात् ये ह्यनारतम् अस्माकं सुरक्षायां
संलग्नाः सन्ति | आशासे यत्
भवन्तः राष्ट्रिय-सैनिक-स्मारकं राष्ट्रियारक्षि-स्मारकञ्चावलोकयितुं नूनं
यास्यन्ति | भवन्तो यदापि तत्र गच्छेयुः, तत्रादत्तानि
स्वीय-चित्राणि सामाजिक-सञ्चार-माध्यमेषु अवश्यं सम्विभाजयेयुः येन अपरेsपि
जनाः प्रेरिताः
भवेयुः, तथा च, तेsपि पवित्रस्थलमेतत्,
स्मारकमिदम् अवलोकयितुं समुत्सुकाः स्युः|
मम प्रियाः देशवासिनः, ‘मन की बात’ –
इति कार्यक्रमस्य कृते भवतां सहस्रशः पत्राणि टिप्पणीश्चाहम्,
पृथक्-पृथक्-माध्यमेभ्यः पठनार्थं लभे |
अस्मिन् क्रमे यदाहं भवतां टिप्पणीः पठन्नासम्, तदा ‘आतिश-मुखोपाध्याय-महोदयस्य’ एका रुचिकरा टिप्पणी
ममावधाने आगता | तेन लिखितं यत् ऊनविंश-शततमे वर्षे मार्चमासे
तृतीये दिने, आङ्ग्लाः बिरसा-मुंडा
इत्येनं निगृहीतवन्तः तदा अस्यायुः केवलं पञ्चविंश-वर्षमितमासीत् | अयन्तु संयोगः
यत् मार्च-मासीये तृतीये दिने एव जमशेदजी-टाटा-महोदयस्यापि
जयन्ती
वर्तते | तथा चासौ अग्रे लिखति – एतद्-व्यक्तित्व-द्वयमपि
पूर्णतया पृथक्-पृथक्-पारिवारिक-पृष्ठभूमि-द्वयात्
वर्तते, याभ्यां झारखण्डस्य रिक्थम् इतिहासश्च समृद्धि-सम्भरितौ
विहितौ | ‘मन की बात’- इत्यत्र ‘बिरसा मुंडा’-‘जमशेदजी-टाटा’-महोदयाभ्यां
श्रद्धाञ्जलि-प्रदानावसरः,
प्रकारान्तरेण झारखण्डस्य गौरवशालिनम् इतिहासं
रिक्थञ्च प्रति प्रणति-सदृशं वर्तते | आतिश-महोदय ! अहं भवता सहमतोsस्मि | अमुना
महता विभूति-द्वयेन
न केवलं झारखण्डस्य, अपितु अशेषदेशस्य
कीर्तिः वर्धापिता | सम्पूर्णोsपि देशः अनयोः योगदानस्य
कृते कृतज्ञोsस्ति
|
अद्य, यदि अस्माकं नवयुवकानां मार्गदर्शनार्थं
कस्यचन प्रेरणादायिनो व्यक्तित्वस्य
आवश्यकतास्ति चेत्, सोsस्ति भगवान् ‘बिरसामुंडा’ | आङ्ग्लाः
निलीय, अतिचातुर्येण तं तदा निगृहीतवन्तः यदासौ
शयानः आसीत् | किं भवन्तो जानन्ति यत् ते कथमेतादृशं क्लैब्य-पूर्णं
कार्यमाश्रितवन्तः? यतो हि एतावतो महतः साम्राज्यस्य
प्रतिष्ठापकाः आङ्ग्लाः अपि
तस्मात् भीताः तिष्ठन्ति स्म | भगवान् ‘बिरसामुंडा’
केवलं स्वीयैः पारम्परिकैः धनुष्बाणैः एव
भुशुण्डी-शतघ्नी-युतम् आङ्ग्लशासनं दोलायितमकरोत् |
वस्तुतस्तु, यदा जनाः प्रेरणादायि-नेतृत्वं
लभन्ते तदा आयुधानां शक्तेरपेक्षया जनानां सामूहिकी इच्छाशक्तिः
बलवत्तरा भवति | भगवान् ‘बिरसामुंडा’ आङ्ग्लैः
साकं न
केवलं राजनीतिक-स्वाधीनतायै सङ्घर्षमकरोत्
परञ्च आदिवासिनां
आर्थिक-सामाजिकाधिकाराणां कृतेsपि युद्धमकरोत् |
स्वीये अल्पे एव जीवनेsसौ सर्वमप्येतत् अनुष्ठितवान् | वञ्चितानां शोषितानाञ्च
तमोमये जीवनेsसौ सूर्य-सदृशं प्रकाशं विस्तारितवान् | भगवान्
बिरसा-मुंडा पञ्चविंशवर्षीये
एव अल्प-वयसि
स्वीयं बलिदानमकरोत् | बिरसा-मुंडा-सदृशाः
भारत-मातुः
सुताः, देशस्य
सर्वेष्वपि कोणेषु अभूवन् | कदाचित् हिन्दुस्थानस्य कश्चन
तादृशः कोणो भविष्यति, यत्र शताब्देभ्यः प्रचलितेsस्मिन् स्वाधीनता-युद्धे,
केनचिद् योगदानं न प्रदत्तं भवेत् | परञ्चेदं दुर्भाग्यं यत्
एतेषां त्याग-शौर्य-बलिदान-कथाः
नूतन-सन्ततये नैव प्रापिताः | यदि, भगवद्-‘बिरसा-मुंडा’-सदृन्शि व्यक्तित्वानि
अस्मान् निजास्तित्व-बोधमकारयन् चेत्तदा जमशेदजी-टाटा-सदृन्शि व्यक्तित्वानि
देशाय बृहन्ति संस्थानानि प्रादुः | जमशेदजी-टाटा,
परमार्थतो दूरदृष्टासीत्, यो हि न
केवलं भारतस्य
भविष्यत्
अवालोकयत् परञ्च एतस्य सुदृढाम् आधारशिलामपि प्रतिष्ठापितवान् | असौ सम्यक्तया अवगच्छति स्म यत्
विज्ञान-प्रविध्युद्योगानां चक्रनाभित्वेन भारतस्य निर्माणं हि भावि-कालार्थं
परमावश्यकम् | इदं तस्यैव निदर्शनमासीत् यस्य परिणामरूपेण
टाटा-विज्ञान-संस्थानं स्थापितं यद्धि साम्प्रतं
भारतीय-विज्ञान-संस्थानमिति कथ्यते | एतावदेव नैव, असौ Tata Steel –इति
टाटा-लौहसार-सदृशानाम् अनेकेषां विश्वस्तरीय-संस्थानानाम् उद्योगानामपि
प्रतिष्ठापनम् अकरोत् | ‘जमशेदजी-टाटा’-‘स्वामिविवेकानंदजी’-इत्यनयोः
समागमः अमेरिकीययात्रावधौ जलपोते अभवत्, तदा तयोः चर्चायाः महत्वपूर्ण-बिन्दुः
भारते
विज्ञान-प्रविध्योः प्रचार-प्रसारेण संयुतः आसीत् | कथ्यते...
अनया एव चर्चया भारतीय-विज्ञान-संस्थानस्य आधारशिला
न्यस्ता |
मम प्रियाः देशवासिनः,
अस्माकं देशस्य पूर्व-प्रधानमन्त्रिणः मोरारजी-भाई-देसाई-महोदयस्य
जन्म फेब्रुआरि-मासे
ऊनत्रिंशत्तमे दिने अभवत् | यथा भवन्तः
सर्वेsवगच्छन्ति यद्दिनमिदं चतुर्षु वर्षेषु एकवारमेवायाति | सहजस्य, शान्तिपूर्ण-व्यक्तित्वस्य
च स्वामी, श्रीमोरारजी-भाईः देशस्य अनुशासिततमेषु
नेतृषु अन्यतमः आसीत् | स्वतन्त्र-भारते संसदि सर्वाधिकानां महाय-व्यय-पत्रकाणाम्
उपस्थापनस्य कीर्तिमानं मोरारजीभाई-देसाईमहोदयस्य
नाम्नि एव वर्तते | श्री-मोरारजीदेसाईः
तस्मिन् कठिने काले भारतस्य कुशलनेतृत्वमकरोत्,
यदा देशस्य लोकतान्त्रिक-स्वरूपं सङ्कटापन्नमासीत् |
एतदर्थं अस्मदीयाः भावि-सन्ततयोsपि तस्य कार्तज्ञ्यमावक्ष्यन्ति | श्रीमोरारजी-भाई-देसाईः लोकतन्त्रस्य
रक्षायै आपातकालं विरुद्ध्य प्रवर्तिते आन्दोलने आत्मानम् न्यस्तवान् | एतदर्थमसौ वृद्धावस्थायामपि बहुमूल्यं प्रादात् | तस्मिन् समये सर्वकारः तं निगृह्य कारायां न्यक्षिपत् | ऊनविंश-शताब्दस्य सप्त-सप्ततितमे वर्षे यदा जनतापार्टीति
दलं निर्वाचनानि विजितवत्, तदासौ देशस्य प्रधानमन्त्रित्वमवाप्नोत् | तस्य कार्यकालावसरे एव चतुश्चत्वारिंशत्तमं सम्विधान-संशोधन-विधेयकमुपस्थापितम्
| एतत् सुतरां महत्वाधायि यतो हि आपातकालावसरे
यत् द्विचत्वारिंशत्तमं संशोधनमुपस्थापितम्,
यस्मिन् सर्वोच्च-न्यायालयस्य शक्ति-व्यवकलनम्, अपराणि चैतादृन्शि प्रावधानान्यासन्, यानि अस्मदीय-लोकतान्त्रिक-मूल्य-घातकान्यासन् – तानि
परावर्त्तितानि | यथा चतुश्चत्वारिंशत्तमस्य
संशोधनस्य माध्यमेन संसदः विधानसभानाञ्च कार्यानुष्ठानस्य वार्त्तापत्रेषु प्रकाशन-प्रावधानं
विहितम् | एतदन्तर्गतमेव, सर्वोच्च-न्यायालयस्य केचन अधिकाराः पुनः प्रवर्तिताः | अस्मिन्नेव संशोधने इदमपि प्रावधत्तं यत् संविधानस्य
विंशत्येकविंशत्योः अनुच्छेदयोः अन्तर्गतं अधिगतानां मौलिकाधिकाराणाम् आपातकालेsपि
हननं कर्तुं नैव शक्यते | प्रथमवारमेव
एतादृशं व्यवस्थापितं यन्मन्त्रिमण्डलस्य लिखितानुशंसाधारेण एव राष्ट्रपतिः आपातकालमुद्घोषयिष्यति, युगपदेव इदमपि सुनिश्चितं यत् आपातकालः एकस्मिन् क्रमे
षण्मासेभ्योsधिकावधये वर्धयितुं नैव शक्ष्यते | एवं
हि श्रीमोरारजी-भाईः इदं सुनिश्चितं कृतवान् यत् आपातकालं प्रवर्त्य, ऊनविंश-शताब्देः पञ्चसप्ततितमे वर्षे येन प्रकारेण लोकतन्त्रम्
आहतीकृतमासीत्, तत् भविष्यति काले पुनः आवर्तयितुं नैव शक्येत | भारतीय-लोकतन्त्रस्य माहात्म्यं सन्धारयितुं तस्य अमूल्य-योगदानम्, भावि-सन्ततयः सर्वदैव
स्मरिष्यन्ति | पुनरेकवारम् एतादृशे महते
नेत्रेsहं स्वीयं श्रद्धाञ्जलिमर्पयामि |
मम प्रियाः देशवासिनः, प्रतिवर्षमिव ऐषमः अपि पद्म-पुरस्कार-विषये जनेषु महती
समुत्सुकतासीत् | साम्प्रतं
वयं नूतन-भारतं प्रत्यग्रेसरामः | अत्र वयं तान् जनान् सम्मानयितुमभिलषामः ये हि
मूलाधार-स्तरे निजकार्याणि निष्काम-भावेन समाचरन्ति | निज-परिश्रमाधारेण
पृथक्-पृथक्-पद्धत्या अपरेषां जीवने सकारात्मकं परिवर्तनमापादयन्ति | वस्तुतस्तु, एते परमार्थतया कर्मयोगिनो वर्तन्ते, ये हि जनसेवायाम्, समाजसेवायाम्,
तथा च, सर्वोपरि राष्ट्रसेवायां निःस्वार्थभावेन संलग्नाः सन्ति | भवन्तो दृष्टवन्तो भवेयुः यद्- यदा पद्म-पुरस्काराः उद्घोष्यन्ते तदा जनाः
पृच्छन्ति यदयं कः इति? एकतस्तु
एषास्ति महती सफलता इति मन्ये यतो हि एते,
ते जनाः सन्ति ये हि पत्रिका-दैनिक-वार्त्तापत्र-दृश्यवाहिनीनां प्रमुखवार्तासु
प्रथम-पृष्ठे च नैव चर्च्यन्ते | एते
चाकचिक्यस्य संसारात् दूरे एव वर्तन्ते,
परञ्च एते तादृशाः जनाः सन्ति, ये हि
स्वीय-नाम्नः प्रचारं नैव समीहन्ते | केवलम्, आधारस्तरीये कार्यानुष्ठाने विश्वसन्ति
| ‘योगः कर्मसु कौशलम्’- इति गीता-सन्देशं
ते साक्षात् जीवन्ति | अहम्
एतादृशानां केषाञ्चन जनानामेव विषये भवतः सूचयितुं वाञ्छामि | ओडिशा-राज्यस्य दैतारी-नायकस्य विषये भवन्तोsवश्यं
श्रुतवन्तः स्युः, सः ‘Canal Man of the Odisha’-इति
ओडिशा-कुल्या-पुरुषः इति निरर्थकं नैव निगद्यते, दैतारी-नायकः निज-ग्रामे
स्वीय-हस्ताभ्यामेव पर्वत-कर्तनं कृत्वा किलोमीटर-त्रय-मितायाः जल-कुल्यायाः
मार्गं विनिर्मितवान् | स्वीय-परिश्रमेण
सेचन-पेयजल-समस्यां सर्वकालार्थं समाहितवान् | गुजरातस्य
अब्दुल-गफूर-खत्री-महोदयमेव अभिजानन्तु, असौ कच्छ-क्षेत्रस्य पारम्परिक्याः रोगन-चित्रकलायाः
पुनर्जीवनं विधाय अद्भुतकार्यमकरोत् | असौ एनां दुर्लभ-चित्रकलां नूतन-सन्ततिं यावत्
प्रापणस्य बृहत्कार्यं विदधाति | अब्दुल-गफूर-द्वारा
चित्रितां ‘Tree of Life’-इति कलाकृतिमेवाहं
अमेरिका-पूर्व-राष्ट्रपतये बराक-ओबामा-महोदयाय उपहार-रूपेण प्रादाम्| पद्मपुरस्कार-प्रापकेषु मराठवाड़ा-क्षेत्रस्य शब्बीर-सैय्यदः
गौ-मातुः सेवक-रूपेण प्रख्यातोsस्ति |
सः येन प्रकारेण नैजं पूर्णमपि जीवनं गौमातुः सेवायामर्पितवान् – तदस्ति अनुपमम्
उदाहरणम् | मदुरै-चिन्ना-पिल्लईः तद्
व्यक्तित्वमस्ति, यो हि
सर्वप्रथमं तमिलनाडु-राज्ये कलन्जियम्-आन्दोलन-माध्यमेन पीडितानां शोषितानाञ्च क्षमीकरणार्थं
प्रायतत | युगपदेव, समुदायाधृतायाः लघु-वित्तीय-व्यवस्थायाः
शुभारम्भमकरोत् | अमेरिका-देशस्य
Tao Porchon-Lynch-विषये श्रुत्वा भवन्तः सुखदाश्चर्य-पुलकिताः
भविष्यन्ति | Lynch-महाभागा
साम्प्रतं योगाचरणस्य जीवन्ती संस्था सञ्जातास्ति |
शत-वर्षीया सत्यपि सा अशेष-जगतो जनान् योगं प्रशिक्षयति, तथा च, साम्प्रतं यावत्
सार्ध-सहस्रं जनान् योग-शिक्षकान् व्यदधात् | झारखण्ड-राज्ये
‘Lady Tarzan’-इति नाम्ना विख्याता जमुना-टुडू
काष्ठापराधिनो नक्सलवादिनश्च सम्मुखीकर्तुं साहसिक-कार्यमकरोत् | सा न केवलं
पञ्चाशद्-हेक्टेयर्-मितं काननं शुष्कीभवनात् संरक्षितवती, परञ्च दश-सहस्रं महिलाः
समवेतीकृत्य वृक्षाणां वन्यजीवानाञ्च सुरक्षायै ताः प्रेरितवती | अयं हि जमुना-महोदयायाः परिश्रमस्य परिणामः एव यत्
साम्प्रतं ग्रामीणाः प्रत्येकमपि शिशोः जन्मावसरे अष्टादश-वृक्षान्, तथा च,
कन्यायाः विवाहावसरे दश-वृक्षान् आरोपयन्ति | गुजरातस्य
मुक्ताबेन-पंकजकुमार-दगली-महोदयायाः कथा भवतः प्रेरणाभरितान् विधास्यति, स्वयं दिव्याङ्गा सत्यपि सा दिव्याङ्ग-महिलानां समुन्नयनाय
कार्याणि अकरोत्,
एतादृशमुदाहरणं सुतरां दुर्लभं वर्तते | चक्षु-महिला-सेवाकुञ्ज-नाम्न्याः
संस्थायाः स्थापनां कृत्वा सा नेत्रहीनान् बालान् आत्मनिर्भरान् विधातुं तद्विषयके
पुनीतकार्ये संलग्नास्ति | बिहारस्य मुजफ्फरपुरस्य
किसान-चाची, अर्थात् राजकुमारी-देवी –
तस्याः कथा अतितरां प्रेरिकास्ति | महिला-शक्तिकरणं
कृषिञ्च लाभप्रदां विधातुं तद्दिशायां सा उदाहरणमेकं स्थापितवती | किसान-चाची-महाभागा स्वीय-क्षेत्रस्य त्रिशतं महिलाः ‘Self Help Group’- इत्यनेन संयोज्य आर्थिकरूपेण स्वावलम्बन-दिशि
ताः प्रेरितवती | सा
कृषि-कर्मणा साकमेव वृत्तितायाः अन्यसाधनविषये ग्रामीण-महिलाः प्रशिक्षितवती | अत्र वैशिष्ट्यमिदमेव यत् सा कृषिकर्मणा सार्धं प्रविधेः
संयोजनस्य कार्यमकरोत्, अपि च, मम देशवासिनः! कदाचित् प्रथमवारमिदं सम्वृत्तं यत्
ऐषमः ये पद्म-पुरस्काराः प्रदत्ताः तेषु द्वादश कृषकाः पद्म-पुरस्कारान्
अवाप्नुवन् | सामान्यतया
कृषि-जगत्-सम्बद्धाः अत्यल्पाः जनाः, तथा च, प्रत्यक्षं कृषिकर्म-निरताः बहुशो
न्यूनाः जनाः पद्मश्री-पुरस्कार-सूचौ समाविष्टाः सन्ति | एतत्तु
स्वयमेव, परिवर्तमानस्य हिन्दुस्थानस्य
जीवच्चित्रं वर्तते|
मम प्रियाः देशवासिनः, अद्याहं
भवद्भिः सर्वैः साकं हृदयस्पर्शिनं
मार्मिकञ्चैकम् अनुभवं सम्विभाजयितुं वाञ्छामि यमहं विगतेभ्यः
कतिचिद्दिवसेभ्यः सावेगमनुभवामि | अद्यत्वे देशे यत्रापि
यामि, मम प्रयासो भवति यत् ‘आयुष्मान्
भारत’- इति
PM-JAY-
अर्थात् प्रधानमन्त्रि-जनारोग्य-योजनायाः लाभार्थिनो
मिलेयम् | कैश्चित् जनैः साकं सम्भाषणावसरो लब्धः |
एकाकिनी जननी, तस्याश्च लघु-बालकाः – सा धनाभावात् उपचारादिकं कर्तुं नैवापारयत् |
अस्याः योजनायाः कारणात् ते उपचारिताः, सा च स्वस्थाभवत् | गृहस्य
अग्रणी, परिश्रमं कृत्वा निज-कुटुम्बस्य निर्वाहकः
सन् दुर्घटना-पीडितः सञ्जातः, कार्यं कर्तुं नैव पारयति स्म – अनया योजनया
सः लाभान्वितो जातः तथा चासौ पुनः स्वस्थः सम्वृत्तः,
नूतनजीवनं जीवितुम् |
भगिन्यो
भ्रातरश्च, विगतेषु पञ्च-मासेषु प्रायेण निर्धन-कुटुम्बानां द्वादश-लक्षम् अनया योजनया
लाभान्वितं सम्वृत्तम्
|
अहमन्वभवं यत् निर्धनस्य जीवनमनया योजनया कियत् बृहत्-परिवर्तनमनुभवति
|
भवन्तः सर्वेsपि यदि कञ्चित्
तादृशं निर्धनं जनं जानन्ति, यो हि धनाभावात् उपचारं कर्तुं नैव पारयति
चेत्, तदा तमस्याः योजनायाः विषये नूनम् अवबोधयन्तु | योजनैषा
प्रत्येकमपि निर्धन-जनायैव वर्तते |
मम
प्रियाः देशवासिनः, विद्यालयेषु परीक्षा-कालः
आसन्नप्रायः एव | सम्पूर्णस्यापि देशस्य पृथक्-पृथक्-शिक्षामण्डलानि
आगामिषु कतिपय-सप्ताहेषु दशम्याः द्वादश्याः च कक्षयोः परीक्षायै प्रक्रियामारप्स्यन्ते
|
परीक्षा-प्रदायकेभ्यः
सर्वेभ्यः विद्यार्थिभ्यः, तेषामभिभावकेभ्यः,
सर्वेभ्यः शिक्षकेभ्यश्च मम हार्दिक्यः शुभकामनाः|
कतिपयेभ्यः
दिनेभ्यः
प्राक् दिल्ल्यां ‘परीक्षा पे चर्चा’-इति
बृहदायोजनं Town Hall-पद्धत्या
सम्पन्नम् | कार्यक्रमेsस्मिन्
प्रविधि-माध्यमेनाहम्, देश-विदेशानां कोटिशः छात्रैः साकं,
तेषामभिभावकैः
सह, शिक्षकैश्च
सार्धं, सम्भाषणस्य अवसरमवाप्नवम् | ‘परीक्षा पे चर्चा’ – इत्यस्य विशेषतेयमासीत्
यत् परीक्षा-सम्बद्धान्
विभिन्न-विषयान्
आधृत्य मुक्तमनसा सम्भाषणमजायत | केचन तादृशाः पक्षाः
समुपस्थिताः ये हि निश्चितरूपेण विद्यार्थिनां कृते लाभदायिनो
भवितुमर्हन्ति | सर्वेsपि विद्यार्थिनः,
तेषां शिक्षकाः, पितरौ
च YouTube-इत्यत्र
कार्यक्रमस्य
ध्वनि-चित्राङ्कनं पूर्णतयावलोकयितुमर्हन्ति, तर्हि
सम्भावितानां परीक्षाणां कृते सर्वेभ्यः परीक्षा-योद्धृभ्यः मम भूयस्यो मङ्गल-कामनाः
|
मम प्रियाः देशवासिनः,
यत्र भारतं चर्च्यते तत्र उत्सवाः नैव
चर्च्यन्ते इति तु नैव सम्भाव्यते | कदाचिदेव अस्माकं देशे किमपि दिनमेतादृक्
नैवास्ति, यस्य महत्त्वं न स्यात्,
यस्य कश्चन उत्सवो नैव भवेत् | यतो हि सहस्रशो वर्ष-प्राचीनायाः
संस्कृतेः
रिक्थमिदं अस्माकं पार्श्वे वर्तते | केषाञ्चन दिनानाम् अनन्तरं महाशिवरात्रि-पर्व
आगमिष्यति, तथा च, ऐषमः शिवरात्रिपर्व सोमवासरेsस्ति,
यदा शिवरात्रिः
सोमवासरे
भवेत्तदा तस्य विशिष्टं महत्वम् अस्माकं मनो-मन्दिरे
सुविराजते | एतन्महाशिवरात्रि-पावनपर्वावसरे
भवद्भ्यः सर्वेभ्यः मम कोटिशो मङ्गल-कामनाः विलसन्तुतराम् |
मम प्रियाः देशवासिनः,
कतिपय-दिनेभ्यः प्रागहं काशीमगच्छम् | तत्राहं दिव्याङ्ग-भगिनी-भ्रातृभिः
साकं काल-यापनावसरम् अलभे | तैः साकं अनेक-विषयान् आलक्ष्य चर्चा जाता,
तथा च, तेषाम् आत्मविश्वासः यथार्थतः प्रभावकः
प्रेरकश्चासीत्
|
चर्चावसरे तेषु अन्यतमेन प्रज्ञाचक्षुषा नवयुवकेन साकं सम्भाषमाणः
आसम् तदा सः अवोचत् यदहन्तु रङ्गकर्मी कलाकारोsस्मि | मनोरञ्जन-कार्यक्रमेष्वहं
मनोरञ्जनात्मकम् अनुकरणं करोमि, तदा मया एवमेव पृष्टं यत् भवान्
कस्यानुकरणं करोतीति ? तदा तेनोक्तं यत् अहं प्रधानमन्त्रिणम्
अनुकरोमि | तर्हि अहं किञ्चित् प्रदर्शयितुं तमुक्तवान्,
तथा च, मम कृते सुतरामतितराञ्च सुखदमाश्चर्यमासीत्,
तदा सः ‘मन की बात’-प्रसारणे यथाहं सम्भाषे, तदेव तेनानुकृतम्, सः ‘मन की बात’-कार्यक्रमम् अन्वकरोत् |
एतत् श्रुत्वा नितरां प्रसन्नतामनुभूतवान् यत् जनाः न केवलं ‘मन की बात’-कार्यक्रमं
शृण्वन्ति, परञ्च, अनेकेषु अवसरेषु एनं स्मरन्त्यपि |
सत्यमेवाहं तस्य दिव्याङ्ग-नवयुवकस्य शक्त्या अतितरां प्रभावितः|
मम प्रियाः
देशवासिनः, ‘मन की बात’-कार्यक्रमस्य माध्यमेन
भवद्भिः साकं सञ्जायमानं संयोजनं मम कृते अनुपमानुभवरूपमासीत् | रेडियो-माध्यमेनाहं
प्रतिमासम् एकतः कोटि-कोटि-कुटुम्बैः सम्भाषे | नैकवारन्तु भवद्भिः सर्वैः सम्भाषमाणः,
भवतां पत्राणि पठन् आहोस्वित् भवद्भिः दूरभाषेण प्रेषितान् विचारान् शृण्वन्
चाहमनुभवामि यत् भवन्तो मां निज-कुटुम्बस्यैव अङ्गत्वेन स्वीकृतवन्तः | एषास्ति
मम कृते भूयसी सुखदानुभूतिः |
मित्राणि,
निर्वाचनानि नाम लोकतन्त्रस्य सर्वोत्तमः उत्सवः |आगामि-मास-द्वये,
वयं सर्वे निर्वाचनानां कार्य-बहुले प्रपञ्चे व्यापृताः भविष्यामः | स्वयमहमपि,
एतेषु निर्वाचनेषु प्रत्याशी भवितास्मि | स्वस्थां
लोकतान्त्रिक-परम्परां सम्मानयन्
भावि ‘मन की बात’ इति मे-मासे अन्तिमे रविवासरे
प्रसारयिष्यामि | अर्थात् मार्च-मासः,
एप्रिल्-मासः पूर्णश्च मे-मासः चेति मास-त्रयस्य सर्वाः अस्मदीयाः भावनाः
सन्ति, ताः सर्वाः निर्वाचनानाम् अनन्तरं नवीनेन विश्वासेन साकं
भवताम् आशीर्वाद-सामर्थ्येन सह, पुनरेकवारं ‘मन की बात’-माध्यमेन
अस्मदीय-सम्भाषणस्य शृङ्खलाम् आरभिष्ये, तथा च, अनेक-वर्षाणि यावत् भवद्भिः साकं ‘मन की बात’-प्रसारणं
सम्विभाजयिष्यामि |
पुनरेकवारं भवद्भ्यः सर्वेभ्यः हृदयेन भूयो भूयः धन्यवादान्
व्याहरामि | ....
*****
--- भाषान्तर-कर्ता - डॉ.बलदेवानन्द-सागरः